भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 267, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 267

द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २३३ पि न स्यात् । मा भूदितिचेन्न, भवितव्यं हि तत्त्वात्तत्त्वविभागेन । अन्यथा व्याघा- तात् । कथं हि नियामकनिःशेषविशेषोपलम्भेऽपि विपरीतारोपः ? तथाभावे वा तदतिरिक्तविशेषानुपलम्भे कथं बाधकम् । तदभावे त्वबोधस्य कथं भ्रान्तत्वमिति । स्यादेतत् । परतः प्रामाण्येऽपि नित्यत्वाद्भेदानामनपेक्षत्वं, महाजनपरिग्रहाच्च बोधनी । स्याद्-मा भूत इति । भवितव्यम् इति । बाधकज्ञानविषयस्तत्त्वं, बाध्यज्ञानविषयश्चातत्त्वमिति हि तत्त्वात्तत्त्वव्यवस्था, । ततो बाध्यबाधकव्यवस्वाभावेन तत्त्वात्तत्त्वविभागोऽपि न स्यादिति । मा भूद्विभागोऽपीत्यन्नाह- अन्यथा इति । मा भूदित्यस्यापि निर्णयस्य तत्त्वभावेन व्याघातादिति । यादृशोपलम्भ इत्यादिनोक्तमेवार्थमुपपादयन्नाह-कथं हि-इति । तथाभावे वा इति । निया- मकनिःशेषविशेषोपलम्भे वेति । अथ पूर्वपक्षेकदेश्याह-स्यादेतत् इति । अस्तु परतः प्रामाण्यं प्रमाणानां, तथापि वेदानां प्रकाशः । चारिजातीयत्वे बाध्यबाधकयोरविशेषाद् बाधकत्वमेव न स्यादित्यर्थः । अन्यथेति । लोकमर्या- दाऽतिक्रमे किमपि न तत्त्वमित्यस्याप्यतत्त्वत्वे कान्त्ययातत्त्वमिति, बाधकरय तत्त्वं बाध्यरयातत्त्व- मभ्युपेयमित्यर्थः । तथाभावे वेति । यदि नियामकनिःशेषविशेषोपलम्भेऽपि विपरीतारोपः स्यात् तदा तस्यारोपत्वं न तावद् बाधकं विना निश्चेयम् । सर्वरयारोपत्वप्रसङ्गात् । बाधकात् तन्निश्चये बाधकाभिमतस्यापि बाध्यतायामबाधकत्वप्रसङ्गात् । अवाध्यत्वे तु कथमशेषविशेषोपलम्भे समारोपसम्भव इति भावः । एवञ्च प्रामाण्यानुमेयत्वे बहुवित्तव्ययायाससाध्येऽपि गृहीतप्रामाण्यं न ज्ञानंप्रवर्तकम् । तस्य प्रामाण्यानुमितेः प्रागेव नाशात् । किन्तु तज्ज्ञानसमानविषयमप्रामा- ण्यशङ्काशून्यं ज्ञानान्तरमेव । न चैवं प्रामाण्यानुमितिरफला, तां विना तत्समानविषयज्ञानेऽप्र- माण्यसंशयादिति सारम् । अस्तु सपक्षतृष्णान्दे प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च परतस्त्वम् । वेदे तु नित्यतया वक्तुरभा- वान्त्र तत्र गुणाधीनं प्रामाण्यम् । ज्ञप्तिरपि तस्याप्तोक्तत्वं विनाऽपिमहाजनपरिग्रहादेव स्यादित्याह स्यादेतदिति । सर्गप्रलयसम्भवेन वेदस्य नित्यत्वं महाजनपरिगृहीतत्वञ्चासिद्धमित्याह । प्रकाशिका । बाधकाभिमतस्यापीति । अशेषविशेषोपलम्भेऽपि विपरीतारोपाभ्युपगमपक्ष इति शेषः । ज्ञानान्तरमेवेति । न च प्रामाण्यानुमितिरेव प्रवर्त्तिकास्तु स्वातन्त्र्येण इष्टतावच्छेदकवैशिष्ट्यां- वगाहित्वादिति वाच्यम् । इदन्तावच्छेदैन तद्वैशिष्ट्यावगाहिनो ज्ञानस्य प्रवर्त्तकत्वात् प्रामाण्यानु- मितेश्चातथात्वात् । तां विनेति । न चान्यत्र प्रामाण्यनिश्चयेऽन्यत्र कथं तत्संशयप्रतिबन्ध इति वाच्यम् । यद्धर्मावच्छेदेन यद्धर्मग्रहस्तद्धर्मग्रहस्य तत्कोटिकसंशयविरोधित्वात् । वस्तुतः प्रामा- ण्यानुमित्युपनीतं प्रामाण्यमेवोत्तरज्ञानुव्यवसाये भासत इति दिक् । कोलाहलयाव्याप्तिकत्वे मकरन्दः । बाधकाभिमतस्यापीति । अशेषविशेषोपलम्भेऽपि विपरीतारोपाभ्युपगमपक्षे इति शेषः तां विनेति । न चान्यत्र विशेषदर्शनस्य धर्म्यन्तरे शङ्काप्रतिबन्धकत्वेऽतिप्रसङ्ग इति वाच्यम् । अन्वयव्यतिरेकाभ्यामनन्यगत्याऽत्रैव तथा कल्पनादित्येके । तद्विषयकत्वावच्छेदेन पूर्वज्ञाने प्रामा- ण्यग्रहात् तज्ज्ञानत्वमेव विशेषदर्शनमित्यन्ये । वस्तुतस्तु तस्योपनीतभानसामग्रीत्वेन तद्ग्रहा- नन्तरमुपनीतं प्रामाण्यं तत्र भासत इति न तत्र शङ्केति प्रत्यक्षप्रकाशे विपश्चितम् । अन्यथा तस्य व्याप्यत्वेनाग्रहे शङ्काविरोधित्वानुपपत्तेरिति ध्येयम् । धूमत्वदर्शनस्यः व्याप्तिसंशयविरोधित्ववत् पृथगेव तस्य तद्विरोधित्वमित्यप्याहुः । २६ न्या० कु०