न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 255, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २२१ बोधनी । यनान्तरीयस्यार्थक्रियादेः कारणगुणस्य वा विज्ञानान्निश्चितप्रामाण्यैः प्रवर्त्तकज्ञानैः सह संजातीय- त्वानुसंधानमभ्यासद्दशापत्तिः, तद्दशापन्नानां ज्ञानानामनंतरेणाप्य ऽक्रियादिविज्ञानं तजातीयानुस- न्धानादेव प्रामाण्यं निश्चीयते, तेन तत्र संशयिकत्वमसिद्धं भवेदित्यत उक्तम्-अनभ्यासदशा- याम्-इति। न च व्यभिचारव्यावर्त्तनायैव हेतोर्विशेषणम्। रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वा- दित्युक्तानसिद्धिपरिहारार्थमपि दृष्टत्वादिति। तज्जातीयत्वानुसंधानदशायां हि जाते ज्ञानेऽपि निश्चि- तेऽपि तत्स्वरूपे प्रामाण्यं प्रति संशेरते ज्ञातारः किमिदं प्रमाणमप्रमाणं वेति। तस्माज् ज्ञानस्वरू- पाद् स्वग्राहकाद्वा न प्रामाण्यनिश्चयः, किन्तु परतोऽर्थक्रियादिविज्ञानाद्, यथैवाप्रामाण्यनिश्चयः परतो प्रकाशः । व्यवसायेन गृह्यते । ज्ञानस्य विषयन्निरूप्यतया ज्ञानवित्तिवेद्यो विषय इति व्यवसाये भासमाने धर्मधर्मिवत्तद्वैशिष्ट्यमपि विषयः, व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । अत एव रजतत्वेन पुरो- वर्तिनं जानामीति तदाकारः । अन्यथा, पुरोवर्तिनं रजतञ्च जानामीति तदाकारापत्तिः । अप्रा- माण्यं तु परतो ज्ञायते, तदभाववत्त्वस्य भ्रमांगुलिखितत्वेनानुव्यवसायाविषयत्वात् । न चैव- मनुव्यवसायस्य यावद्व्यवसायविषयविषयकत्वे भ्रान्तभ्रान्तिज्ञसङ्करः, बाधानवतारदशायामिष्ट- त्वात् , तदवतारे तस्यैव प्रतिबन्धकत्वादिति । तत्र सिद्धान्त्याह । एवमिति । अनभ्यासदशायामिति भागासिद्धिवारणार्थम् , न तु व्यभिचारनिरासार्थम् । परतो ज्ञेयत्वस्य केवलान्वयित्वात् । ननु स्वस्याप्यन्यापेक्षया परत्वाद् भट्टमते ज्ञाताऽनुमितिग्राह्यत्वाच्च सिद्धसाधनम् । परतो ग्राह्यत्वेऽपि कदाचित् स्वतो ग्राह्यत्वावि- रोधाद् , अर्थेन व्यभिचारश्च । तस्य तज्ज्ञानग्राह्यस्य ज्ञानप्रामाण्यसन्देहेन सन्दिह्यमानत्वात् । न च ज्ञानत्वेन हेतुर्विशेषणीयः । ज्ञानविषयकज्ञानप्रामाण्यसन्देहाहि-ज्ञानरूपार्थसन्देहेऽपि प्रकाशिका । लीनज्ञानेनेत्यर्थः । तेन सार्वसाधारण्यम् । व्यवसायरूपेति । व्यवसायविषयं प्रत्येव प्रत्यासत्तिक- थनमिदम्, एतदभावेऽपि ज्ञानत्वादिभानादिति स्मर्त्तव्यम्। भागासिद्धिवारणार्थं पक्षविशेषणं बोद्धव्य- मितिशेषः । नन्विति । हेतुविशेषणमिति शेषः। न च ज्ञानत्वेनेति । न चैवं स्वरूपासिद्धिर्दृष्टान्ता- सिद्धी इति वाच्यम् । ज्ञानधर्मत्वेनेत्यर्थात् । न चैवं ज्ञानरूपार्थे व्यभिचारप्रदर्शनमग्रेतनं विरुद्धमिति वाच्यम् । तत्रापि ज्ञानपदेन ज्ञानत्वमभिधानात् । केचित्तु ज्ञानत्वेनेत्यस्य ज्ञानाविषयप्रतीत्यविषय- मकरन्दः । भागासिद्धिरिति । पक्षविशेषणं बोध्यमिति शेषः । न त्विति । हेतुविशेषणमिति शेषः । न च ज्ञानत्वेनेति । ज्ञानाविषयप्रतीत्यविषयत्वेनेत्यर्थः । यथाश्रुते स्वरूपासिद्धिप्रसङ्ग इति बोध्यम् । यत्तु ज्ञानधर्मत्वेनेत्यर्थ इति तन्न। ज्ञानरूपार्थेऽनुपदं व्यभिचारोपदर्शनविरोधात् । टिप्पणी । संग्रहः । अत एवेति । वैशिष्ट्यस्यापि विषयत्वादेव । ननु स्वतो ग्राह्यत्वं परतो- ग्राह्यत्वञ्च परस्परविरुद्धमिति स्वतो ग्राह्यत्वमङ्गीकर्तॄणामसिद्धमेव परतो ग्राह्यत्वमत आह । परत इति । तथा च न तयोर्विरोध इति । स्वाश्रयानतिरिक्तज्ञानग्राह्यत्वस्य परतस्त्वस्वरूपत्वाद् भट्टेति । अविरोधादिति । परतो ग्राह्यत्वस्य स्वतो ग्राह्यत्वासिद्धत्वं कल्पयितुन्न शक्यत इति भावः । तज्ज्ञानप्रामाण्यं तज्ज्ञानेन गृह्यत इत्येवं साधने त्वाह-अर्थेन व्यभि- चारश्चेति । तज्ज्ञानग्राह्यस्येति । अनेन साध्यव्यतिरेको दर्शितः । न च ज्ञानत्वेनेति । ज्ञानाविषयकप्रतीत्यविषयोऽत्र ज्ञानपदार्थः। तेन प्रामाण्यस्य ज्ञानत्वाभावेन स्वरूपासिद्धिरिति शङ्काया