न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 275, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २४१ तस्मात्, सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः। सैव च विशिष्टप्रत्ययजननयोग्यता, विशेषणतेत्युच्यते। सा चात्र दुर्निंवारा, प्रतियोग्यधि- करणेन स्वभावत एवाभावस्य मिलितत्वात्। तथापि तया तथैव प्रतीतिः कर्त्त- व्येति चेन्न। गृह्यमाणविशेष्यत्वाऽवच्छिन्नत्वादू व्याप्तेः। अन्यथा, संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शनाद् गन्धादावपि तथात्वप्रसङ्गात्। तथापि नेन्द्रि- यविशेषणतया कस्यचिद् ग्रहणं दृष्टम्, अपि त्विन्द्रियसम्बद्धविशेषणतया, सा चातो निवर्त्तत इति चेन्न। अस्य प्रतिबन्धस्य इन्द्रियसन्निकृष्टार्थप्रतिसम्बन्धिविषयत्वात्। बोधनी। तस्मात् इति। अस्त्वेवं सम्बन्धः, विशेषणता तु कथं तयोः सिध्येत, सम्बन्धान्तरपूर्वकत्वात् तस्या इत्यत्राह। सैव इति। तदुपश्लिष्टस्वभावतैव नीलोत्पलादिष्वपि विशेषणता, तस्या एव विशिष्ट- प्रत्ययजननयोग्यता रूपत्वाद् योग्यतैव विशेषणमिति भावः। सा च योग्यताऽत्र शब्दप्रध्वंसे दुर्बारा प्रतियोगिनः शब्दस्याधिकरणेनाकाशेन सम्बन्धान्तरमन्तरेणैव शब्दाभावस्योपश्लिष्टत्वादित्याह। सा चात्र इति। नन्वस्तु योग्यतैव विशेषणत्वं, विशेष्यव्यवस्थापनं च तत्फलम्, तथापि यद्यस्ति शब्दाभावस्य स्वभावत उपश्लेषादाकाशं प्रति विशेषणता, तर्हि तथा विज्ञेयव्यवस्थापनेन प्रतीतिरुत्पा- दयितव्या, भूतलादिविशेषणे घटाभावादौ तथा दर्शनात्। न च तत्सम्भवति विशेष्यस्याकाशस्या- तीन्द्रियत्वादित्याशयेनाह। तथापि इति। न इति। विशेष्यग्रहणयोग्यताप्रयुक्तं तन्नं तु विशेष- णत्वमात्रप्रयुक्तम्, तन्मात्रप्रयुक्तायां व्याप्तौ बाधकमाह--अन्यथा इति। यथा रूपादौ विशेषणे गृह्यमाणे द्रव्यमपि तद्विशिष्टं गृह्यते, तथा गन्धादावपि स्यात्,, तत्रापि सन्निकर्षस्य विशेषणत्वस्य चाविशेषात्। न हि तदस्ति विशेष्यस्यायोग्यत्वात् तत्र इति। नन्वस्तु विशेषतया ग्रहणं, तथापि अघटं भूतलमियादाविन्द्रियसम्बद्धविशेषणतयैवाभावस्य ग्रहणं दृष्टं, न तु कचिदिन्द्रियविशेषणतया, सा चेन्द्रियसम्बद्धविशेषगता ततः शब्दाभावानिवर्त्तमाना स्वव्याप्यमिन्द्रियग्राह्यत्वमप्युपादायैव निव- र्तेत इति व्यापकानुपलब्धिरेव तस्यानेन्द्रियकत्वे प्रमाणमित्याह। तथापि इति। न इति। यो प्रकाशः। तथापि सम्बन्धं विना कथं विशेषणत्वमित्युपसंहरन्नेव निराकरोति- तस्मादिति। सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वमेव स्वरूपसम्बन्धोऽस्तीत्यर्थः। तथापि कथं विशेषणतेत्यत आह। सैव चेति। प्रतियोगीति। प्रतियोगिनः शब्दस्याधिकरणेन श्रोत्रेण शब्दाभावस्य स्वभावसन्निकृष्टत्वादित्यर्थः। तथापीति। तया=विशेषणतया। तथैव=सन्निकर्षेण विशिष्टविशेष्यविषयैव बुद्धिः कर्तव्या। विशेष्यस्य श्रोत्रायोग्यतया च साऽत्र न सम्भवती- त्यर्थः। गृह्यमाणेति। तद्विशेष्यकप्रत्यक्षे तयो ग्यता प्रयोजिका, अत्र तु विशेष्यं श्रोत्रमयोग्यम्, अतो विशेष्यमविषयीकृत्य विशेषणतया प्रत्यासत्या शब्दध्वंसप्रत्यक्षं जन्यत इत्यर्थः। अन्यथेति। यदि नैवं, तदा स्वाश्रये गृह्यमाणे रूपादिप्रत्यक्षदर्शनादगृह्यमाणे वाय्वादावाश्रये तत्स्पर्शप्रत्यक्षं न स्यादित्यर्थः। तथाऽपीति। सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यतयेन्द्रियप्रत्यासत्या सम्बद्धविशेषणस्यैव प्रत्यक्षजननदर्शनानेन्द्रियविशेषणता प्रत्यासत्तिरित्यर्थः। अस्येति। इन्द्रि- यसन्निकृष्टोऽर्थो घटादिस्तस्य प्रतिसम्बन्धी द्वितीयः स तथेति, न विशेषणतामात्रमेवम्, अपि तु मकरन्दः। तथापीति। उपसंहरन्नेव इति निराकरोतीत्यन्वयः। विशेष्यमिति। विशेष्यत्वेनेति शेषः। यद्वा, एतन्मते निरधिकरणाऽप्यभावप्रतीतिः, कालाद्यधिकरणं वेति तथोक्तम्। टिप्पणी। विशेषणताभिन्नेनासम्बद्धत्वाद् विशेषणस्य तत्त्वेनान्योन्याश्रयादित्यर्थः। न विशेषणतामात्र- ३१ न्या० कु०