न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 256, कुल 608 में से
संदर्भ में पढ़ें२२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रकाशः । तस्य निश्चितत्वेन तथापि व्यभिचारात् । उच्यते । अनभ्यासदशोत्पन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यं तदन्यग्राह्यं वा, स्वाश्रये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात् , प्रकाशिका । त्वेनेत्यर्थः । अतो न पक्षदृष्टान्तासिद्धि। न वाग्रे दर्शितव्यभिचारविरोध इत्याहुः । अनभ्यासद- शोत्पन्नेति । इदं च भागासिद्धिवारणाय पक्षविशेषणम् हेतोरन्यतरोप लक्षणम् । न स्वाश्रयेति । न यावत्स्वाश्रयग्राह्यमित्यर्थः, तेन योगिज्ञानादिग्राह्यत्वमादाय न बाघः, सर्वविशेष्यकत्वे सति सर्व- प्रकारकत्वन्तु प्रामाण्यमपक्ष एवेति न निरुक्तसाध्येऽप्यंशतो बाघः । तदन्येति । यावत्स्वाश्रयग्रा- ह्यत्वे सति स्वाश्रयातिरिक्ताग्राह्यत्वं साध्यम् । तेन यथाश्रुतेऽनुमितिमादाय-सिद्धसाधनं मात्रपदप्र- वेशे योगिज्ञानमादाय बाध इति दूषणं निरस्तम् । स्वाश्रयीभूतास्मदादिज्ञानव्यक्त्यतिरिक्तमात्रग्रा- ह्यत्वं साध्यम् । तेन नोक्तदोषावकाश इति कश्चित् । स्वाश्रये सत्यपीति । अपिशब्दो विपक्ष बाधकसूचनाय सतिसप्तमीमहिम्ना सामानाधिकरण्यं लभ्यते तेन स्वाश्रयसमानाधिकरणस्वाश्र- मकरन्दः । ज्ञानत्वे व्यभिचारोपदर्शनपरं तदिति ज्ञानधर्मपरत्वेऽप्यदोष इत्यन्ये । मनभ्यासदशापन्नेति । कर्त्तव्यहेतुर्यावति तावंत एव पक्षत्वमभिमतम् । अनभ्यासदशापन्नेऽपि सर्वत्र न संशय इति यथाश्रुते भागासिद्धितादवस्थ्यापत्तेरिति । न स्वाश्रयेति । न यावत्स्वाश्रयग्राह्य मित्यर्थः । तेन योगीश्वरज्ञानस्य सर्वप्रामाण्याश्रयतया तद्ग्राह्यत्वेन न बाधः । यद्यपि सर्वविषयकज्ञानमात्रवृत्तिप्रामाण्यांशे बाधः । तथापि तस्य पक्ष- बहिर्भाव एवेति बोध्यम् । तदन्येति । स्वाश्रयान्येत्यर्थः । ननु परेषामपि प्रामाण्यस्यानुमिति- ग्राह्यत्वाभ्युपगमेन सिद्धसाधनम् । न च स्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः, उक्तन्यायेन प्रामा- ण्यमात्रस्यैव स्वाश्रयीभूतयोगीश्वरज्ञानादिग्राह्यतया बाधापत्तेरिति चेन्न । स्वाश्रयपदेन स्वाश्रय- त्वावच्छिन्नं न विवक्षितं, येनोक्तदोषः स्यात् , किन्तु स्वाश्रयीभूतास्मदादिज्ञानव्यक्तिः, तदति- रिक्तमात्रग्राह्यमित्यर्थः । स्वाश्रये सत्यपीति । विपक्षबाधक तर्कसूचनायापिशब्दः, सतिसप्तमीमहिम्ना च स्वाश्रयसा- मानाधिकरण्यं पक्षविशेषणं लभ्यते । तथा च स्वाश्रयसमानाधिकरणस्वाश्रयाधिकरणक्षणावधिकतृ- टिप्पणी । निराशः प्रामाण्यस्याप्युक्तज्ञानत्वात् । तस्य निश्चितत्वेनेति । ज्ञानरूपार्थस्य प्रामाण्याश्रयत्वे नाभिमतज्ञानज्ञानग्राह्यत्वेन निश्चितत्वेनेत्यर्थः । न स्वाश्रयग्राह्यमिति । भट्टं प्रति साधने च स्वाश्रयविषयकयावद्ग्राह्याभावः साध्यः । तेन नेश्वरज्ञानमादाय स्वमते बाधः, मीमांसकमात्रं प्रत्येव साधनीयत्वेन गुरुमते स्वाश्रययावद्ग्राह्यत्वस्यैव सत्त्वेन न सिद्धसाधनम् विशिष्य स्वाश्रय- विषयकज्ञानाजन्यज्ञानविषयत्वस्य विषयेऽपि सत्त्वाविरोधादित्यर्थः । तदन्यग्राह्यं चेति । मीमांसकसामान्यं प्रत्येव साधनस्य प्रस्तुतत्वेन प्रभाकरमते स्वाश्रयेणापि ग्रहणाद् भट्टादिकम्प्रत्येव तथात्वे जन्यस्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः । नातो भट्टादिमते स्वाश्रयातिरिक्तानुमित्यनुव्यवसायग्राह्यत्वेऽपि सिद्धसाधनम् । यद्वा भट्टादिमतेऽनुमित्य- नुव्यवसाययोः स्वातन्त्र्येणापि व्यवसायविषययावद्ग्राहकतवेन तयोस्तदंशे व्यवसायसमाना- कारकत्वा स्वाश्रयत्वेनैव सिद्धसाधनाभावान्मात्रपदन्न देयम् , स्वमते च प्रामाण्यानुमितिर्न व्यवसायसमानाकारिका व्यवसायविषयवह्निमत्पर्वतादेराधेयतया विशेष्यत्वे प्रकारत्वात् पर्वतादौ बह्वयधिकरणत्वादरेव वा प्रमात्वघटकत्वादिति । संशयविषयत्वादिति । स्वाश्रय-