भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 242, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 242

२०८ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्या] इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतिताे मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता ॥ देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः साक्षात्साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम॥२०॥ इति श्रीन्यायकुसुमाञ्जलौ प्रथमः स्तवकः ॥ १ ॥ बोधनी । दयन्नुत्तरोत्तरं समीचीनतरन्यायपरिस्फूर्त्तये स्वचेतसि भगवतः सान्निध्यं प्रार्थयते-इत्येषा- इति । इति=एवमुपपादितेषा, असमा प्रत्यात्मसमवेतत्वेनासाधारणी विचित्रा धर्माधर्माख्या शक्तिर्नैया- यिकैर्दैवस्य सहकारिशक्तिरिति व्युत्पादिता । जीवाद्दष्टसापेक्षो भगवान् जगन्ति निर्मिमीत इति तेषां च स्थितिः । माध्यमिकैस्तु दुरुन्नीतिलतः स्वरूपसामर्थ्याद्देवमियमित्युन्नेतुमशक्यत्वाद् इन्द्रजाला- दिमायासादृश्यान्मायेति । सांख्यैस्तु मूलकारणत्वात्प्रकृतिरिति, ते हि प्रकरोति प्रपञ्चमिति प्रकृ- तिशब्दं निराहुः । वेदान्तवादिनस्तु प्रबोधात्तत्त्वसाक्षात्काराद्विभेति तिरोधत्ते इत्यविद्येति । यथा हि मिथ्याज्ञानं तत्त्वज्ञानेन विनश्यति तथा धर्माधर्मावप्युत्पन्नतत्त्वज्ञानस्य भोगद्वारेण विलीयेते, ततस्तयोरेवाविद्यात्वादविद्यामात्रविलसितः प्रपञ्च इति तेषामाघोषः । एवं तत्तत्प्रवृत्तिनिमित्तवशेन मायादिशब्दैरुदिता यस्य सहकारिशक्तिरसौ देवो गुणतयाधिष्ठानमतीत्यावस्थित एवोपरतजगन्नि- र्माणादिव्यापारः सोऽस्मदीयं समस्तव्यापारं साक्षात् कुर्वन्मम चेतसि संनिधत्तामिति ॥२०॥ उदयनगम्भीरभावप्रकटननिपुणेन वरदराजेन । व्याख्यात एव गहनः कुसुमांजलेः प्रथमखण्डः ॥ इति श्रीमद्दामदेवमिश्रसूनोर्वरदराजस्य कृतौ न्यायकुसुमाञ्जलिटीकायां प्रथमः परिच्छेदः ॥ प्रकाशः योपाधेः साध्याव्यापकत्वात् ॥ १९ ॥ साधनमात्रसमर्थनेऽपि प्राधान्याददृष्टं स्तबकार्थमुपसंहरन् मायिकाद्यागमविरोधमाह— इत्येषेति । प्रथम इतिशब्द उपसंहारे । यस्य देवस्य एषा अदृष्टरूपा सहकारिशक्तिः सहकारि- कारणम् असमा मायेत्युदिता । "यन्मायाप्रभवं विश्व"मित्यत्र मायाशब्देनादृष्टस्याभिधानात् । असम्त्वे हेतुः-दुरुन्नीतिः । अदृष्टमाययोर्महाविचारोन्नेयत्वात् । "प्रकृतिप्रभवं विश्व"मि- त्यत्राप्यागमेऽदृष्टरूपा शक्तिरेव प्रकृतिरुदिता । कुतः ? । मूलत्वात् । मूलकारणमेव प्रकृतिश- ब्दार्थः । अदृष्टञ्च तथा । अविद्याप्रभवत्वागमे सैवाविद्येत्युदिता । यतः **प्रबोधात्=**तत्त्वज्ञानादुभ- योरपि भीतिः । अविद्यावज्जनकाद्दष्टस्यापि ततो भयात् । तत्त्वज्ञाने तदनुत्पत्तेः ॥ प्रपञ्चः= प्रतारणा, तद्रचनायाः **कल्लोलः=**परम्परा, तस्य **कोलाहलः=**किंवदन्ती स विरतो यस्य, स **शान्तो=**द्वेषादिहीनो मम मनसि । **अभिरतिं=**विजातीयज्ञानानन्तरितचिन्तां स्वविषयाम् । **साक्षात् साक्षितया=**तन्न प्रत्यक्षेण साक्षीभवन् । **बध्नातु=**दृढीकरोत्वित्यर्थः ॥ २० ॥ इति श्रीमदामहोपाध्यायश्रीवर्द्धमानविरचिते न्यायकुसुमाञ्जलिप्रकाशे प्रथमः स्तबकः ॥ १ ॥ प्रकाशिका । व्याप्तिपरिहाराय मात्रेति । तथा च चेष्टादावेव साधनाव्यापकत्वमिति भावः ॥ १९-२० ॥ इति श्रीभगीरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां प्रथमः स्तवकः ॥ १ ॥ मकरन्दः । णाय—मात्रेति । तथा न चेष्टादावेव साधनाव्यापकत्वमिति भावः । न च मात्रपदं विनापी- श्वरज्ञानादिरूपव्यधिकरणगुणजन्यशब्दजशब्दे साधनाव्याप्तिरिति वाच्यम् । मूर्त्तवृत्तित्वस्य कार्यविशेषणस्य प्रागेवोक्तत्वात् । अन्यथा तत्रैव व्यभिचारापत्तेरिति ॥ २० ॥ इति श्रीमद्दामहोपाध्यायदेवदत्तारमजमद्दामहोपाध्यायश्रीमद्रुचिदत्तकृतौ कुसुमाञ्जलिमकरन्दे प्रथमः स्तबकः ॥ १ ॥