भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 272, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 272

२३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां अनुपाधित्वात् , तस्यास्तामपेक्ष्यैव सर्वदा व्यवस्थितेः, नाप्यैन्द्रियकाधारत्वप्रयुक्त- बोधनी । साध्यते, सा च यावत्स्वरूपभाविनीति न तां प्रत्यागन्तुकस्य सहकारियोग्यतारूपस्येन्द्रियसन्नि- कर्षस्योपाधित्वं साध्यव्यापकत्वाभावादिति । ऐन्द्रियकाधारत्वस्याप्यनुपाधित्वमाह-नापि इति । तत्र मानसप्रत्यक्षात्माऽऽधाराणां धर्माधर्मसंस्काराणां ध्वंसस्य मानसत्वप्रसङ्गः । इन्द्रियसन्निकर्ष- स्योपाधित्वेऽपि मनःसंयुक्तात्मविशेषणत्वेन धर्माद्यभावस्य प्रत्यक्षत्वप्रसङ्गो द्रष्टव्य इति भावः । प्रकाशः । प्रति, सहकारियोग्यतायास्तत्सम्पत्तेरिन्द्रियसन्निकर्षस्यानुपाधित्वात् । कुतः ? तस्या इति । तस्याः = प्रत्यक्षतायाः, ताम् = इन्द्रियसन्निकर्षरूपसहकारियोग्यतामित्यर्थः । तथा च पक्षवृत्तित्वेन साधनव्यापकत्वान्नोपाधिरिति भावः । यद्वा, स्वरूपयोग्यातारूपं साध्यं प्रति, सहकारियोग्यता नोपाधिः, साध्यव्यापकत्वादित्यर्थः । द्वितीयमुपाधिं निरस्यति नापीति । यद्यप्युपाधौ सति साध्याभावो न दोषाय, तथापि समव्याप्तोपाधिमभिप्रेत्योक्तम् । विषमव्याप्तोपाधिपक्षे तु त्र्यणुके साध्याव्यापकत्वम् । अभावत्वपक्षधर्मावच्छिन्नसाध्यव्यापकत्वे तु नष्टाश्रयद्रव्यधर्माद्यभावे साध्या- व्यापकत्वम् । किञ्च प्रत्यक्षयोग्यताऽत्र साध्या, सा चाभावस्य नैन्द्रियकाधारत्वमात्रं, धर्माभावस्य प्रकाशिका । ख्यानमरोचमानाह । यद्वेति । अत्र च व्याख्याने "तस्या इत्यादिमूल" फक्किकाव्याख्या- नमेवम् तस्याः स्वरूपयोग्यतायाः । तां=सहकारियोग्यताम् । अपेक्ष्य सर्वदा ऽव्यवस्थितेरिति नञोऽन्तर्भावात् तथा च सहकारियोग्यतानेरपेक्ष्येणापि स्वरूपयोग्यतासत्त्वादित्यर्थः पर्यवस्यति, तेन साध्याव्यापकत्वं निर्वहतीति ध्येयम् । अभावत्वेति । अत एव साधनावच्छिन्नसाध्यव्या- पकत्वमप्यपास्तमिति न तदाशङ्कितम् । द्रव्यधर्मेति । द्रव्यस्य धर्मो रूपादिः आश्रयनाशज- न्यस्य रूपादिनाशस्य प्रत्यक्षस्यातीन्द्रियकालादिमात्रवृत्तितयोपाधेः साध्याव्यापकत्वमिति भावः । किञ्च प्रत्यक्षयोग्यातारूपे साध्ये योग्याधिकरणत्वस्य व्यापकताग्राहकमपि नेत्याह । किञ्चेति । अधिकरणस्येन्द्रियग्राह्यत्वमात्रं वाऽभावप्रत्यक्षे प्रयोजकमभावग्राह्येन्द्रियग्राह्यत्वं वा, आद्ये गौरव- मकरन्दः । स्वरूपयोग्यतापदस्य फलोपधानपरत्वेऽपदार्थव्याख्यानमित्यनुशयान आह यद्वेति । एव- ञ्चात्र कल्पे तस्याः = स्वरूपयोग्यतायाः । तां = सहकारियोग्यतामपेक्ष्य सर्वदा अव्यवस्थितेरित्य- कारप्रश्लेषेण मूलफक्किका योज्या, तेन साध्याव्यापकत्वं निर्वहतीति ध्येयम् । अभावत्वेति । अत एव साधनावच्छिन्नसाध्यव्यापकत्वमपि निरस्तम् । वस्तुत आधारपदं प्रतियोगिसमवायिपर- मिति भूतलादिवृत्तित्वेऽपि साध्याव्यापकत्वम् । अन्यथा शब्दध्वंसस्यापि वीणादिवृत्तित्वेन साधन- व्यापकत्वापत्तेरिति । द्रव्यधर्मादीति । तदभावस्य कालाद्यतीन्द्रियाधारनिरूप्यत्वात् साध्याव्याप- टिप्पणी । सत्यैन्द्रियकत्वाधारत्वमेव योग्यता तदभावश्च साधनव्यापक एवेत्युपाध्यभावादभावत्वे सत्यैन्द्रियका- धारत्वेन स्वव्यतिरेकेण व्यतिरेकोन्नायकत्वसम्भवादुपाधित्वसम्भव इति भावः। साध्याव्यापकत्वा- दित्यर्थ इति । स्वरूपयोग्यताया इन्द्रियसन्निकर्षरूपसहकारियोग्यताविगमकालेऽपि सत्त्वादिति- भावः । साध्याव्यापकत्वमिति । तदाधारस्य त्र्यणुकस्यातीन्द्रियत्वात् । कालमात्रस्यैव तदाधार- त्वेन तस्यातीन्द्रियत्वात् । नष्टाश्रयद्रव्यस्येति । नष्टमाश्रयद्रव्यं यस्येति विग्रहेणाऽऽश्रयनाशजन्य घटरूपादिनाश इत्यर्थः । योग्यतात्र साध्या सा चेति । हेतुतावच्छेदकं प्रत्यक्षजनतावच्छेद-