न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 268, कुल 608 में से
संदर्भ में पढ़ें२३४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यानं प्रामाण्यमिति को विरोधः ? । न । उभयस्याप्यसिद्धेः । न हि वर्णा एव तावन्नि- त्याः । तथा हि । इदानीं श्रुतपूर्वो गकारो नास्ति, निवृत्तः कोलाहल इति प्रत्य- क्षेणैव शब्दध्वंसः प्रतीयते । न हि शब्द एवान्यत्र गतः । अमूर्त्तत्वात् । नाप्या- वृतः । तत एव संबन्धविच्छेदानुपपत्तेः । नाप्यनवहितः श्रोता । अवधानेऽप्यनु- पलब्धेः । नाऽपीन्द्रियं दुष्टं, शब्दान्तरोपलब्धेः । नाऽपि सहकार्यन्तराभावः । अन्वयव्यतिरेकवतस्तस्यासिद्धेः । नाप्यतीन्द्रियम् । तत्कल्पनायां प्रमाणाभावात् ।
बोधनी । वक्तृगुणज्ञानादिनिरपेक्षमेव प्रामाण्यं सिद्ध्यति, नित्यत्वेन तदनपेक्षत्वात् महाजनपरिग्रहाच्च प्रा- माण्यसिद्धेः, ततः प्रमायाः परतन्त्र्येऽपि नेश्वरसिद्धिरिति भावः । न-इति । नित्यत्वस्य तद- धीनानपेक्षत्वस्य चासिद्धिः । यद्वा, नित्यत्वस्य परिग्रहस्य च, यद्यपि सिद्धः परिग्रहस्तथापि नित्यत्वे वेदस्य निर्मूलतया अप्रतर्कल्प एवेति भावः । नित्यत्वासिद्धिमाह-न हि-इति । वर्णा- नामेवानित्यत्वे कुतस्तत्समुदात्मकस्य पदस्य नित्यत्वं, कुतस्तरां तत्समूहात्मनो वाक्यस्य, कुत- स्तमां तत्समूहात्मनां वेदानामिति तावच्छब्दस्यार्थः । कथं वर्णानामनित्यत्वमित्यत आह-तथा हि इति । विशेषतः सामान्यतश्च शब्दानां ध्वंसरूपमनित्यत्वं श्रोत्रप्रत्यक्षेणानुभूयत इति । नन्वयं शब्दानुपलम्भ एव, स च ध्वंसं विनाप्युपपत्स्यत इत्यत्राह-न हि इति । अमूर्त्तत्वस्य नि- ष्क्रियत्वंव्याप्तेरिति । अमूर्त्तत्वादेव शब्दस्येन्द्रियसंबन्धविच्छेदलक्षणमावरणमपि घटादेरिव न घटत इत्याह-नापि इति । नापि सत्येवेन्द्रियसंबन्धे श्रोतुरनवधानादनुपलब्धिरिन्द्रियदोषाद्वा संभवतीत्याह-नाप्यनवहितः-इति । नन्वदुष्टेऽपि श्रोत्रेन्द्रिये प्रतिशब्दं तत्सहकारिणो भेदा- च्छब्दान्तरोपलम्भेऽप्यनुपलम्भः शब्दान्तरस्योपपद्यते, तेन न तदनुपलम्भः सहकार्यन्तराभाव- दित्यत आह-नापि सहकारि-इति । शब्दोपलम्भं प्रत्यन्वयव्यतिरेकवतः सहकारिणः प्रत्य- क्षेणासिद्धिरिति । तस्यातीन्द्रियत्वेनानुपलब्धिरित्यत्राह-नापि-इति । श्रुतस्य शब्दस्याभावेनै- वोत्तरकालमनुपलम्भोपपत्त्यर्थं सहकारिकल्पनायां प्रमाणाभावादिति । तथापि तावत्कल्पने श्व-
प्रकाशः। उभयस्येति । यद्यपि वर्णानां नित्यत्वेऽप्यर्थप्रत्यायनानुकूलानित्यानुपूर्वीविशेषघटितत्वेन वेदोऽ- नित्य एवेति तत्र वक्तृगुणापेक्षाऽस्त्येव, तथापि वर्णस्यानित्यत्वव्युत्पादने तत्समूहविशेषवाक्यवि- शेषरूपस्य तस्य सुतरामनित्यत्वं सिद्ध्यतीत्याशयेन वर्णमात्रस्यानित्यत्वं साधयति । तथा हीति । अनभिव्यक्तवर्णत्वव्याप्यजातिविशेषो वर्णसमूह एव कोलाहलः । प्रत्यक्षमेव वर्णस्यानित्यत्वम् । योग्यानुपलब्धेः प्रत्यक्षप्रतियोगिकाभावत्वेनैव घटाभावस्येव तदभावस्य प्रत्यक्षत्वादित्यर्थः । प्रत्यक्षस्यान्यथासिद्धिं निराकरोति । न हीति । येन सन्नपि नोपलभ्यत इत्यर्थः । तत एव = अमूर्तत्वादेव । इन्द्रियसम्बन्धविच्छेदो ह्यावरणम् । स च शब्दस्य विभुत्वादाकाशविशेषगुणत्वे च श्रोत्रसमवायस्य नित्यत्वादयुक्त इत्यर्थः । तत्कल्पनेति । अतीन्द्रियशब्दोपलम्भककल्पनेत्यर्थः । ननु प्रतियोगियोग्यता मात्रंनाभावप्रत्यक्षत्वे तन्त्रं, किन्त्वधिकरणयोग्यताऽपि । सा च शब्द-
प्रकाशिका। तद्विनष्टत्वप्रतीतिर्न वर्णानित्यत्वे प्रमाणमत आह । शब्दस्य विभुत्वादिति भट्टमते । श्रोत्रसमवा- यस्येति । नित्यप्रतियोगिकसमवायस्य गुरुणापि नित्यत्वाभ्युपगमादिति भावः । विवादविषयत्वं
मकरन्दः। ननु कोलाहलस्य ध्वन्यात्मकत्वात् तदनित्यत्वेऽपि वर्णानित्यत्वं न सेत्स्यतीत्यत आह । अनभिव्यक्तेति । शब्दस्य विभुत्वादिति भट्टमते । अन्यशब्दध्वंसेऽपि कदा चिद्विवादसम्भ-