न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 266, कुल 608 में से
संदर्भ में पढ़ें२३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां तुल्यम् । सोऽपि प्रामाण्यमाक्षिपति-त्युत्सर्गः । स च कचिद्बाधकेनापोद्यत इति चेत् । लिङ्गेऽप्येवमिति तुल्यम् । तर्हि प्रामाण्यानुमानेऽपि शङ्का तदवस्थैवेति निष्- फलः प्रयास इति चेत् । एतदपि तादृगेव । अनुपपद्यमानोऽर्थ एवासौ तथाविधः कश्चिद्, यः स्वप्नेऽपि नाभासः स्यात्ततो नाशङ्केति चेत् । लिङ्गेऽप्येवमिति समः समाधिः। कः पुनरसावर्थो यः स्वप्नेऽपि नाभासः स्यात्, यदनुपलम्भे विभ्रमावका- शोयादृगुपलम्भे च तद्बाध्यव्यवस्था । अन्यथा हि, तथाभूतस्यापि व्यभिचारे साऽ- बोधनी । सोऽपि इति । अनुपपद्यमानाभासोऽपि-इति । लिङ्गाभासोऽप्येवमित्याह-लिङ्गेऽपि-इति । यदि लिङ्गाभासेनापि प्रामाण्यानुमानं तर्हि तदनुमितप्रामाण्यज्ञानस्याप्यप्रामाण्यशङ्का निवृत्तेति व्यर्थः प्रामाण्यानुमानप्रयास इत्याह-तर्हि-इति । अर्थापत्तिवादिनोऽपि तुल्यमेतदित्याह-एतद- पि-इति । ननु यदन्तरेण हि यन्नोपपद्यते न तत् तदन्तरेणा प भवतीति संभवति, तस्मादनुपप- द्यमानस्याभासत्वं न संभवतीत्याह अनुपपद्यमान इति । तर्हि तद्विनाभूतस्य तेन विनापि भानासम्भवात् लिङ्गाभासोऽपि न संभवतीत्याह-लिङ्गेऽपि-इति । अत्रान्तरे पार्श्वस्थः पृच्छ- ति-कः पुनः इति । योऽसौ युवाभ्यामुच्यते नाभासः स्यादिति कोऽसावर्थ इति । उत्तरं यद- नुपलम्भे इति । यस्य तदितरव्यावर्तकधर्मविशिष्टस्य वस्तुनोऽनुपलम्भे भ्रान्तिर्भवति यादृश- स्योपलम्भे चासौ न भवति सोऽर्थः स्वप्नेऽपि नाभासः स्यादिति । अनाभासस्योपलक्षणान्तर- माह-बाध-इति । तदितरव्यावर्तकधर्मानुपलम्भोपलम्भाभ्यां हि ज्ञानयोर्बाध्यबाधकव्यवस्थे.ते । यद्वा, यादृशस्यो- पलम्भे बाधकं व्यवतिष्ठते नातः परं भवति सोऽप्यर्थः । अन्यथेत्यस्य विवरणं तथाभूत- स्यापि व्यभिचार इति । सापि = बाधकव्यवस्थापि न स्यात् । न ह्युभयोरविशिष्टायां व्यभि- चारशङ्कायामेकं बाधकमितरद् बाध्यमिति व्यवस्था सिध्येदिति । सापि मा भूत् का नो हानिर्- प्रकाशः । निश्चय इत्यर्थः । भट्टमते ज्ञाततारूपलिङ्गज्ञानस्य प्रामाण्यसंशयान्न तन्निश्चय इति तद्ग्राहकपरम्प- राप्रामाण्यानुस्मरणेऽप्यनवस्थेत्याह । तत्किमिति । सोऽपीति । मायालिङ्गनि झटिति परित्रा- जकत्वबुद्धिवदप्रमाऽपि प्रमेत्येव गृह्यत इत्यर्थः । फलमुखामनवस्थामाह । तर्हीति । यद- नुपलम्भ इति । यस्य विशेषस्य शुक्तित्वादेरनुपलम्भे शुक्तौ रजतभ्रमो यस्य तु शुक्तित्वादे- रुपलम्भे भ्रमबाधो व्यवतिष्ठते, स लोकसिद्ध इत्यर्थः । यद्यपि यदुपलम्भ इति वक्तुमुचितं, तथापि वस्तुगत्या विशेषस्य ज्ञानं न भ्रमविरोधि, अपि तु विशेषत्वेनेति दर्शयितुं यादृशित्युक्तम् । एव- मनभ्युपगमे लोकव्यवहारविरोध इत्याह । अन्यथेति । सा=भ्रमबाध्यव्यवस्था । बाधकस्य व्यभि- प्रकाशिका । सामान्यत आशङ्का, इदानीन्तु विशेषतः प्रश्चान्तरेण दोषान्तरदानाय चेति न पौनरुक्त्यम् । मकरन्दः । प्यनवस्थेति भावः । मिश्रमतेऽप्यनवस्था द्रष्टव्या । फलमुखीमिति । यद्यपि पूर्वमेवमाशङ्का परि- हृतैव, तथापि सामान्यतः सा, विशिष्येदानीमाशङ्केति न दोष इत्येके । प्रसङ्गान्तरेण दोषान्तर- दानाय पुनराशङ्केत्यन्ये । टिप्पणी । व्युत्पत्तेः प्रामाण्यधर्म्मत्वादित्यर्थः, तथा च ज्ञानेन विषयप्रामाण्यमेव ग्राह्यम् न तु प्रामाण्यध- र्मभूतं प्रामाण्यमिति भावः । अत्र स्वयंप्रमाण्यान्यत्वादिति पाठः ।