न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 273, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तवके ] शब्दाऽनित्यत्वोपपादनम् । २३६ मभावस्य प्रत्यक्षत्वम्, धर्माद्यभावस्यापि तथात्वप्रसङ्गात् । अत एव, नोभयप्रयु- क्तम् । नापि द्वितीयः, प्रथमस्यासिद्धेः । अस्ति हि श्रोत्रशब्दाभावयोः स्वाभा- बोधनी । अत एव इति । यत इन्द्रियसन्निकृष्टत्वेन्द्रियाधारत्वयोर्द्वयोरपि धर्माद्यभावे व्यभिचार इति । नापि सत्प्रतिपक्षत्वमित्याह-नापि द्वितीयः- इति । द्वयोरुपाधित्वस्य व्यभिचारदूषितत्वात् सत्प्रतिपक्षत्वमपि निरस्तमेवेति भावः । तत्र प्रथमस्येन्द्रियासन्निकृष्टत्वस्य स्वरूपासिद्धेरपि न सत्प्रतिपक्षत्वमित्याह - प्रथमस्य इति । असिद्धिमेवाह - अस्ति हि-इति । स्वाभाविकः = संयोगसमवायादिसंबन्धान्तरनिरपेक्ष इति । ननु यदि श्रोत्रविशेषणतया शब्दाभावोऽपि गृह्येत प्रकाशः । प्रत्यक्षतापत्तेः । नाप्यैन्द्रियकाधारत्वे सत्यैन्द्रियकप्रतियोगिकाभावत्वम् । गौरवात् । तदिन्द्रिया- ग्राह्येऽप्यधिकरणे गन्धरसभावाद्योर्घाणादिना ग्रहाच्च । न चैन्द्रियकप्रतियोगिकाभावत्वस्य योग्य- तात्वे वायुस्पर्शध्वंसोऽपि प्रत्यक्षः स्यादिति वाच्यम् । तस्याश्रयनाशजन्यस्य ग्राहकेन्द्रियसन्नि- कर्षाभावादिति भावः । अत एवेति । इन्द्रियसन्निकृष्टत्वमैन्द्रियाधारत्वं चेत्युभयम् । तत्प्र- युक्तमपि नाभावस्य प्रत्यक्षत्वम् , धर्माभावस्य प्रत्यक्षतापत्तेरित्यर्थः । सत्प्रतिपक्षद्वये प्रथमस्या- सिद्धिमाह नापीति । अत्र(१) स्थापनानुमाने योग्यत्वे साध्ये प्रत्यनुमाने तदभावः साध्यः । तच्च चेन्द्रियासन्निकृष्टत्वं व्यभिचारि, इन्द्रियासन्निकृष्टेऽपि योग्यताया अनपायात् । तस्माद्यदा साक्षा- त्कारविषयत्वं साध्यं, तदा फलाभावे योग्यता व्यर्थेति तन्नाऽसिद्धिरुक्तेत्याहुः । ननु विशेषणत्व प्रकाशिका । मेव बाधकम् , अन्त्ये त्वन्यदप्याह । तदिन्द्रियेति । तस्येति । कालादौ स गृह्यत एवेत्य- ष्टापत्तिरपि द्रष्टव्या । नन्विति । उभयसिद्धव्यभिचारे दोषे सति किमन्यतरासिद्धस्वरूपा- सिद्धेरभिधानेनेति भावः । तस्माद्यदेति । तथा च प्रतिस्थापनानुमाने फलोपधानविरह एव साध्य इति न व्यभिचार इति भावः । योग्यता व्यर्थेति । शब्दाभावत्वावच्छिन्ने फलाभावे सति योग्यतासाधनमपि प्रतिरुद्धं परस्परविरोधादिति भावः । एवं च योग्यता=तत्साधनम् । व्यर्थम्=अनुमित्यजनकमिति शब्दार्थः । केचित्तु फलाभावरूपसाध्यसत्त्वे योग्यता सत्यपि व्यर्था मकरन्दः । क्त्वमिति भावः । ऐन्द्रियकत्वमिन्द्रियग्राह्यत्वमात्रं, तदिन्द्रियग्राह्यत्वं वा ? आद्ये, गौरवादिति । अन्त्ये, तदिन्द्रियेति । तस्येति । कालादावाश्रयान्तरे प्रत्यक्ष एवेतीष्टापत्तिरपि बोध्या । फलोपधानाभिप्रायेण समाधत्ते तस्मादिति । फलोपधानाभावरूपे साध्ये सति योग्यता टिप्पणी । पक्षधर्मत्वम् , तेन हेतुसाध्ययोरेक्यम् । ग्राहकेन्द्रियसन्निकर्षाभावादिति । कालादौ तत्प्रत्यक्षस्येष्टावाच्चेत्यपि बोध्यम् । तथा चैन्द्रियकाधारत्वस्य साध्यव्यापकत्वग्रहो न सम्भवतीति भावः । ननु स्थापनानुमाने योग्यत्व इति । उभयसिद्धव्यभिचारे सम्भवति किमन्य- तरासिद्धासिद्धिनिदानेनेति शब्दार्थः । प्रतिस्थापनानुमाने न योग्यताविरहः साध्यः किन्तु फलोपहितत्वाभाव एव, तत्र न व्यभिचारः सम्भवतीत्यसिद्धिरुक्तेति समाधत्ते । तस्मा- दित्यादिना । ननु योग्यत्वरूपसाध्यं प्रति फलानुपधानस्याविरोधित्वात् कथं सत्प्रतिपक्ष- तेत्यत आह । तदेत्यादिना । अत्र सर्वथैव फलाभावस्य साध्यता तथात्वे सति योग्यताकल्प- नाया अपि व्यर्थत्वेनास्त्येव तस्य विरोधित्वमिति भावः । केचित्तु फलाभावे साध्ये योग्यता व्यर्था विद्यमानापि व्यभिचाराप्रयोजिका तदभावस्यासाधनत्वादित्याहुः । साक्षात्कारविषयत्व- ( १ ) नन्विति जलदसंमतः पाठः ।