न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 270, कुल 608 में से
संदर्भ में पढ़ें२३६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां इन्द्रियाऽसन्निकृष्टत्वादतीन्द्रियाधारत्वाच्चेति चेन्न । इदं ह्युपाध्युद्भावनं वा स्यात्, बोधनी । -तोऽपि नेन्द्रियेण गृह्यत इति । सदेतद्विकल्प्य दूषयति-न इति । इदं द्वयमप्युपाध्युद्भावनं स्यात् ऐन्द्रियकत्वाभावतस्यैन्द्रियकत्वेन न स्वाभाविकः संबन्धः, घटाद्यभावे त्वैन्द्रियकत्वस्येन्द्रियसन्नि- कर्षैन्द्रियकाधारत्वयोरन्यतरप्रयुक्तत्वादिति । यद्वा, इन्द्रियग्राह्यत्वस्येन्द्रियसन्निकर्षः, ऐन्द्रियका- धारत्वं वा व्यापकं घटाभावादिषु दृष्टं, तन्न शब्दप्रध्वंसान्निवर्त्तत इति न तस्यैन्द्रियकत्वम्-इति । प्रकाशः । योग्यतया तदभावे हेतोरग्रहात् । येन रूपेण प्रतियोगियोग्यता, तेनैव तदभावस्य योग्यतावग- मात् । अत्राभावपदेन ध्वंस उक्त इति न व्यभिचार इत्येके । द्रव्यनिष्ठमूर्तत्वाभावस्याप्रत्यक्षत्वे- ऽपि गुणादौ स प्रत्यक्ष एवेत्यन्ये । उपाध्युद्भावनमिति । स्वव्यतिरेकेणेति शेषः । तेनेन्द्रिय- सन्निकृष्टत्वमैन्द्रिकाधारत्वञ्चोपाधिरित्यर्थः । न चैन्द्रियकाऽऽधारत्वं नोपाधिः, धर्माभावस्यापि प्रकाशिका । न्यस्य योग्यत्वात् मूर्तवद्भूतलमिति घटसत्त्वकाले प्रत्यक्षादित्यरुचेराह । अत्राभावेति । एके= मुख्याः । "एके मुख्यान्यकेवला" इति कोषात्, ननु मूर्तवत्त्वघटवत्त्वयोर्योग्यायोग्यघटितत्वा- विशेषात् कथं मूर्तवत्त्वाभावोऽप्रत्यक्षः प्रत्यक्षस्तु घटवत्त्वाभाव इति चेत् ? घटस्य ह्ययोग्य- त्वमिन्द्रियासन्निकर्षादिति सन्निकृष्टदेशे घटसत्त्वेनोपलब्धिरापादयितुं शक्यते नत्वेवं मूर्तत्वस्य परमाण्वोरतीन्द्रियत्वादिति । द्रव्यनिष्ठेति । द्रव्यविशेषणतयाऽप्रत्यक्षत्वेऽपि गुणविशेषणतया तस्यैवाभावस्य प्रत्यक्षत्वात् साध्यमेव तत्रेति न व्यभिचार इत्यर्थः । न स्वधिकरणभेदेनाभावभे- दाभिप्रायकोऽयं ग्रन्थः, तथा सति द्रव्यनिष्ठतदभावे व्यभिचारतादवस्थ्यात् । अन्य इत्यरुचौ । मकरन्दः । ननु मूर्तवत्त्वस्य योग्यायोग्यघटितत्वेऽपि नायोग्यत्वं, किञ्चिद्विशेषयोग्यतयैव सामान्यस्य योग्यत्वात् । घटवति भूतले मूर्तवदिदं भूतलमिति चाक्षुषप्रत्यक्षदर्शनाच्च । अन्यथा घटवत्त्वसा- मान्यस्यापि सन्निकृष्टासन्निकृष्टघटघटितत्वेनैन्द्रियकत्वानुपपत्तेः, स्वरूपायोग्यता सहकारिविर- हेण वा फलाभावस्याविशेषादित्यनुशयान आह अत्राभावपदेनेति । न चैन्द्रियकाभावत्वा- विशेषेऽपि घटसामान्याभावस्य प्रत्यक्षत्वे किं विनिगमकमिति वाच्यम् । सन्निकृष्टघटस्यापि तत्र तर्कितं सत्त्वमनुपलब्धिविरोधीति यावद्विशेषाभावप्रत्यक्षासम्भवादयोग्यमूर्त्ताभावस्यातथात्वा- दिति विशेषात् । द्रव्यनिष्ठेति । द्रव्यविशेषणतया ऽप्रत्यक्षत्वेऽपीत्यर्थः । एतेनाधिकरणभेदेना- भावभेदानभ्युपगमाद्, अभ्युपगमे वा द्रव्यनिष्ठतदभावे व्यभिचारतादवस्थ्यादित्यपास्तम् । एकस्यैवाधिकरणभेदेन प्रत्यक्षत्वाप्रत्यक्षत्वोपगमात्, योग्यायोग्यजले पृथिवीत्वात्यन्ताभाववत् । अत्र यावद्विशेषाभावाप्रत्यक्षतयाऽप्रत्यक्षत्वं गुणेऽपि समानम् । अनुमानादिना तन्निश्चये तत्प्रत्य- क्षत्वं द्रव्येऽपि तुल्यम् । यावद्विशेषाभावनिश्चये तन्निश्चयोऽनुमित्यात्मक इत्यपि समानमित्यनभि- मतिबीजं द्रष्टव्यम् । ऐन्द्रियकाधारत्वञ्चेति । तथा चातीन्द्रियाधारत्वादित्यस्य ऐन्द्रियकानाधारत्त्वादि- त्यर्थो बोध्यः । तेन तद्व्यतिरेकत्वमस्योपपद्यते । अत एवानुपदं तथैव विभावयिष्यतीति । न च शब्दादौ साध्याव्यापकत्वम् । साधनाद्यवच्छिन्नसाध्यव्यापकत्वादिति भावः । भवेदेवं यदि सम- टिप्पणी । ज्ञप्तिरपि तस्याप्तोक्तत्वं विनापीति । वक्तृगुणाधीनत्वं विनापीत्यर्थः । अत्राभावपदेन ध्वंस उक्त इति । सामान्यस्य हि योग्यत्वं यत्किञ्चिद्विशेषयोग्यत्वनिबन्धनम् घटसत्त्वकाले सामान्यरूपेणैव मूर्तवद् भूतलमिति प्रत्यक्षादित्यरुचेराह । अत्रेति । ऐन्द्रियकाधारत्वञ्चेति । न चैन्द्रियका-