न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 269, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] शब्दानित्यत्वोपपादनम् । २३५ अन्यथा, घटादावपि तत्कल्पनाप्रसङ्गात् । न च शब्दस्य नित्यत्वसिद्धौ तत्कल्प- नेति युक्तम् । निराकरिष्यमाणत्वात् ॥ ये त्वेकदेशिनो नैवमिच्छन्ति, तान् प्रत्युच्यते । विवादाध्यासितः शब्दप्र- ध्वंसः, इन्द्रियग्राह्यः, ऐन्द्रियकाभावत्वात्, घटाभाववत् । नैतदेवम्, बोधनी । स्तेऽपि घटेऽनुपलम्भः सहकारिविरहादिति स्यादित्याह—अन्यथा इति । ननु घटादौ न तत्क- ल्पनमनियतत्वात् , तस्मान्नित्यस्य शब्दस्यानुपलम्भः सहकारिविरहनिबन्धन एवेति तत्कल्पना युक्तेत्यत्राह—न च शब्दस्य—इति । ये तु नैयायिकैकदेशिनः शब्दध्वंसस्य प्रत्यक्षत्वं नेच्छन्ति तान्प्रति तत्रानुमानमिदमाह इत्याह-ये तु इति । आद्यादिशब्दप्रध्वंसव्यावर्त्तनायोक्तं—विवादाध्यासितः-इति । ऐ- न्द्रियकाभावत्वात्-इति । ऐन्द्रियकस्य प्रतियोगिनः प्रध्वंसाभावत्वादित्यर्थः । तथा च न सा- ध्याविशिष्टत्वं, नापि परमाणुवर्तिना घटरूपाभावेन व्यभिचार इति । एकदेशी शङ्कते–नैतदेवम्- इति । अभावस्य तावदिन्द्रियेण संयुक्तादिविशेषणविशेष्यभावसन्निकर्षः, न चायं श्रोत्रेण तदा- श्रयस्य शब्दप्रध्वंसस्यास्ति, न चासंयुक्तमिन्द्रियेण गृह्यते, अतीन्द्रियाकाशश्रयथ शब्दप्रध्वंसस्तं- प्रकाशः। ध्वंसे नास्तीति कथं प्रत्यक्षः सः । न चेन्द्रियविशेषणतया कस्य चिद् ग्रहो दृष्टः, अपि त्विन्द्रिय- सम्बद्धविशेषणतया, इत्यत आह — ये त्विति । विवादेति । श्रूयमाणशब्दध्वंस इत्यर्थः, अतो नान्त्यशब्दध्वंसे भागासिद्धिः । तस्य साक्षात्कारकाले नाशादिति भावः । पेन्द्रियकेति । ऐन्द्रियकप्रतियोगिकाभावत्वादित्यर्थः । नन्विदं मूर्त्तत्वाभावेऽनैकान्तिकं, भूतत्वस्य हि मूर्त्तत्वं प्रत्यक्षम् । यत्किञ्चिन्मूर्त्तग्रहेऽपि तद्- ग्रहात् , तदभावस्तु न प्रत्यक्षः । अयोग्यस्यापि मूर्त्तस्य सम्भवेन यावद्विशेषाभावाप्रत्यक्षतया मूर्त्तसामान्याभावस्याप्रत्यक्षत्वात् । न च प्रत्यक्षशेषमूर्त्ताभावग्राहिणा प्रत्यक्षेण प्रत्यक्षेतरमूर्त्ता- भावनिश्चयसहकारिणा सोऽपि गृह्यत एवेति वाच्यम् । लिङ्गवत्त्वावगमसहकारिणा पक्षग्राहकप्र- त्यक्षेणैव लैङ्गिकावगमेऽनुमानमात्रविलयापत्तेः । मूर्त्तत्त्वसामान्यस्य योग्यायौग्यघटितत्वेनाऽ- प्रकाशिका । कदाचिदन्यशब्दध्वंसेऽपीति भागासिद्धिरंशतो बाधश्चेत्यत आह । अन्त्येत्युपलक्षणम् , इन्द्रि- ग्रासन्निकृष्टशब्देत्यपि द्रष्टव्यम् । तस्येति । अन्त्यशब्दस्येत्यर्थः, इदं च प्रत्यक्षं प्रति समसमयतया विषयस्य हेतुत्वपक्षे द्रष्टव्यम् । कर्मधारयपक्षे साध्याविशेषात् प्रतियोगित्वलक्षणसम्बन्धवाचकषष्ठी- समासाभिप्रायेणाह । ऐन्द्रियकप्रतियोगिकेति । लिङ्गवच्चेति । वस्तुतः स्वरूपायोग्यस्य सहकारियोग्यताप्यकिञ्चित्करी स्वरूपायोग्यता चोपलम्भापादकसत्त्वप्रतियोग्यप्रतियोगिकत्वादिति भावः । ननु मूर्त्तत्त्वस्य योग्यायौग्यघटितत्वेऽपि योग्यत्वमेव, यत्किञ्चिद्विशेषयोग्यतयैव सामा- मकरन्दः । वादाह । श्रूयमाणेति । अन्त्येत्युपलक्षणम् । इन्द्रियासन्निकृष्टशब्दान्तरध्वंसेऽपि द्रष्टव्यम् । न च तस्यापि स्वरूपयोग्यत्वादिन्द्रियकत्वमेवेति वाच्यम् । अन्त्यशब्दस्यापि सहकारिवैकल्य- प्रयुक्तकार्याभाववत्त्वेन तथात्वसम्भवात् । तस्येति । अन्त्यशब्दस्येत्यर्थः । एतदपि प्रत्यक्षे स्व- समयवर्त्तित्वेन विशिष्य हेतुत्वपक्षे द्रष्टव्यम् । कर्मधारयपक्षे साध्यावैशिष्ट्यमाशङ्क्याह । ऐन्द्रि- यकेति । लिङ्गवत्त्वेति । तथा च यावद्विशेषाभावात् सामान्याभावोऽनुमीयत एव, न प्र- त्यक्ष इति भावः ।