भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 274, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 274

२४० व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या धिको विशेषणविशेष्यभावः। विशेष्यस्यातीन्द्रियत्वात् कथमैन्द्रियकविशिष्टज्ञान- विषयत्वम्, तथा विशेष्यमव्यवस्थापयतश्च कथं विशेषणत्वमिति चेन्न। तथा विशे- ष्यव्यवस्थापनायाः फलत्वात्। न तु तदेव विशेषणत्वम्, आत्माश्रयप्रसङ्गात्। विशेषणभावेन समवायाभावयोर्ग्रहणं, तथाग्रहणमेव च विशेषणत्वमिति। बोधनी ततः शब्दाभावविशिष्टत्वेन श्रोत्रं ग्रहीतव्यं, न चैतत्सम्भवति श्रोत्रस्यातीन्द्रियत्वादित्याह-वि- शेष्यस्य-इति। विशिष्टज्ञानविषयत्वाभावे को दोषस्तत्राह--तथा-इति। न हि स्वजन्यवि- शिष्टज्ञानविषयत्वेन विशेष्यमनवच्छिन्दतो विशेषणत्वं नाम। विशेष्यव्यवस्थापकस्यैव विशेषणत्वा- दिति भावः। न इति। तथा विशेष्यव्यवच्छेदो विशेषणस्य फलं, न तु विशेषणत्वमिति। कुत इत्यत आह। आत्माश्रय। इति। कथमित्यत्राह। विशेषणभावेन इति। विशेषणभावो हि सन्निकर्षः समवायाभावयोर्ग्रहणहेतुः। तत्र यदि विशेष्यस्थापनमेव विशेषणत्वं तदा विशेषणभावेन तयोर्ग्रहणं, विशेषणभावश्च तथाग्रहणमेवेत्यात्माश्रयत्वं दृष्टान्तार्थे समवायोपसंग्रहणमिति। तत्तथैवमङ्गीकार्यमित्याह- प्रकाशः। सभावस्य तदा स्याद्यदा श्रोत्रं शब्दध्वंसज्ञाने भासेत, न चैवम्, श्रोत्रस्यातीन्द्रियत्वात्। ततो न शब्दध्वंसस्य तद्विशेषणत्वम्। स्वसम्बन्धेन विशेष्ये व्यावृत्तिबुद्धयजनकरत्वात्। नाऽपि श्रोत्रं विशेष्यं, व्यावृत्तबुद्धयविषयत्वादित्याह विशेष्यस्येति। श्रोत्रस्यातीन्द्रियत्वेऽपि शब्दलिङ्गकश्रो- त्रज्ञानसहकारि-मनः-प्रसूतानुमितिविषयत्वं स्यादित्यभिप्रेत्याह तथेति। विशेषणतासम्बन्धस्य हि विशिष्टज्ञानं फलं, न तु तदन्तर्भावेणैव स इत्यर्थः। आत्माश्रयमेवाह विशेषणभावेनेति। प्रकाशिका। व्यभिचाराप्रयोजिका। तद्विरहस्यासाध्यत्वादित्यर्थः। स्थापनानुमानेऽपि फलोपधानमेव साध्य- मिति सत्प्रतिपक्षसत्त्वासङ्गतिरिति भाव इत्याहुः। आहुरीत्यस्वरसे, तद्बीजन्तु अनन्तस्य सर्व- दासन्निकृष्टस्य तदिन्द्रियासन्निकृष्टस्य तदिन्द्रियायोग्यत्वं यथात्मनः श्रोत्रायोग्यत्वमिति तथैव हेतुः करणीयो योग्यता तद्विरहावेव च स्थापनाप्रतिस्थापनयोः साध्यत्वेनाभिमताविति यथाश्रुतमेव सम्यगिति। शब्दध्वंसज्ञान इति। विशेष्यतायेति शेषः। शब्दलिङ्गजेति। विशेषण- तयेति शेषः। शब्दरूपलिङ्गजेत्यर्थः। अनुमितीत्युपलक्षणम्। उपनीतभानेत्यपि द्रष्टव्यम्। इदं च शब्दध्वंसविशेषणकश्रोत्रविशेष्यकप्रत्ययमभिप्रेत्योक्तम्। शब्दध्वंसविशेष्यकन्तु प्रत्ययः श्रोत्रेणापि सम्भवत्येवेत्यवधेयम्। अविषयीकृत्यापीति निरधिकरणैवाभावप्रतीतिः, काला- द्यधिकरणा वेत्यभिप्राायेणेदम्। वस्तुतोऽविषयीकृत्य = अविशेष्यीकृत्येत्यर्थः। एवं च श्रोत्रे शब्द- ध्वंस इत्याकारकमेव प्रत्यक्षमित्यर्थः। मकरन्दः। सत्यपि व्यर्था व्यभिचाराप्रयोजिकेति स्वरूपासिद्धिरैवोक्तेत्यर्थः। वस्तुतः, स्थापनायां योग्यत्वमेव साध्यम्, अन्यथा व्यभिचारप्रसङ्गादिति तदभाव एवात्र साध्यः। तत्र चाप्रसिद्धिरुपलक्षणत- योक्तेति व्यभिचारसत्त्वेऽप्यदोष इति तत्त्वम्। अत एवास्वरसादुक्तमित्याहुरिति। शब्द- लिङ्गजेति। शब्दरूपलिङ्गजेत्यर्थः। अनुमिति विषयत्वमित्युपलक्षणम्। मानसप्रत्यक्षविषय- त्वमित्यपि द्रष्टव्यम्। यद्यपि श्रोत्रप्रत्यक्षविषयत्वमपि सम्भवति, तथापि तत्र श्रोत्रस्य विशेष्यत्वमिति तन्नोक्तम्। टिप्पणी। मिति। साक्षात्कारविषयत्वमिति कचित् पाठः, तत्र साध्यं स्थापनानुमाने साध्यमित्यर्थः। असम्बन्धेन विशेष्ये इति। स्वसम्बन्धेनेत्यपि पाठः। स्वं विशेषणता तदात्मकेन सम्बन्धेने- त्यर्थः। तस्य विशेष्येऽसत्त्वात्तत्र व्यावृत्तिबुद्धिजनकत्वासम्भवादित्यर्थः। असम्बन्धेनेति पाठे, त