न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 253, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तबके ] प्रामाण्यस्वतस्त्वखण्डनम् । २१६ मानवत् सप्रतिसाधनोकर्तुमुचितमिति चेत् । न । गुणनिवृत्तिनिबन्धनायाः शङ्कायाः सुलभत्वात् । तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेद्, बोधनी । ततो नेदमपेतवक्तृदोषत्वं सप्रतिसाधनीकर्तुं युक्तमिति । न-इति । दोषाभावे तद्दोषनिबन्ध- नाप्रामाण्यशङ्कानिवृत्तावपि प्रामाण्यहेतुगुणनिवृत्तिनिबन्धनायास्तस्याः स्वस्यत्वात् । न हि स्वतः प्रामाण्यनिश्चय इत्यग्रे निवेदयिष्याम इति भावः । तस्या-इति । न तावद्दोषसंसर्गमन्तरेण प्रकाशः । धूमभ्रमाद्धिमत्येव वह्नयनुमितिर्वा कथं प्रमा, यथार्थलिङ्गज्ञानाजन्यत्वात् । न च वह्नयन्तरमेव तद्विषयः । प्रत्यभिज्ञानात् । गोत्वायैकव्यक्तिके तदभावाच्च । उच्यते । शुकादिवाक्ये भ्रान्त- प्रतारकवाक्ये च प्रमाणशब्दत्वेनातोक्तत्वाद्देववदीश्वरस्यैव यथार्थवाक्यार्थज्ञानं गुणो हेतुः, तस्य कार्यमात्रकर्तृत्वात् । शुकादिवाक्ये वेदतुल्यतया दोषाभावादिनाऽपि मन्तव्यत्वात् । न चैवं शब्दाभासोच्छेदः, तस्यापीश्वरकर्तृकत्वादिति वाच्यम् । तद्वाक्यार्थस्यासत्त्वेनेश्वरज्ञानाविषय- त्वात् । एवं लिङ्गाभासजन्यप्रमायामपीश्वरस्यैव यथार्थलिङ्गज्ञानं गुणः । एवं प्रमाया गुणजन्यतया शाब्दप्रमाया अपि गुणजन्यतया वेदे वक्तृन्तरस्याभावात् तदा- प्रकाशिका । तुल्यत्वात् । ईश्वरस्यैवेति । भ्रान्तप्रतारकवाक्य आहार्यसंसर्गज्ञानमेव यथार्थं गुणः सम्भवति तथापि शुकादिवाक्यसाधारण्यार्थमिदमेवोक्तम् । केचित्तु भ्रान्तप्रतारकस्यैव वाक्यं भ्रान्तप्रतारक- वाक्यं तथा च भ्रान्त एवान्यस्मिन् वक्तव्ये यत्रान्यद् वदति तत्संवादिवाक्यमत्र तत्पदेनोक्तमित्याहुः। न च भ्रान्तप्रतारकवाक्ये गुणसत्त्वेऽपि दोषसत्त्वात् कथं प्रमेति वाच्यम् । भ्रमस्य भिन्नविषय- त्वात् । प्रतारणायाश्च सद्वस्तुप्रतिपादनेच्छायास्तत्राभावात् । एवं लिङ्गाभासेति । अत्रापि शुकादिवाक्यसाधारण्यार्थमीश्वरज्ञानानुधरणम् । वस्तुतः पक्षतावच्छेदकविरोधिसाध्यनिष्ठप्रकृत- हेतुप्रतियोगिकव्यापकतानिषयत्वमेव परामर्शप्रयोजकमिति कूटलिङ्गपरामर्श एव तत्र गुणः । अत एवायथार्थरूपपरामर्परूपदोषसत्त्वात् कथं प्रमेति निरस्तम् । निरुक्तयथा विरोघिन एवायाथार्थ- याप्रमाप्रयोजकत्वात् । प्रकृते च तदभावादितिदिक । शाब्दप्रमाया अपीति । यद्यपि शाब्दप्र- मकरन्दः । भ्रान्तप्रतारकवाक्य इति । अत्राहार्यारोपं विना प्रतारणाया अभावात् स एव विषया- बाधात् प्रमारूप इति तमादाय यद्यपि गुणजन्यत्वमप्रत्यूहं तथापि समाधिसौकर्यादेतदुक्तम् । यद्वा, भ्रान्तप्रतारकस्येव वाक्यं भ्रान्तप्रकारकवाक्यं, तथा च बाधितमन्यदवगत्या- न्यदबाधितं यन्न दैववशाद् ब्रूते, तत्र भगवदनुद्देशेर्गुणत्वमिति वयं पश्यामः । अत एवो- क्तगुणजन्यत्वेऽपि भ्रमादिदोषजन्यत्वादप्रामाण्यमपि स्यादित्यपास्तम् । भ्रमस्य भिन्नविषयत्वेन तद्वाक्याजनकत्वात् , प्रतारणायाश्चाभावात् । केचित्तु विप्रलिप्सा विसंवादिप्रवृत्तिजनकेच्छा, टिप्पणी । वह्नयन्तरमेव तद्विषय इति । धूमसंसर्ग्यैव वह्निर्धूमलिङ्गकानुमितौ विषयः स च वह्निस्तत्र नास्त्येव यश्चास्ति स धूमसंसर्गिबह्नेर्विभिन्न एवेत्यर्थः । यद्यपि वह्नित्वेन गृही- तवह्निव्याप्तिकस्य लिङ्गस्य वह्निमास्यानुमितौ सामर्थ्यम् तथा च तत्रत्यवह्निभाने न क्षतिः । तथाप्येतद्दूरे सत्येव, यः पूर्वं धूमसम्बन्धित्वेन गृहीतः, तस्यैव धूलिपटलेन धूमत्वेन गृहीतेनानुमितौ भाने तद्वहेर्धूमसंबन्धिनिभिन्नत्वस्य प्रत्यभिज्ञानबाधितत्वादित्युत्तरं सौक- र्यार्थमाह । प्रत्यभिज्ञानेति । विशिष्टबुद्धौ विशेषणज्ञानस्य हि हेतुत्वमनभ्युपगम्येदम् ।