भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २४१ तस्मात्, सम्बन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः। सैव च विशिष्टप्रत्ययजननयोग्यता, विशेषणतेत्युच्यते। सा चात्र दुर्निंवारा, प्रतियोग्यधि- करणेन स्वभावत एवाभावस्य मिलितत्वात्। तथापि तया तथैव प्रतीतिः कर्त्त- व्येति चेन्न। गृह्यमाणविशेष्यत्वाऽवच्छिन्नत्वादू व्याप्तेः। अन्यथा, संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शनाद् गन्धादावपि तथात्वप्रसङ्गात्। तथापि नेन्द्रि- यविशेषणतया कस्यचिद् ग्रहणं दृष्टम्, अपि त्विन्द्रियसम्बद्धविशेषणतया, सा चातो निवर्त्तत इति चेन्न। अस्य प्रतिबन्धस्य इन्द्रियसन्निकृष्टार्थप्रतिसम्बन्धिविषयत्वात्। बोधनी। तस्मात् इति। अस्त्वेवं सम्बन्धः, विशेषणता तु कथं तयोः सिध्येत, सम्बन्धान्तरपूर्वकत्वात् तस्या इत्यत्राह। सैव इति। तदुपश्लिष्टस्वभावतैव नीलोत्पलादिष्वपि विशेषणता, तस्या एव विशिष्ट- प्रत्ययजननयोग्यता रूपत्वाद् योग्यतैव विशेषणमिति भावः। सा च योग्यताऽत्र शब्दप्रध्वंसे दुर्बारा प्रतियोगिनः शब्दस्याधिकरणेनाकाशेन सम्बन्धान्तरमन्तरेणैव शब्दाभावस्योपश्लिष्टत्वादित्याह। सा चात्र इति। नन्वस्तु योग्यतैव विशेषणत्वं, विशेष्यव्यवस्थापनं च तत्फलम्, तथापि यद्यस्ति शब्दाभावस्य स्वभावत उपश्लेषादाकाशं प्रति विशेषणता, तर्हि तथा विज्ञेयव्यवस्थापनेन प्रतीतिरुत्पा- दयितव्या, भूतलादिविशेषणे घटाभावादौ तथा दर्शनात्। न च तत्सम्भवति विशेष्यस्याकाशस्या- तीन्द्रियत्वादित्याशयेनाह। तथापि इति। न इति। विशेष्यग्रहणयोग्यताप्रयुक्तं तन्नं तु विशेष- णत्वमात्रप्रयुक्तम्, तन्मात्रप्रयुक्तायां व्याप्तौ बाधकमाह--अन्यथा इति। यथा रूपादौ विशेषणे गृह्यमाणे द्रव्यमपि तद्विशिष्टं गृह्यते, तथा गन्धादावपि स्यात्,, तत्रापि सन्निकर्षस्य विशेषणत्वस्य चाविशेषात्। न हि तदस्ति विशेष्यस्यायोग्यत्वात् तत्र इति। नन्वस्तु विशेषतया ग्रहणं, तथापि अघटं भूतलमियादाविन्द्रियसम्बद्धविशेषणतयैवाभावस्य ग्रहणं दृष्टं, न तु कचिदिन्द्रियविशेषणतया, सा चेन्द्रियसम्बद्धविशेषगता ततः शब्दाभावानिवर्त्तमाना स्वव्याप्यमिन्द्रियग्राह्यत्वमप्युपादायैव निव- र्तेत इति व्यापकानुपलब्धिरेव तस्यानेन्द्रियकत्वे प्रमाणमित्याह। तथापि इति। न इति। यो प्रकाशः। तथापि सम्बन्धं विना कथं विशेषणत्वमित्युपसंहरन्नेव निराकरोति- तस्मादिति। सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वमेव स्वरूपसम्बन्धोऽस्तीत्यर्थः। तथापि कथं विशेषणतेत्यत आह। सैव चेति। प्रतियोगीति। प्रतियोगिनः शब्दस्याधिकरणेन श्रोत्रेण शब्दाभावस्य स्वभावसन्निकृष्टत्वादित्यर्थः। तथापीति। तया=विशेषणतया। तथैव=सन्निकर्षेण विशिष्टविशेष्यविषयैव बुद्धिः कर्तव्या। विशेष्यस्य श्रोत्रायोग्यतया च साऽत्र न सम्भवती- त्यर्थः। गृह्यमाणेति। तद्विशेष्यकप्रत्यक्षे तयो ग्यता प्रयोजिका, अत्र तु विशेष्यं श्रोत्रमयोग्यम्, अतो विशेष्यमविषयीकृत्य विशेषणतया प्रत्यासत्या शब्दध्वंसप्रत्यक्षं जन्यत इत्यर्थः। अन्यथेति। यदि नैवं, तदा स्वाश्रये गृह्यमाणे रूपादिप्रत्यक्षदर्शनादगृह्यमाणे वाय्वादावाश्रये तत्स्पर्शप्रत्यक्षं न स्यादित्यर्थः। तथाऽपीति। सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यतयेन्द्रियप्रत्यासत्या सम्बद्धविशेषणस्यैव प्रत्यक्षजननदर्शनानेन्द्रियविशेषणता प्रत्यासत्तिरित्यर्थः। अस्येति। इन्द्रि- यसन्निकृष्टोऽर्थो घटादिस्तस्य प्रतिसम्बन्धी द्वितीयः स तथेति, न विशेषणतामात्रमेवम्, अपि तु मकरन्दः। तथापीति। उपसंहरन्नेव इति निराकरोतीत्यन्वयः। विशेष्यमिति। विशेष्यत्वेनेति शेषः। यद्वा, एतन्मते निरधिकरणाऽप्यभावप्रतीतिः, कालाद्यधिकरणं वेति तथोक्तम्। टिप्पणी। विशेषणताभिन्नेनासम्बद्धत्वाद् विशेषणस्य तत्त्वेनान्योन्याश्रयादित्यर्थः। न विशेषणतामात्र- ३१ न्या० कु०

२४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां अन्यथा संयुक्तसमवायेन गन्धादावुपलब्धिदर्शनात् समवायेनादर्शनात् शब्दस्याग्रह- णप्रसङ्गात् । नाप्यभावत्वे सत्यतीन्द्रियाधारत्वात् सत्प्रतिपक्षत्वं, योग्यताविरह- प्रयुक्तत्वाद् व्याप्तेः । न चाऽतीन्द्रियाधारत्वमेव तस्य योग्यताविरहः । तद्विपर्ययस्यैव बोधनी । हीन्द्रियेण साक्षात्सम्बद्धमुपयोग्यस्तत्सम्बन्धिनाऽर्थान्तरेण सम्बध्यते तद्विषय एवायं प्रतिबन्धः, न त्विन्द्रियग्राह्याभावमात्रविषय इति । कचिद् व्यवधानदर्शनादन्यत्रापि तथाभ्युपगमेऽनिष्टमाह । अन्यथा इति । तदेवमिन्द्रियसन्निकृष्टत्वस्यासिद्धयुद्भावनेन प्रतिपक्षत्वं निराकृतम्, इदानी- मतीन्द्रियाधारत्वस्य निराचष्टे । नापि इति । शब्दादिभिर्व्यभिचारनिवृत्त्यर्थमुक्तमभावत्वे सति इति । कुत इत्यत आह । योग्यता इति । परमाणुगतद्वयणुकप्रध्वंसादेः सपक्षत्वाभि- मतस्य नातीन्द्रियाधारत्वादतीन्द्रियत्वं, किन्तु स्वरूपयोग्यताविरहात् ततो व्याप्त्यप्रसिद्धो हेतु- रिति । नन्वस्तु योग्यताविरह एव प्रयोजकः, स त्वतीन्द्रियाधारतैवाभावस्येत्यत्राह । न च प्रकाशः । गृह्यमाणविशेष्यम् । साक्षात्सम्बन्धाभावे सत्येव हि परम्परासम्बन्ध आश्रीयते, अत्र तु साक्षादेव- सम्बन्धोऽस्तीति न तदाश्रयणमित्यर्थः । द्वितीयं सत्प्रतिपक्षं निरस्यति । नाऽपीति । शब्देन व्यभिचारवारणार्थमभावत्वे सतीति । योग्यतेति । तथा चोपाधिमत्त्वेनातुल्यबलत्वादित्यर्थः । ननु स्थापनानुमाने योग्यतायाः साध्यत्वात् प्रत्यनुमाने तदभावः साध्य इति स एव नोपाधिः । साधनव्यापकत्वात्, व्यभिचारानुमाने साध्याविशेषप्रसङ्गाच्च । न च योग्यतावच्छेदकरूपाभाव उपाधिः, योग्यतासाधके स्थापनानुमाने नैन्द्रियकाभावत्वमेव योग्यत्वं हेतुः, साध्याविशेषप्रसङ्गात्, अपि तु योग्यतावच्छेदकरूपवत्त्वमिति तदभावो नोपाधिः, पूर्वसाधनव्यतिरेकत्वात् । मैवम् । साध्यप्रयोजकत्वेन तादृशस्याप्युपाधित्वात् । न चैवं सत्प्रतिपक्षोच्छेदः । स्थापनाया यत्राभा- सत्वं तत्र पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वात् । यथा शब्दोऽनित्यो गुणत्वाद् इत्यत्र व्योमैकगुणत्वेन सत्प्रतिपक्षे अगु णत्वमुपाधिः । जलपरमाणुरूपादौ साध्याव्यापकत्वात् । पूर्वं योग्यताविशेषो हेतुरत्र योग्यतामात्रव्यतिरेक उपाधिरित्यन्ये । प्रयोजकत्वमेवाह । न चेति । न दृश्याधारत्वमात्रं योग्यता, किन्तु दृश्यप्रतियोगिकत्वसहि- प्रकाशिका । उपसंहरन्नेवेति निराकरोतीति योजना । एवं = सम्बद्धविशेषणग्राहकम् । गृह्यमाण विशेष्यमिति । गृह्यमाणं विशेष्यमाश्रयो यस्य तादृशं विशेषणतास्वरूपमित्यर्थः । एतेनान्यत्र सम्ब- द्धाभावग्रहे सम्बद्धविशेषणताप्रत्यासत्तिर्न तु सर्वत्रेति पर्यवसितार्थः । ननु भवेदेवं यदि साध्यं साधनव्यापकं स्यात् तदेव तु नारुतीत्यारुचेराह । व्यभिचारानुमान इति । न चैवमिति । यद्यपि साध्यप्रयोजकत्वेनेत्यभिधानाद् यत्रैव साध्यं प्रत्यप्रयोजकः पूर्वसाधनव्यतिरेकस्तत्रैव नोपा- धिरिति शङ्कैवेयमनुपपन्ना, तथापि तत्र तस्याप्रयोजकत्वमित्यत्रैव किं बीजमित्यभिप्रायेणेदमुक्तम् । पूर्वमिति ऐन्द्रियकप्रतियोगिकत्वरूपयोग्यताविशेषो हेतुः, योग्यतासामान्याभावश्चोपाधिरतो न पूर्वसाधनव्यतिरेकित्वमित्यर्थः । अन्य इत्यरुचौ, तद्वीजन्तु स्थापनानुमाने योग्यतासामान्यस्य साध्यत्वेऽपि योग्यताविशेषो हेतावंशतः साध्याविशेषे यथोक्तप्रक्रियाया एवानुसरणीयत्वे किम- मकरन्दः । ननु भवेदेवं यदि साधनं साध्यव्याप्यं स्यात् , तदेव चौपाधिवादिमतेऽसिद्धमित्य नुशयादाह । व्यभिचारानुमान इति । टिप्पणी । मिति । इन्द्रियसम्बद्धविशेषणताग्राह्य इत्यर्थः । गृह्यमाणेति । इन्द्रियसम्बद्धविशेषणता-

द्वितीयस्तवके ] | शब्दानित्यत्वोपपादनम् । | २४३ योग्यतात्वापत्तेः । न चैवमेव, धर्मादिप्रध्वंसग्रहप्रसङ्गात् । दृश्याधारत्वं दृश्यप्रति- योगिता चेति द्वयमप्यस्य योग्यतेति चेन्न । उभयनिरूपणीयत्वनियमानभ्युपगमात् । प्रतियोगिमात्रनिरूपणीयो ह्यभावः । अन्यथेह भूतले घटो नास्तीत्येषाऽपि प्रतीतिः प्रत्यक्षा न स्यात् । संयोगो ह्यत्र निषिध्यते, तदभावश्च भूतलबद् घटेऽपि वर्त्तते, तत्र यदि प्रत्यक्षतया भूतलस्योपयोगो, घटस्यापि तथैव स्यादविशेषात् । अथ घट-

बोधनी इति । नन्वापद्यतामैन्द्रियकाधारतैव योग्यतेत्यत्राह । न चैवम् इति । ऐन्द्रियकाऽऽत्माधारो हि धर्मादिप्रध्वंस इति । दृश्याधारत्वम् इति । ततश्च न धर्माद्यभावस्य प्रत्यक्षत्वापत्तिरदृश्यप्रति- योगिकत्वात्, नापि शब्दाभावस्यातीन्द्रियाधारत्वात् तस्येति । न इति । न ह्याधारेणापि निरूपणीय इति । कथं तर्ह्यभ्युपगम इत्यत्राह । प्रतियोगि इति । आधारनिरूप्यत्वेऽनिष्टमाह । अन्यथा इति । किमिति न स्यादत आह । तत्र इति । तयोर्यदि भूतलमाधारोऽभावनिरूपणे प्रत्यक्षतयोप- युज्यते घटोऽपि तथा स्यात् आधारत्वाविशेषात्, तथा च परोक्षे घटे इह घटो नास्तीति प्रतीतिर्न स्यादिति भावः । अथ इति । प्रकारभेदं सूचयन्नार्थस्तुशब्दः प्रतियोगिनः संसर्गस्य निरूपणाय

प्रकाशः । तम् , न चैतद् धर्मादिध्वंसस्यास्तीत्याह । दृश्येति । तद्विरहश्च नोपाधिः, साधनव्यापकत्वात् । नाऽप्युभयस्य साध्यप्रयोजकत्वेनाप्रयोजकत्वम् । ऐन्द्रियकत्वरूपसाध्यसामान्याव्यापकत्वेनानुपाधि- त्वादिति भावः । विपक्षे बाधकमाह । अन्यथेति । यद्द्युभाभ्यां प्रत्यक्षाभ्यामेवाभावः प्रत्यक्ष इत्यर्थः । ननु भूतलमात्रमत्राऽऽधारः, तच्च दृश्यमेवेत्यत आह । संयोगो हीति । न चात्र माना-

प्रकाशिका । नेनेति । प्रयोजकत्वसेवेति । साधनाव्यापकत्वरूपमुपाधिरिति शेषः । नापीति । दृश्याधार- त्वस्य दृश्यप्रतियोगिकत्वस्य च मिलितस्य प्रत्यक्षप्रयोजकत्वेनाप्रयोजकत्वं केवलस्य दृश्यप्रतियो- गित्वस्य स्यात् तत्र च लाघवादावश्यकत्वाच्च केवलमेव प्रयोजकमिति भवति तदभाव उपाधिः साध्य- नाव्यापक इत्यर्थः । ऐन्द्रियकत्वेति । एवं च नैन्द्रियकत्वसामान्यप्रयोजकं दृश्यप्रतियोगिकत्वं

मकरन्दः । नाप्युभयस्येति । दृश्याधारत्वसमानाधिकरणदृश्यप्रतियोगित्वसाध्यप्रयोजकतया उपाधि- त्वेन स्थापना हेतोरप्रयोजकत्वं नेत्यर्थः । ऐन्द्रियकत्वरूपेति । न चाभावत्वपक्षधर्मावच्छिन्नसा-

टिप्पणी । ग्राहकमित्यर्थः । ननूभयनिरूप्यत्वं मास्तु योग्यत्वं किन्तुभयदृश्यत्वमेव तथा च स्थापना- नुमान इन्द्रियाधारत्वमुपाधिरित्याशयावानाह । उभयस्येति । ऐन्द्रियकाधारत्वैन्द्रियक प्रतियोगित्वयोरित्यर्थः । साध्यस्य = इन्द्रियग्राह्यत्वस्य । प्रयोजकत्वेनेत्यर्थः । अप्रयोज- कत्वं स्थापनानुमानस्येति शेषः । इन्द्रियाधारत्वस्योपाधिसद्भावादिति भावः । ऐन्द्रिय- कत्वेति । तस्य शब्दे सत्त्वेन तत्रोपाध्यभावादन्यापकत्वम् । अभावत्वावच्छिन्नसाध्यव्या- पक्त्वमपि नष्टाश्रयद्रव्यगुणादिनाशे व्यभिचारेणासम्भवीति न स्थापनानुमानस्याप्रयोजकत्व- मिति भावः । एवञ्च नोभयं प्रयोजकमुरुनशास्याप्रत्यक्षापत्तेरित्यवधेयम् । केचित्तु तदेतन्नि- राकरोतीति पूर्वमेव नापीति पठन्ति । तेषामयमाशयः, उभयस्येत्यनन्तरं प्रत्येकस्येति शेषः । तथा च लाघवादावश्यकत्वाच्च प्रत्येकस्यैन्द्रियकप्रतियोगिकत्वस्य प्रयोजकत्वेनोभयस्याप्रयोजकत्वात् योग्य- त्वाभावः साधनाव्यापकत्वाद् भवत्येवोपाधिरिति भावः । ऐन्द्रियकत्वेति । ऐन्द्रियकत्वं प्रति तस्याव्यापकत्वे तदभावं प्रति तदभावस्याप्रयोजकत्वेन साध्यप्रयोजकस्यैव पूर्वसाधनव्यतिरेकस्यो- पाधित्वेनाप्यनुपाधित्वमिति भावः । भूतलमात्रमत्राधार इति । अत्र भूतले घटो नास्ती-

२४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायो प्रकाशः। भावः। घटनिषेधे हि भूतले घटाभावो न प्रागभावध्वंसाऽऽत्मकः प्रतियोगिसमानकालत्वात्। नाप्यत्यन्ताभावः, कदाचित् तस्य तत्र भावात्, तस्माद् घटसंयोगो निषिध्यते, स च संयोगो य एतद्घटस्य तत्र भावी तस्य प्रागभावः, अतीतस्य ध्वंसः, सर्वदैवाऽभवतश्चात्यन्ताभावः। ननु भूतले घटो नास्तीति घटप्रतियोगिकाभावोऽनुभूयते, संयोगस्य तु प्रतियोगित्वे संयोगो नास्तीत्यनुभवा- पत्तिः। मैवम्। घटो नास्तीति बुद्धेरेव संयोगाभावविषयत्वात्। यथा हि भूतले घटास्तित्वबुद्धि- स्तत्संयोगेन, तथा तदभावेन घटाभावबुद्धिः। यत्सम्बन्धपुरस्कारेण यत्र यद्भावबुद्धिस्तदभावपुर- स्कारेण तत्र तन्नास्तिताप्रतीतिः। केचित्तु, घटात्यन्ताभाव एव तद्विषयः। उत्पादविनाशधीस्तु तत्सम्बन्धतथात्वप्रयुक्ता, स च तत्संयोगध्वंसरूपः। न चैवं घटात्यन्ताभावसम्बन्धस्य संयोगध्वंसरूपतया नित्यत्वाद् घटधीस्तत्र कदापि न स्यादिति वाच्यम्। न हि यत्र यत्संयोगोऽस्ति तत्र तत्संयोगध्वंसः, सामान्यध्वंसस्य प्रकाशिका। घटादावभावादिति तदभावस्तदभावाप्रयोजकत्वान्नोपाधिरिति भावः। अभावत्वावच्छिन्नप्रत्यक्षत्व प्रयोजकं दृश्यप्रतियोगिकत्वमित्यभिप्रायेणाग्रे उभयेत्यादिसिद्धान्तः। केचित्तु तदेतन्निराकरोति उभयेतीत्यनन्तरं नापीत्यादिफक्किका। तदर्थश्च, उभयानिरूपणीयत्वेऽपि उभयदृश्यत्वैवाभाव- योग्यता, तथाचाप्रयोजकत्वं स्थापनाहेतोरित्यर्थः। अभावत्वावच्छिन्नसाध्यव्यापकत्वेऽपि नष्टाश्रयद्रव्यगुणाद्यभावे साध्याव्यापकत्या मिलितस्याप्रयोजकत्वे दृश्यप्रतियोगित्वमात्रस्यैव प्रयोजकत्वमिति भावः। नन्वेवं घटे भूतलं नास्ति रूपे घटो नास्तीति प्रतीत्योर्भ्रमत्वा- पत्तिः, भूतलसंयोगस्य घटे, घटसमवायस्य रूपे सत्त्वात्। न च भूतलविशिष्टसंयोगाभावस्तत्रा- स्त्येव भूतलाभावादेवमितरत्रापीति वाच्यम्। एवं सति विशेषणभूतघटाद्यभावविषयत्वमेव प्रती- त्योस्तस्यावश्याभ्युपेयत्वादित्यनुशयादाह। केचिदिति। तत्सम्बन्धेति। सम्बन्धसत्त्वासत्त्वप्र- युक्त्यर्थः। न चैवं प्रतीतेः संयोगाभावविषयत्वे “संयोगो ही”त्यादि मूलविरोध इति वाच्यम्। एवमप्युत्पादादिप्रतीत्यर्थं संयोगाभावप्रतीतेरुपेयत्वात्। सामान्यध्वंसस्येति। इतराभावध्वं- मकरन्दः। ध्वव्यापकत्वं, नष्टाश्रयकरूपाद्यभावे साध्याव्यापकत्वादिति भावः। एतेन पूर्वपक्षिवचनत्वेनास्य ग्रन्थस्यासङ्गतिरित्यपास्तम्। सिद्धान्तिनैव स्वातन्त्र्येण स्वहेतोरप्रयोजकत्वमाशङ्क्य परीहारकरणात्। केचित्तु नापीत्यस्य पूर्वं तदेतन्निराकरोति नोभयस्येति प्रक्षिप्य सिद्धान्तिवचनं कृत्वा योजयन्ति। नन्वेवं घटे भूतलं नास्तीति बुद्धेरपि तत्संयोगाभावविषयत्वे भ्रमत्वापत्तिः। न चेष्टापत्तिः, तस्याः प्रमात्वेन सर्व्वसिद्धत्वात्। एवं रूपे घटो नास्तीति बुद्धेरपि तत्सम्बन्धाभावविषयत्वे भ्रमत्वापत्तिः। न च तत्सम्बन्धाभावविषयकत्वं तद्विशिष्टसम्बन्धाभावविषयकत्वं, विशिष्टाभावश्च विशेषणाभावाधीन- स्तत्रास्त्येवेति न भ्रमत्वमिति वाच्यम्। हन्तैवमावश्यकविशेषणाभावविषयत्वेनैवोपपत्तौ विशिष्टा- भावविषयत्वकल्पने गौरवान्मानाभावाच्चेत्यनुशयादाह। केचिच्चिविति। तत्सम्बन्धतथात्वेति। तत्सम्बन्धसत्त्वासत्त्वप्रयुक्तेत्यर्थः। सामान्यध्वंसस्येति। प्रतियोगितावच्छेदकभेदेनाभावभेदाद- टिप्पणी। स्त्यत्र निषेधे आधारो निषेधाधिकरणत्वेन विवक्षितः, तथा च यदा हि यो यत्र निषिध्यते, तदानीं तादृशाधारनिषेधदृश्यत्वं प्रयोजकमन्यथा दृश्यमात्राधारस्य अत्यन्ताभावमात्र एवाभावाद् दृश्याना- मपि बहूनामेकदा ज्ञातासम्भवादभावमात्रस्याप्रत्यक्षत्वापत्तेः। एवं च निषेधो हि प्रसक्तस्यैवेति घटे घटस्य प्रसक्त्यभावेन तत्र निषेधाभावात् तस्याप्रत्यक्षत्वं न क्षतिकरमिति भावः। संयोगाभावनिषेधे हि संयोगस्य भूतल इव घटेऽपि प्रसक्तेस्तदानीं निषेधाधारत्वस्योभयत्र तुल्यत्वादुभयदृश्यत्वं विनिगमका- भावादपेक्षणीयमिति बोध्यम्। उत्पादविनाशीरिति। उत्पादविनाशौ सत्त्वासत्त्वे, तयोस्त्वेतस्य

द्वितीयस्तबके ] शब्दानित्यत्वोपपादनम् । २४५ प्रकाशः । यावद्विशेषध्वंसव्याप्यत्वादेकविशेषवति सामान्यध्वंसस्याभावेन तदुपपत्तेरित्याहुः । यथा प्रतियोगिभेदेनाभावभेदः, तथा तदवच्छेदकभेदेनाऽपीति संयुक्तघटस्याभावस्तत्र, स चान्य- विशिष्टाभाववदुत्पादविनाशशीलोऽन्य एवेत्यन्ये । यथाऽनादिसंसर्गाभाववैधर्म्येऽप्यभावबुद्धेरनन्यथासिद्धत्वादुत्पादशीलो ध्वंसः स्वीकृतः, तथा तत एवोत्पादविनाशशीलस्तुरीयः संसर्गाभावो घटस्येत्यपरे । ननु घटसंयोगाभावो योग्यानुपलब्ध्या ग्राह्यः, सा च प्रतियोगितद्व्याप्येतरयावत्तदुपलम्भक- सत्त्वेऽनुपलब्धिः, अत्र च संयोगस्योपलम्भको घट एव नास्तीति न संयोगाभावः प्रत्यक्षः । मैवम् । प्रकाशिका । सस्यापि प्रतियोगितावच्छेदकभेदेन बाधकाभावे सति भेदादित्याशयः । प्रतियोगितावच्छेदकाश्रय- चरमप्रतियोगिजन्यश्चायमभाव इत्यवधेयम् । सामान्यध्वंसानङ्गीकारे च संयोगसमानकालीनसंयोग- ध्वंसस्य सम्बन्धत्वमिति मन्तव्यम् । ननु संयोगध्वंसस्य सम्बन्धत्वे गुणादौ घटाभावप्रतीत्यनुदया- पत्तिरिति तत्र स्वरूपस्यैव सम्बन्धत्वेऽत्रापि तथैवास्तु कालविशेषावच्छिन्नस्वरूपश्च संबन्ध इति तत्कादाचित्कत्वेनैव कादाचित्कत्वप्रतीतिरित्यरुरुचेराह । यथेति । यद्यप्यत्र कल्पे “संयोगो ही” त्यादिमूलासङ्गतिरेव, तथापि घटो नास्तीति प्रतीतिमुपेक्ष्य संयोगो नास्तीत्येव प्रतीतिरुदाह- रणं, येति मूलतात्पर्यमिति भावः । एवमुत्तरत्रापि । नन्वेवं घटत्वावच्छिन्नघटज्ञानाद् घटो नास्तीति प्रतीतिः कदापि न स्यात्, संयुक्तत्वस्य प्रतियोगितावच्छेदकस्याज्ञानादित्यनुभवविरोध इत्यरुचेराह । यथेति । अत्रापि कालविशेषावच्छिन्नस्वरूपसम्बन्धेनैव कादाचित्कप्रतीत्युपपत्तौ मकरन्दः । भावान्तरवद् ध्वंसस्यापि सामान्याभावत्वमिति मतेनेदम् । न च ध्वंसस्य प्रतियोगिजन्यत्वनियमात् कथं तथेति वाच्यम्, चरमप्रतियोगिजन्यतया तथात्वात्, यावत्प्रतियोगिजन्यत्वे गौरवात् । ननु संयो- गध्वंसस्य घटात्यन्ताभावसम्बन्धरूपत्वे गुणादौ तदत्यन्ताभावसम्बन्धो न स्यात्, यदि च तत्र स्वरूपमेव सम्बन्धः, तदा प्रकृतेऽपि तथाऽस्तु, तत्कादाचित्कत्वाभ्युपगमाच्च प्रतीतेरपि तथात्वोप- पत्तेः । किञ्च, सामान्यध्वंसस्य तद्धटसंयोगसामान्यं वा, तद्भूतलघटसंयोगसामान्यं वा प्रतियोगी ? नाद्यः, व्यधिकरणस्थानागतस्य च संयोगस्य तदा तत्र भूतले ध्वंसासम्भवेनात्यन्ताभावसम्बन्धा- पपत्तेः । नान्त्यः, यत्र भूतले कदापि न तद्धटसंयोगस्तत्र प्रतियोग्यप्रसिद्ध्या तादृशध्वंसाभावेना- त्यन्ताभावसम्बन्धानुपपत्तेः, अनागतसंयोगमादाय पूर्वदोषापत्तेश्चेति पूर्वास्वरसादाह । यथेति । यथा दण्डोपनयानयनाभ्यां दण्डावच्छिन्नपुरुषविरहः कादाचित्कः, संयोगावच्छिन्नघटविरहोऽपि तथेत्यर्थः । नन्वेवं संयुक्तत्वेनैव घटोपस्थितिरभावप्रतीत्यङ्गं स्यात्, न तु घटत्वमात्रेण, तस्य प्रति- योगितावच्छेदकत्वात्, न चेष्टापत्तिः, तत्प्रकारकतदुपस्थित्यनन्तरमपि भूतले तद्धटाभावप्रतीतेरनु- भवसिद्धत्वादित्यरुचायादाह । यथाऽनादीति । समयविशेषसंसर्गेणा नित्याभावेनैवोपपत्तौ न तुरीयकल्पनमित्यनभिमतिबीजमत्रापि द्रष्टव्यम् । तदुपलम्भकं = प्रतियोग्युपलम्भकं, तस्य सत्त्वे समवधाने मेलने इति यावत् । उपलम्भो = लौकिकप्रत्यक्षम् । तथा च प्रतियोगितद्व्याप्याभ्यामितरद् यावत् तदुपलम्भकं, तत् सत्त्वे अनुपल- टिप्पणी । सत्त्वासत्त्व इति व्याख्यानदर्शनात् नाशस्य ध्वंसेऽसम्भवाच्च, तथा च भाविघटसंयोगे भूतलेऽत्र घटो नास्तीति प्रतीतेर्घटाभावविषयकत्वस्य सम्बन्धविरहेण वक्तुमशक्यत्वेन घटसंयोगध्वंसविषयत्वमेव, घटाभावविषयकत्वे तु यत्र संयोगसमानकालीनः संयोगध्वंसस्तत्रैव जायमानायाः प्रतीतेः, एतच्च “संयोगो ह्यत्रे” त्यादिमूलस्यापि नासङ्गतिरिति बोध्यम् । अन्य इति । अत्रा-

२४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकान्याख्याने] स्याऽन्यथोपयोगः, भूतलस्याप्यन्यथैव स्यादविशेषात् । कथमन्यथेति चेत् । प्रति- योगिनिरूपणार्थमभावसन्निकर्षार्थञ्च । तत्र प्रतियोगिनिरूपणं स्मरणलक्षणमनुप- लभ्यमानेनापीति, न तदर्थमध्यक्षगोचरत्वमपेक्षणीयमन्यतरस्यापि; कुत उभयस्य । सन्निकर्षस्तु, भूतलघटसंयोगाभावस्येन्द्रियेण साक्षान्नास्ति, येनास्ति तेनापि बोधनी । घटस्योपयोगः । तच्च स्मर्यमाणेनापि तेन सिध्यतीति भावः । तदेतद् भूतलस्यापि तुल्यमित्याह । भूतलस्य इति । विवक्षितमन्यथोपयोगं प्रश्नपूर्वकमाविष्करोति । कथमिति । न तावत्प्रति- योगिनिरूपणे तयोः प्रत्यक्षत्वोपयोग इत्याह-तत्र इति । प्रतियोगिनः संसर्गस्य तावन्निरूपणं स्मरणलक्षणं तदानीमनुभवस्यासंभवात्, स्मरणं चाप्रत्यक्षेणापि तन्निरूपकेण संसर्गेिणा भवतीति न भूतलघटयोरन्यतरस्यापि प्रत्यक्षत्वेन प्रतियोगिनिरूपणोपयोगः किमुतोभयोरिति । अभावसन्न्रि- कर्षार्थत्त्वेऽपि भूतलस्य न प्रत्यक्षत्वेनोपयोग इति दर्शयिष्यन् सन्निकर्षं तावदाह-सन्निकर्षस्तु प्रकाशः । यो ह्यनुपलम्भः प्रतियोगिसत्त्वविरोधी, स एवाभावग्राहकः । अत एव पृथिवीत्वाभावो जलपरमाणुषु न प्रत्यक्षः । प्रत्यक्षश्च वायौ रूपाभावः । रूपस्य महति वायौ सत्त्वेऽनुपलब्धिविरोधात् । स च शब्दाधाराप्रत्यक्षत्वेऽपि प्रकृतेऽस्तीति शब्दाभावः प्रत्यक्ष इति भावः । कथमिति । अन्यथेत्यत्र कोऽन्यः प्रकार इत्यर्थः । ननु संयोगाभावप्रतीतौ सन्निकर्षमात्रार्थं भूतलस्योपयोगे गन्धतदभावबुद्धौ द्रव्यग्रह इव नियमेन भूतलोपलम्भो न स्यात् । अतः सन्निकर्षवदस्योपलब्धिरभावप्रत्यक्षाऽङ्गमित्यु- प्रकाशिका । क्तं विलक्षणाभावकल्पनयेत्यरुचिवीजम् । यो हीति । तथाचैव योग्यानुपलब्ध्या संयोगाभावो- ऽपि गृह्यत इति भावः । स च शब्देति । यद्यपीदमप्रकृतं शब्दाभावस्य पूर्वपक्षविषयत्वात् । मकरन्दः । न्धिरित्यर्थः । चक्षुरादिकरणसमवधानमात्रे तु न योग्यानुपलब्धिः, अन्धकारे घटाभावप्रत्यक्षापत्तेः । किन्तु यावत्प्रतियोग्युपलब्भकसामग्रीसमवधाने सत्यनुपलब्धिः । तथा सति नान्धकारे घटाभाव- ग्रहापत्तिः, घटोपलम्भकसामग्रीमध्यपातितो यावदन्तर्गतस्यालोकसम्बन्धस्य तदानीमभावात् । प्रति- योग्युपलम्भे प्रतियोगिनोऽपि विषयविधया हेतुतया तस्यापि यावदन्तर्गतत्वात् प्रतियोगीतरेति । प्रतियोगिसत्त्वेऽपि तेन सममिन्द्रियसन्निकर्षश्च प्रतियोगिव्याप्यः, व्याप्तिश्च भेदगर्भा विवक्षिता अतः प्रतियोगिनः प्रतियोगिव्याप्यत्वेऽपि न क्षतिः । यत्किञ्चिदुपलम्भकसत्त्वेऽप्यन्धकारादौ तदभावग्रहा- भावाद् यावदिति । तथा च प्रतियोगितद्व्याप्यभिन्नं प्रतियोग्युपलब्धिव्यापकं यद् यत्, समुदित- तत्सत्त्व इत्यर्थः । विभिन्नदेशावच्छेदेन यावत्तदुपलम्भकसत्त्वेऽप्यभावाग्रहात् समवधान इति व्याख्यातम् । तत्र तद्धर्मावच्छिन्नतद्धर्मावच्छिन्नव्याप्येतरतद्धर्मावच्छिन्नलौकिकप्रत्यक्षयावत्कारणसम- वधाने सति तद्धर्मावच्छिन्नानुपलब्धिः कारणमिति तु निष्कर्षः । यो हीति । तथा चेयमेव योग्यानुपलब्धिरभावग्राहिकेति संयोगाभावोऽपि प्रत्यक्ष एवेति भावः । एवं सति प्रकृतः शब्दाभाव एव प्रत्यक्षो न स्यादिति नाशङ्कनीयं, तत्राप्युक्तानुपलब्धिसत्त्वा दित्याह । स चेति । एतेन शब्दाभावमधिकृत्य पूर्वपक्षाभावादिदमसङ्गतमित्यपास्तम् । टिप्पणी । रुचिबीजन्तु कालविशेषावच्छिन्नस्वरूपेणैव घटाभावादिकादाचित्कत्वप्रतीत्युपपत्तेरतिरिक्ताभाव- कल्पने मानाभाव इति । अनुपलब्धिविरोधादिति । एवं सति घटस्यानुपलम्भेऽपि संयोगाभावप्रत्यक्षसम्भवः, भूतले संयोगानुपलम्भस्य संयोगसत्त्वविरोधित्वेन तावन्मात्रस्यैवा- पेक्षणीयत्वादिति भावः । यद्यपीदमप्रकृतं शब्दाभावस्य पूर्वपक्षविषयत्वात् । तथापि प्रति- योग्ययोग्यत्वे शब्दाभावोऽपि प्रत्यक्षो न स्यादिति शङ्कामात्रानेरासार्थम्—स चेत्यादि ।

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २४७ यदीन्द्रियं न सन्निकृष्येत, कथमिव तं गमयेत्। न चोपलब्धोपलभ्यमानाभ्यामेवेन्द्रियं सन्निकृष्यते। इतरेतराश्रयप्रसङ्गात्। तस्मात् सन्निकर्षे सति योग्यत्वाद् भूतलमप्युपलभ्यते, न तु तस्योपलभ्यमान- त्वमभावोपलब्धेरङ्गमिति युक्तमुत्पश्यामः। प्रकृते तु न प्रतियोगिनिरूपणार्थं तदुप- योगः। तस्य संयोगवदाधारानिरूप्यत्वात्। नाऽपि सन्निकर्षार्थं, तदभावस्य साक्षा- दिन्द्रियसन्निकर्षादिति। न चेदेवं, कुत एषा प्रतीतिरिदानीं श्रुतपूर्वः शब्दो नास्तीति। अनुमानादिति चेन्न। शब्दस्यैव पक्षीकरणे हेतोरनाश्रयत्वात्। अनित्यत्वमात्र- · बोधनी । इति । न तावदिन्द्रियेण साक्षात्सन्निकर्षः संयोगः समवायो वाऽभावस्यास्ति । येन भूतलेन विशे- षणविशेष्यभावेन सन्निकर्षोऽस्ति तेनापि यदीन्द्रियं न सन्निकृष्येत तदाऽव्यवहितस्यापि सम्बन्धा- भावात्कथमिव तमभावं गमयेदिति । ननु सन्निकर्षार्थत्वेऽपि भूतलस्य प्रत्यक्षत्वेनोपयोगः अनुपलब्ध- स्यानुपलभ्यमानस्य चेन्द्रियसन्निकर्षाभावादित्यत आह । न च इति । इन्द्रियसन्निकर्षादुपलम्भ उपलम्भादिन्द्रियसन्निकर्ष इतीतरेतराश्रयप्रसङ्गादिति । यदि भूतलसन्निकर्ष एवोपयुज्यते न तु तदुपलम्भः, कथं तर्हि भूतले घटो नास्तीति भूतलो- पलम्मेनैवाभावोपलम्भ इतीमामाशङ्कां निराकुर्वन्नुपसंहरति—तस्मात् इति । तर्हि शब्दाभावेऽ- प्युभयार्थमेवाधिकरणमपेक्षणीयम्, न च तत्सम्भवतीत्यप्रत्यक्षत्वमेव तस्येत्यत्राह—प्रकृते तु- इति । तस्य = प्रतियोगिनः शब्दस्येति । अथेदानीमैन्द्रियकत्वानुमानस्थानुग्राहकं तर्कमाह । चेदेवम् इति । न चेच्छब्दाभावः श्रोत्रेण गृह्यते ततः कारणाभावेषा प्रतीतेर्न स्यादिति । नन्वस्त्वनुमानादियं प्रतीतिरित्याह । अनुमानात् इति । नास्तीदानीं शब्दः अनुपलभ्यमानत्वा- प्रकाशः । पलब्धौ सत्यामेव सन्निकर्ष इत्यत्राह । न चेति । अत्रोपलब्धेनेत्यत्रे न्द्रियसन्निकर्षे भूतलोपलम्भ- स्तस्मिन् सतीन्द्रियसन्निकर्ष इति इतरेतराश्रयत्वम् । उपलभ्यमानेनेत्यत्र यद्युपलब्धिसम्बन्धिने- त्यर्थः, तदा पूर्ववदितरेतराश्रयत्वम् । यदि तु सन्निहितोपलम्भकारणेनेत्यभिमतं, तदैकसामग्रीप्रसूतत्वेनाव्यभिचारेऽपि भावप्रतीत्य- ङ्गत्वमवर्जनीयसन्निधेरन्यथासिद्धत्वादित्याह— तस्मादिति । न च शब्दध्वंसग्रहेऽपि शब्दन्निरूपणार्थमाधारग्रहस्योपयोग इत्याह । प्रकृते त्विति । तस्य = शब्दस्य । संयोगवदिति व्यतिरेकदृष्टान्तः । तदभावस्येति । शब्दध्वंसस्य प्रतियोगिदेशाकारो विशेषगतत्वादित्यर्थः । न चेदेवमिति । यदि योग्यप्रतियोगिकत्वमात्रं नाभाव- योग्यतावच्छेदकमित्यर्थः । शब्दस्यैवेति । शब्दं पक्षीकृत्य यदि ध्वंसवत्त्वं साध्यं, तदा शब्द- प्रकाशिका । तथापि निरुक्तानुपलब्धौ शब्दाभाव एव प्रत्यक्षोऽपि न स्यादित्याशङ्कामात्रनिराकारणायेदम् । तदै- केति । यद्यप्येषं समसमयत्वेन पूर्ववर्तित्वाभावान्नङ्गत्वमित्यन्यथासिद्धथुपवर्णनं व्यर्थम् । तथापि दैवाद् पूर्ववर्तित्वेऽप्यनङ्गत्वमिति विभावयितुं तत्कृतम् । तदपि संयोगरूपप्रतियोगिसमवायिनिह- मकरन्दः । तदैकेति । यद्यप्येवं समसमयत्वात् पूर्ववर्त्तित्वाभावेनानङ्गत्वमित्यन्यथासिद्धयुपदर्शनमयुक्तं, तथापि यत्रापि पूर्ववर्त्तित्वं तत्रापि तदनङ्गत्वमिति दर्शयितुमन्यथासिद्धत्वादित्युक्तम् । एतदपि संयोगरूप- प्रतियोगिसमवायितया भूतलस्य न निरूपकत्वमित्येवं परं, अधिकरणनिरूपकत्वस्याग्रेऽभ्युपगमादिति । टिप्पणी अन्यथासिद्धत्वादिति । यद्यप्युपलब्धेः समानकालत्वेन पूर्वत्वाभावादेवानङ्गत्वम्, तथापि

२४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्याया साधने अभावस्य नियतकालत्वासिद्धेः । आकाशस्य पक्षत्वे तद्वत्तयाऽनुपलभ्य- मानत्वस्य हेतोरनैकान्तिकत्वात् । शब्दसद्भावकालेऽपि तस्य सत्त्वात् । एवं काल- पक्षेऽपि दोषात् । अहमिदानीं निःशब्दश्रोत्रवान्, शब्दोपलब्धिरहितत्वात्, बधिर- वदिति चेन्न । दृष्टान्तस्य साध्यविकलत्वाद्, व्याहतत्वाच्च । बधिरश्च श्रोत्रवांश्चेति व्याहतम् । तस्यापि च श्रवसो निःशब्दत्वे प्रमाणं नास्ति । बोधनी । दित्यनुमाने तावदाश्रयासिद्धो हेतुः, शब्दस्याश्रयत्वानुपपत्तेरिति । तर्हि सन्तमेव शब्दं पक्षयित्वा तस्य कृतकत्वेनानित्यत्वं साध्यम् इत्यत्राह—अनित्यत्व इति । तत्र हि शब्दः कदाचित् प्रध्वंसिष्यत इत्येतावदेव सिद्ध्येत् न त्विदानीं नास्तीति । तर्हीदानीं निःशब्दमाकाशं तद्वत्तयाऽनु- पलभ्यमानत्वार्थतया घटवत्तयाऽनुपलभ्यमानं भूतलं विघटमित्यनुमानं भविष्यतीत्यत्राह—आका- शस्य इति । शब्दसम्भवकालेऽप्याकाशस्यातीन्द्रियत्वेन तद्वत्तयाऽनुपलम्भात् । यद्वा, आप्त्यादि- शब्दानां सतामेवानुपलम्भादिति भावः । कालेऽपि पक्षे पूर्वस्य हेतोरनैकान्तिकत्वमित्याह । एवम् इति । अनुमानान्तरमाशङ्क्य निराकरोति । अहमिदानीम् इति । व्याहतिं तावद्विभजते— बधिरः इति । साध्यवैकल्यं विभजते—तस्यापि इति । ननु यदि बधिरेणानुपलभ्यमानः शब्दस्तच्छ्रोत्रप्रदेशे भवेत् ततोऽयं व्यर्थं स्यात् । न च व्यर्थस्योत्पत्तिः संभ॑वति, भोक्तॄणामुपभोगायैव तत्तददृष्टवशात्सर्वस्योत्पत्तेः । तस्मान्नास्ति तत्र शब्द प्रकाशः । सत्त्वकाले उपलभ्यमानत्वं हेतुः स्वरूपासिद्धः, तदसत्त्वकाले तु हेतोः पक्षे वृत्तावपि साध्यस्य ध्वंसवत्त्वस्य तत्रावृत्तेर्बाधितविषयत्वेनापक्षधर्मत्वादित्यर्थः । ननु ध्वंसप्रतियोगित्वे साध्ये न बाध इत्यत आह । अनित्यत्वेति । यदा कदाचिद् ध्वंस- सिद्ध्याऽर्थान्तरत्वादित्यर्थः । कालपक्षेऽपीति । तद्देशेऽन्यत्र वा शब्दसत्त्वकालेऽपि तद्वत्तया कालस्यानुपलभ्यमानत्वादित्यर्थः । शब्दोपलब्धीति । पूर्वोपलब्धत्वेन शब्दो विशेषणीयः, तेन ध्वंसः सिद्ध्यति । पश्चादुक्तमपि सन्निधानात् पूर्वं स्फुटयति । बधिरश्चेति । शब्दोपलम्भकादृष्ट- विशिष्टकर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रं बधिरस्य नास्तीत्यर्थः । ननु चादृष्टविशेषः शब्दोपलब्धौ सहकारी, न तद्घटितं श्रोत्रमित्यतो दृष्टान्तस्य साध्यवैकल्यं विवृणोति । तस्यापीति । श्रोत्रस्यादृष्ट- घटितत्वसंशयेऽपि न साध्यसिद्धिरिति भावः । ननु बधिरश्रोत्रे शब्दोत्पत्तौ स उपभुज्येत, उपभोगाभावाच्छब्दो नास्तीत्याह— प्रकाशिका । पंक्तया भूतलस्य न निरुपकत्वमित्येवं परमधिकरणनिरूप्यत्वस्याग्रेऽभ्युपगमादित्यवधेयम् । अप- क्षधर्म्मत्वादिति । व्यतिरेकनिश्चयेन संशयघटितपक्षताविरहादिति भावः । सन्निधानादिति । यद्यप्येतादृशसन्निधानं प्रथमाभिधानप्रयोजकं न कापि दृष्टं तथापि मूलकृतो दूषणानुपक्रमो हृदिस्थः । अत एव ननु चादृष्टविशेषः शब्दोपलब्धावित्यादिना द्वितीयपक्षारुच्या प्रथमकल्प इत्युक्तम् । प्रथमकल्पारुचिर्हि द्वितीयकल्पोत्थानबीजम् तत्र तत्र दृष्टमित्यभिप्रायेणेदम् । ननु मानाभावेऽपि सन्देहोऽस्त्वित्यत आह । संशयेऽपीति । उपनीतभानमादाय सत्यन्तं वीणादौ वर्तत एवेति कथ- टिप्पणी । कुत्रचित्पूर्वत्वसम्भवेऽपि नास्त्वमन्यथासिद्धेरिति विभावयितुमन्यथासिद्धोपन्यासः । अप- क्षधर्म्मत्वादित्यर्थ इति । साध्यव्यतिरेकनिश्चयसत्त्वेन संशयरूपपक्षताविरहेणेति शेषः । कालस्येन्द्रियचेयत्वे त्वाह , अन्यत्रेति । पश्चादुक्तमपि सन्निधानादिति । साध्यविक-

Here is the Devanagari transcription of the page, organized line by line:

द्वितीयस्तबके ] शब्दानित्यत्वोपपादनम् । २४९ अनुपभोग्यस्य उत्पादवैयर्थ्यं प्रमाणमिति चेन्न । आद्यादिशब्दवदुपपत्तेः । तेषां शब्दान्तरारम्भं प्रत्युपयोगोऽन्त्यस्य न तथेति चेन्न । अन्त्यत्वासिद्धेः । सर्वेषां चोत्पादवतां प्रयोजनतदभावयोरस्मार्दृशैरनाकलनात् । सुषुप्त्यवस्थायां श्वासप्रश्वा- सप्रयोजनवच्च तदुपपत्तेः। आरम्भे हि सति प्रयोजनमवश्यमिति व्याप्तेः। नत्वापाततः प्रयोजनानुपलम्भमात्रेणारम्भनिवृत्तिः । तथा सति कर्णशष्कुल्यवच्छेदोत्पाद एव नभसस्तं प्रति निवर्त्तेत । बधिरस्य तेनानुपयोगात् । विवादकाले बधिरकर्णः शब्द- वान्, योग्यदेशस्थानावृतकर्णशष्कुलीसुषिरत्वात् तदितरकर्णशष्कुलीसुषिरवदिति । निःशब्दाः पराशर्व,णादयः तदेकज्ञानसंसर्गयोग्यत्वे सति तदनुपलम्मेऽप्युपल- बोधनी। इत्याह-अनुपभोग्यस्य इति । न इति । अनुपभोग्यानामेवाद्यादिशब्दानामुत्पाददर्शनान्नानुपभो- ग्यत्वस्यानुत्पादेन व्याप्तिरिति । नन्वाद्यादिशब्दानाम्रुपभोग्यानामपि न वैयर्थ्यं शब्दान्तरार- म्भोपयोगात्, अन्त्यस्य तूपयोगान्तराभावादानर्थक्यमेव स्यादित्याह तेषाम्-इति । न इति । बधिरश्रोत्रसमवेतस्यापि शब्दस्यान्त्यत्वासिद्धेः शब्दान्तरारम्भेणैवोपयोगः सिद्ध्यतीति । किं चा- स्मदादिभिरनुपलम्भात् प्रयोजनस्याभावोन निश्चेतुं शक्योऽयोग्यत्वेनाप्युपपत्तेरित्याह-सर्वेषाम् इति । यथा हि सुषुप्तावस्थायामस्मदादिभिरनाकलितप्रयोजनयोरेव श्वासप्रश्वासयोरुत्पादस्तथा बधिरकर्णगतस्यापि शब्दस्य भविष्यतीति । उक्तमेवोपपादयति-आरम्भे हि इति । यदि तु प्रयोजनानुपलम्भमात्रेणाऽऽरम्भो निवर्तेत तदा बधिरस्य कर्णशष्कुल्मा नभसोऽवच्छेदो- त्पाद एव न स्यात् बधिरस्य तेनावच्छेदेनानुपयोगात् इत्याह-तथा सत्ति इति । तदेवं बधिरक र्णस्य निःशब्दत्वे प्रमाणं नास्तीत्युक्तं, सशब्दत्व एव प्रमाणमस्तीत्याह-विवाद इति । यदा शब्द- संतानः प्रतीयते योग्ये च देशेऽनावृतकर्णविवरो बधिरस्तिष्ठति, तदा तत्कर्णो न शब्दवानिति परे- णोच्यते तस्मिन् विवादकाल इति । तदेवम् 'अहमिदानीं निःशब्दश्रोत्रवान्' इति प्रयोगो दृषितः । अथैकदेशी प्रयोगान्तरमाह-निःशब्दाः इति । सशब्दानामपि वीणादीनामुपलभ्यमानत्वाद् व्यभिचारनिवृत्त्यर्थमुक्तं-तदनुपलम्भेऽपि इति । शब्दानुपलम्मेऽपीत्यर्थः । तथापि धर्म्यनुप- प्रकाशः। अनुपभोग्यस्येति । आद्यादिशब्दानामनुपभोग्यानामनुपभोग्यत्वमनेकान्तिकमित्याह आद्यादीति । उपभोग्यशब्दान्तरारम्भकत्वेन परंपरयोपभोग्यत्वं तेषाम् । प्रकृतस्य तु शब्दा- न्तराजनकत्या न तथात्वमित्याह तेषामिति । प्रकृतस्याप्युत्पादकत्वेनान्त्यत्वासिद्ध्याऽनुपभो- ग्यत्वासिद्धिरित्याह अन्त्यत्वेति । प्रत्युत बधिरश्रोत्रस्य शब्दसद्भाव एव मानमस्तीत्याह विवा- देति । यद्वा तद्देशवासिभिः श्रोत्रवद्भिरुपलभ्यते शब्दस्तदैत्यर्थः । धर्म्यन्तरं पक्षीकृत्य शब्द- ध्वंसानुमानमाह निःशब्दा इति । एकज्ञानसंसर्गयोग्यत्वमात्रं घटादौ व्यभिचारीति नियमेन ' प्रकाशिका । मसिद्धिरित्यत आह एकज्ञानेति । घटादाविति । तादृशगन्धानुपलम्भेऽप्युपलभ्यर्मानस्य घटस्य मकरन्दः। ध्येयम् । बाधितेति । प्राचीनमतेनेदम् । घटादाविति । तादृशगन्धाद्यनुपलम्भेऽप्युपलभ्यमानस्य टिप्पणी । लत्वव्याहतयोरित्यादिः । अनुपभोग्यत्वमनेकान्तिकमिति । अनुत्पत्तेरिति शेषः । एक- ज्ञानसंसर्गयोग्यत्वेति । एकज्ञानसंसर्गयोग्यत्वस्योपनीतभानमादाय वीणायामपि सत्त्वात्रासिद्धिरि- त्यत आह-एकेति । घटादौ व्यभिचारीति । गन्धं विनाप्युपलभ्यमान उपनीतभानात्मकर्गन्ध- ज्ञानविषयत्वयोग्ये गन्धाभावाभाववति घटादावित्यर्थः । नियमेन तथात्वं वाच्यमिति । निय- ३२ न्या० कु०

२५० व्याख्याद्वयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां श्यमानत्वात् । यद् यदेकज्ञानसंसर्गयोग्यस्य अनुपलब्धेऽप्युपलभ्यते तत् तदभाववत् यथा अघटं भूतलमितिचेन्न । एकज्ञानसंसर्गयोग्यत्वाभावात्, शब्दस्य श्रोत्रत्वादीणा- दीनां चाक्षुषत्वात् । अभिमानमात्रादितिचेन्न, तथापि शब्दप्रध्वंसस्यातद्देशत्वाद् , अत्यन्ताभावस्य च कालाऽनियमात् । स्यादेतत् । शब्दवदाकाशोपाधयो हि भेर्यादयः । तेन तेषु विधीयमानः शब्द बोधनी । लम्भेऽप्युपलभ्यमानेनात्मना व्यभिचारो मा भूदित्युक्तं-तदेकज्ञानसंसर्गयोग्यत्वे सति इति । तेन तद्विशेषणेन सह यदेकं ज्ञानं विशिष्टज्ञानमिति यावत्, संसर्गस्तद्विषयत्वं तयोर्ग्यत्वे सतीति विशेषणासिद्धो हेतुरित्याह-न इति । अयोग्यत्वमेवाह-शब्दस्य इति । ननु सुरभि चन्दनमि- त्यादिषु भिन्नेन्द्रियग्राह्ययोरपि विशिष्टज्ञानविषयत्वं वक्ष्यति । सत्यं, तत्र गुणगुणिभावं वदन्नदोषं वक्ष्यतीति । ननु परमार्थतस्तदभावेऽपि मधुरस्वरा वीणेति लौकिकानामभिमानस्तावद् दृश्यते, तन्मात्रादेव सिद्धं तदेकज्ञानयोग्यत्वं हेतोर्विशेषणं भविष्यतीत्याह-अभिमान इति । अस्तु तथा नाम विशेषणं, तथापि शब्दस्य वीणाद्याश्रयत्वेन तत्प्रध्वंसस्याप्येतद्देशत्वाद्वाग्निःशब्दा वीणादय इति प्रतिज्ञा वाधितविषया स्यादित्याशयेनाह-तथापि इति । ननु वीणादिषु शब्दस्यात्यन्ताभावः साध्यते, न तस्य प्रध्वंसवत् प्रतियोगिदेशत्वम् । यदि तु स देशः प्रतियोगिनोऽपि कदाचित् स्यात् ततस्तत्रात्यन्ताभाव इति व्याहन्येतेत्याह-अत्यन्ताभावस्य इति । तदानीं शब्दो नास्तीति नियतकालतया शब्दाभावप्रतीतिर्न स्यात्, अत्यन्ताभावस्य सर्वदा सत्त्वादिसद्धसाधनत्वं च तदा स्यादिति भावः । स्यादेतत् इति । भेर्याद्यवच्छिन्ने ह्याकाशे शब्दः समवैति विभुकार्याणामसमवायिकारण- प्रकाशः। तथात्वं वाच्यं, तथा चासिद्धिरित्याह एकज्ञानेति । शब्दे भासमाने उपनीतो वीणादिरपि भासते इति तत्सिद्धिरित्याह-अभिमानेति । निःशब्दा इति, शब्दध्वंसवन्त इति साध्यं शब्दसमवायित्व- रहिता इति वा ? नाद्यो, बाधादित्याह तथापीति । अतद्देशत्वादीणाद्यदेशत्वादित्यर्थः । ध्वंसस्य प्रतियोगिसमानदेशत्वनियमादत्रापि नियमेनै कज्ञानसंसर्गयोग्यत्वमसिद्धमिति भावः । अन्त्ये नियत कालप्रतीत्यनुपपत्तिरित्याह अत्यन्तेति । सिद्धसाधनश्च द्रष्टव्यम् । एवमन्योन्या- भावेऽपि साध्ये इति भावः । उपाधौ विधिनिषेधावुपाधिमति भवत इति वीणादिदेशत्वमेव शब्दध्वंसस्येति शङ्कते- स्यादेतदिति । उपाधिः = अवच्छेदकः । यद्यपि शरीरे गन्धविधौ, विभुत्वनिषेधे चात्मनि प्रकाशिका । तदा गन्धसत्त्वेन व्यभिचार इत्यर्थः। शब्दे भासमान इति। या वीणा व्यक्तिरुपनीता तत्प्रभवशब्दे भासमाने भासत एव, सैव पक्षयितव्येति नासिद्धिरिति मूलतात्पर्यमिति भावः । अत्रापीति । व्यक्तिविशेषाभिप्रायेण नियमे घटादावेव व्यभिचार इति कारणतावच्छेदकावच्छिन्ने नियमो वाच्यः तथा चासिद्धिरितिभावः। एवमन्योन्याभावेऽपीति । शब्दसमवायिभिन्ना इत्यत्र साध्य इत्यर्थः। उपाधाविति । उपाधौ विधिनिषेधसत्त्वे एव परमुपाधिमति विधिनिषेधावित्युपाधिविशिष्टे साध्या- मकरन्दः । घटस्य गन्धादिमत्त्वाद्व्यभिचार इत्यर्थः । एवमिति । शब्दसमवायिभिन्ना, इत्यत्र साध्ये इत्यर्थः। उपाधिमत्तीति । तथा च विशिष्टस्य तदाश्रयतदा विशेषणस्यापि तथात्वमिति भावः । तदेवाह वीणादीति । वीणादिदेशत्वं भवत्येवेत्यर्थः, तथा च न बाध इति भावः । यद्यप्येवमुपाधिमात्र- टिप्पणी । मेनैकज्ञानसंसर्गयोग्यत्वम्,तज्ज्ञानतद्व्यापकविषयतावच्छेदकधर्मवत्त्वम् , तत्सत्वे तदुपलम्भसामग्री-

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २५१ आकाश एव विहितो भवति । प्रतिषिध्यमानश्च तत्रैव प्रतिषिद्धो भवति । शरीरे सुखादिवदिति चेन्न । तत्र सोपाधावात्मनि प्रत्यक्षसिद्धे सुखादिनिषेधस्यापि प्रत्यक्ष- सिद्धत्वात्। न चैवमिहापि, तदुपहितस्य नभसोऽप्रत्यक्षत्वात्। उपाधयस्तावत् प्रत्यक्षा इति चेन्न । तैरभावानिरूपणात् । निरूपणे वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात्। बोधनी । देशानुरोधित्वात्, तेन शब्दवत् आकाशदेशस्योपाधिषु विधीयमानो निषिध्यमानोऽपि शब्दस्त- दुपहित आकाश एव विहितो निषिद्धोऽपि भवति । यथा शरीरावयवे विधीयमाना निषिध्यमाना वा सुखादयस्तदुपहित आत्मनि तथात्वं लभन्ते, तस्माद् भेर्यादिषु निषिध्यमानः शब्दध्वंस आकाश एव निरूपितो भवतीति। न इति । न हि तत्र शरीरे निषिध्यमानानां सुखादीनामर्यादात्मनि निषेधः सिध्यति उपहितस्याऽऽत्मनः प्रत्यक्षसिद्धत्वेन तदाश्रयस्य सुखाद्यभावस्य प्रत्यक्षत्वोपपत्तेः, न चेयं विधा शब्दप्रध्वंसे संभवतीति । उपहितस्य नभसोऽप्रत्यक्षत्वेन तदाश्रयस्य शब्दप्रध्वंसस्या- प्यप्रत्यक्षत्वादिति । ननूपहितस्याप्रत्यक्षत्वेऽप्युपाधयस्तावद् भेर्यादयः प्रत्यक्षाः ततस्तैरेव शब्दप्रध्वं- सो निरूप्यत इत्याशयेनाह-उपाधयः इति । न इति । आश्रयनिरूप्यत्वादभावस्य तेषां चाना- श्रयत्वादिति भावः । अनाश्रयैरपि तैर्निरूपणे वा को दोषस्तत्राह-निरूपणे वा इति ।' प्रकाशः। तौ न भवत इति नायं नियमः, तथापि यदवच्छेदेन यद् वर्त्तते तत्रावच्छेदके विधिनिषेधधीर- वच्छिन्नविधिनिषेधविषयेति नियम इति भावः। उपनीतशरीरावच्छेदेनाऽऽत्मनि योग्ये, सुखा- यभावग्रहेऽपि नाकाशे शब्दाभावग्रहः, उपाधिमतोऽपि तस्यायोग्यत्वादिति परिहरति तत्रेति । तैरिति । वीणादयः प्रत्यक्षा अपि न शब्दसमवायिन इति न तैः शब्दध्वंसो निरूप्यते इत्यर्थः । निरूपणे वेति । तथा च विवादाभावो दृश्याधारत्वदृश्यप्रतियोगित्वयोः संभवादिति भावः । प्रकाशिका । धिकरणत्वप्रतीत्या उपाधेर्वीणादेरपि तदधिकरणत्वमिति न ध्वंससत्त्वे साध्ये बाध इति भावः । न- चैवं प्रत्यक्षमुपेक्ष्य किमित्यनुमानधारणम् ? अधिकरणयोग्यतया च शब्दध्वंसस्याप्रत्यक्षत्वं पूर्वं- स्वयमेवोक्तं तद्विरोधश्चेति वाच्यम् । वीणादौ शब्दध्वंसो वर्त्तत एव, गृह्यते चेति ध्वंसः प्रतियोगि- समवायिप्रत्यक्षेणैवेति तदाशयात् । एवञ्च मूले आकाश एवेत्येवकारो भिन्नक्रमः, तेष्वेवेत्येवं योजनीयः, मूले च 'विधीयमान' इति दृष्टान्तार्थम् । उक्तक्रमेण मूलव्याख्याने तत्रावच्छेदक इत्यादिमूलासङ्गतिं परिहरति । तत्रावच्छेदके इति । अवच्छेदके विधिनिषेधसत्त्व एव विशिष्टे विधिनिषेधधीरित्यर्थः । उपाधिमतोऽपीति । उपाधौ विधिनिषेधप्रत्यक्षे सत्येवोपहित उपाधि- मति विधिनिषेधप्रत्यक्षमित्येतावन्मात्रं स्वीक्रियते, प्रतीत्यनुरोधात् , न चैतावता विशिष्टे प्रत्य- क्षानुरोधेन विशेषणादौ शब्दध्वंससत्त्वं विशेष्यायोग्यतया विशिष्टप्रत्यक्षाभावाद् दृष्टान्तस्थले तत्सत्त्वास्तीति भावः । वीणादय इति । उक्तक्रमेण तेषां शब्दध्वंसाधिकरणत्वे मानाभावात् मकरन्दः । देशत्वमेव साधयितुमर्ह मित्याकाश एव विहितो भवतीति मूलमसङ्गतं, तथाप्यवच्छेदकतया तस्या तदधिकरणत्वं तच्चावच्छेदकसापेक्षमिति विशिष्टदेशत्वसाधनमिति भावः । उपाधिमत्ताऽपीति । टिप्पणी । नियतोपलम्भविषयतायाः प्रतियोगिव्यधिकरणाभावाभाववत्त्वं वा। अस्ति चेदं जातियक्त्योः, व्यक्तिं विना जातिभानानुपपत्तेरिति । नियमो हि व्यत्त्यपेक्षया जात्यपेक्षया वा, आद्ये यद्घटव्यक्तैनियमेन गन्ध उपलभ्यमाने उपलव्धिस्रत्र गन्धं विनापि चक्षुषोपलभ्यमाने व्यभिचारः । अन्त्येऽसिद्धिरुद- वस्तैवेत्याह अत्रापीति। शङ्कते इति। उपाधौ विधिनिषेधसत्व एवोपाधिमति तानित्युपहिते शब्द ध्वंससत्वे उपाधावपि तत्सत्वमिति न वीणादौ शब्दध्वंसस्त्वरूपं साध्यं वाधितमिति भावः । विधि- निषेधधीरिरिति । तथा च वीणायां शब्दनषेधानुमितेर्वीणावच्छिन्नविषय इति न बाध इति भावः ।

२५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां न चैवं सति पारमार्थिकाधिकरणनिरूपणीयत्वमभावस्य । न च तेऽपि प्रत्यक्षसिद्धाः । सर्वत्र शब्दकारणव्यवधानेऽप्युपलब्धस्य शब्दस्य नास्तिताप्रतीतेः । आनुमानिकैस्तै- स्तथाव्यवहार इति चेन्न । हेतोस्तद्वत्तयाऽनुपलभ्यमानत्वस्यानैकान्तिकत्वात् । अभा- वप्रतीतिकाले सन्दिग्धाश्रयत्वाच्च । उपलभ्यमानविशेष्यत्वपक्षे चाऽसिद्धेः । इन्द्रि- यव्यवधानाच्छन्दलिङ्गस्य चानुपलम्भात् । बोधनी । निरूपकाणां प्रत्यक्षत्वात्तन्निरूप्यस्याभावस्यापि प्रत्यक्षत्वप्रसङ्ग इति । किं च तैरेव निरूपणेऽभ्युप- गतहानिरपि स्यादित्याह—न चैवम् इति । तेषामभावानधिकरणत्वादिति । किं चाप्रत्यक्षेष्वप्यु- पाधिषु शब्दाभावस्योपलम्भात्तन्निरूप्यत्वमित्याह—न च तेऽपि इति । शब्दस्य हि निमित्तका- रणानां भेर्याद्युपाधीनां कुड्यादिव्यवधानेऽपि पूर्वोपलब्धस्य तस्याभावः प्रतीयत इति । ननु शब्द- लिङ्गानुमितैर्वीणादिभिः पक्षीकृतैः शब्दाभावमनुमायं निःशब्दास्त इति व्यवहारः स्यात् इत्याह— आनुमानिकैः इति । न इति । सशब्दा अपि हि ते तद्वत्तया नोपलभ्यन्ते तेषामश्रोत्रत्वादिति । सन्दिग्धाश्रयत्वादिति । तदानीं शब्दलिङ्गाभावात् नाशसंभवाच्चेति । तर्ह्युपलभ्यमाना भेर्या- दय इति पक्षं विशेषयिष्याम इत्यत्राह—उपलभ्यमान इति । तदा हि विशेषणासिद्धः पक्षः स्यादिति । कुत इत्यत आह—इन्द्रिय इति । प्रकाशः । दूषणान्तरमाह न चैवमिति । मुख्यप्रतियोग्याधारविषय एवाभावनिरूपकत्वादित्यर्थः । यदि च मुख्यामुख्यसाधारणमाधारमात्रं तन्निरूपकं तन्नाह । न चेति । अप्रत्यक्षे वीणादौ शब्दाभावप्रती- त्यनुदयापत्तेरित्यर्थः । व्यवहिते वीणादौ शब्दविशेषानुमिते शब्दध्वंसव्यवहार आनुमानिकः स्यादित्याह आनुमानिकैरिति । वीणाया अश्रोत्रत्वेन सशब्दवीणा न श्रोत्रेणोपलभ्यते इति व्यभिचार इत्याह हेतोरिति । सन्दिग्धति । यत्र शब्दविशेषेणानुमिता वीणा न प्रत्यक्षा, तत्र वीणायाः सत्त्वासत्त्वसन्देहादित्यर्थः । यद्यपि पक्षस्य लिङ्गविशिष्टज्ञानादेवानुमितिसम्भवे सन्देहो नानुमितिविरोधी, तथापि प्रथमं वीणाध्वंससन्देहाच्छब्दध्वंसस्तत्र वर्तते इति धीर्न स्यात् । यद्वा, वीणायननुमानेऽपि पक्षनिश्चयादनुमानाभावेऽपि शब्दस्यानुपलम्भादभावनिश्चयादित्येवम्परोऽयं ग्रन्थः । शब्दवत्तयाऽनुपलभ्यमानत्वे सत्युपलभ्यमानत्वादिति हेतुकरणात्रोक्तदोष इत्याह उप- लभ्यमानेति । असिद्धेः । उपलभ्यमानत्वस्येति शेषः । तत्र हेतुमाह इन्द्रियेति । शब्दरू- पस्य लिङ्गस्येत्यर्थः; आप्तोपदेशस्य चाभावादिति भावः । ननु, शब्द एतत्कालप्रध्वंसप्रतियोगी, एतत्पूर्वकालत्वे सति शब्देतरयावत्तदुपलम्भकसत्त्वेऽप्यनुपलभ्यमानत्वादित्यस्तु । मैवम् । एवं प्रकाशिका । प्रतियोगिसमवायिकारणत्वरूपस्य च मानस्य तत्राभावादिति भावः । अभावानिरूपकत्वादिति । तत्त्वेन त्वयाभ्युपगमादित्यर्थः । आप्तोपदेशस्य चेति । यद्यपि शब्दो लिङ्गमित्येवं पूर्व- ग्रन्थव्याख्याने सति नैतदाशयपूरणापेक्षा । तथापि लिङ्गं शब्द एव तत्र तत्र वाच्य इति तथैव विग्रह- प्रदर्शनं कृतं तदनुसारेण च पूरणमिदम् । एतत्काल इति । एतच्चैतत्कालीनध्वंसे विशेषणीयम् । प्रागभावकालमादाय व्यभिचार इति हेतौ सत्यन्तम् । अप्रसिद्धिवारणाय शब्देतरेति । स्वस्वव्या- प्येतेरेत्यर्थः, तेन दृष्टान्तसङ्गतिः । किञ्चिदुपलम्भकासत्त्वकालमादाय व्यभिचार इति यावदिति । मकरन्दः । तया च तन्मते नोपाधिमति विधिनिषेधौ सम्भवत इति भावः । शब्दरूपस्येति । यद्यपि शब्दश्च लिङ्गश्च शब्दलिङ्गं, तस्येत्यर्थे उभयोरपि लाभे आप्तोपदेशस्येत्यग्रिमफक्किका विफला, तथापि लिङ्गं शब्द एव वाच्यमिति तथैव व्याख्यात इत्याहुः । एतत्काल इति । एतत्कालीनध्वंसप्रतियोगी- त्यर्थः । प्रागभावदशायां व्यभिचारवारणाय सत्यन्तम् । अप्रसिद्धिवारणाय शब्देतरेति, स्व-

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २४३

अपि च नष्टाश्रयाणां द्रव्यगुणकर्मणां नाशोपलम्भः कथम् ? न कथञ्चिदिति चेदाश्रयनाशात् कार्यनाश इति कुत एतत् ? अनुमानतस्तथोपलम्भादिति चेन्न । तुल्यन्यायेनोक्तोत्तरत्वात् । तन्तुषु नष्टेष्वपि यदि पटो न नश्येत्तद्धदेवोपलभ्येतेति चेत् । एतस्य तर्कस्यानुग्राह्यमभिधीयताम् । यदैवोपलभ्यते न तत् कार्यपरम्परावत्, योग्यस्य तथानुपलभ्यमानत्वे सति उपलभ्यमानत्वादिति चेन्न । तन्त्ववयवानां पटानाधारत्वे साध्ये सिद्धसाधनात् । पटप्रध्वंसवत्त्वे साध्ये बाधितत्वात् । तस्य स्वप्रतियोगिकारणमात्रदेशत्वात् । ये पटध्वंसवन्तस्तन्तवस्तदभाववन्त एते अंशव इति साध्यमिति चेन्न । तन्तुनाशोत्तरकालं पटनाशात् तद्वत्त्वानुपपत्तेः । योग्यतामा-

बोधनी ।

अधिकरणनिरूप्यत्वं प्रध्वंसस्य वदतां दूषणान्तरमाह—अपि च इति । प्रतियोग्याश्रया एव हि नाशस्याधिकरणं, ते च पूर्वमेव नष्टत्वात्तदानीं नोपलभ्यन्त इति । ननु मा भून्नाशोपलम्भ इत्याह—न कथं चित् इति । तर्हि किंनिबन्धनोऽयं व्यवहारः स्यादित्याह—आश्रय इति । नन्वनुमानतः सिद्धैराश्रयैरानुमानिको नाशोपलम्भो भविष्यतीत्याह—अनुमानतः इति । न इति । व्यवहितवीणानुमानेनानुमानिकस्तत्र शब्दाभावव्यवहार इत्यनेन तुल्यन्यायतयाश्रयासिद्धत्वादुप- लभ्यमानत्वेन विशेषणे विशेषणासिद्धेश्चेति । यद्वा नष्टाश्रयाणां नाशस्य प्रत्यक्षेणानुपलम्भेऽप्याश्रय- नाशादनुमानेनोपलम्भो भविष्यतीति शङ्कार्थः । उत्तरार्थस्त्वाश्रितविनाशवदाश्रयनाशोऽपि न स्वाश्रयनाशे निरूपयितुं शक्यत इति । आश्रयविनाशात्कार्यविनाश इति व्यवहारस्य निवन्धनमा- शङ्कते—तन्तुषु इति । तद्वदेव = विनाशात् पूर्वकालवदिति । एतस्य इति । प्रमाणानुग्राहकत्वेन तर्कस्य न केवलस्यास्य व्यवहारमूलत्वमिति प्रमाणमाशङ्कते—यदेव इति । नष्टाश्रये पटादौ यद् श्वादिकमुपलभ्यते तत्स्वकार्यं तन्तवस्तत्कार्यं पटस्तत्कार्यं गुणकर्माणीत्येवं या कार्यपरम्परा तया, तद्वन्न भवति तद्वत्तयोपलभ्ध्यं योग्यस्ये तथानुपलभ्यमानत्वे सति स्वयमुपलभ्यमानत्वादित्यनुमान- मनुग्राह्यमत्रेति । न इति । किमंशावः पटानाधारा इति साध्यं, किं वा पटप्रध्वंसाधारा इति । पूर्वत्र सिद्धसाधनं तन्त्वाधारकत्वात्पटस्य, उत्तरत्र बाधितविषयत्वं पटप्रध्वंसस्य स्वप्रतियोगिसमान- देशत्वेन तन्त्वाश्रयत्वादिति । दूषणद्वयपरिहारमाशङ्कते—ये इति । पटप्रध्वंसवत्तन्वभाववन्तोऽशव इति साध्यमिति । न इति । नष्टेषु तन्तुषु पटविनाशादसतां च तन्तूनां पटप्रध्वंसवत्त्वानुपपत्ते- स्तदभावाश्रयत्वमंशूनां बाधितमिति । तर्हि पटप्रध्वंसाश्रययोग्यानां तन्तूनामभाववन्तोऽशव इति साध्यमित्यत्राह—योग्यता इति । तस्य योग्यतामात्रस्य पटसद्भावकालेऽप्यविशेषात् न ततः प्रध्वंस एकान्ततः सिध्यतीति । ननु गुणक्रियाविशिष्टस्य पटस्याधारास्तन्तवोऽशुषु न सन्तीति

प्रकाशः ।

सति घटाभावस्याप्यनुमेयतायामभावमात्रस्याप्रत्यक्षतापत्तेः । यदि च योग्यानुपलब्धेस्तत्र सत्तयैव हेतुत्वान्नानुमानं, तर्हि प्रकृतेऽपि तुल्यमिति भावः । अपि चेति । यदि प्रतियोग्याश्रयेणैवाभावो निरूप्यते इति शेषः । तुल्यन्यायेनेति । स्वरूपकालाकाशपक्षे आश्रयासिद्धयनेकान्तिकत्वात्, पटतद्वयवादिपक्षत्वे बाधादित्यादिनेत्यर्थः । तन्तुष्विति । पटारम्भकतन्तुष्वित्यर्थः । प्रागुक्तदोषभिया पटध्वंसविशिष्टतन्तुध्वंसवत्त्वमंशुषु साध्यमाशङ्क्य प्रकारान्तरेण बाधसिद्धसाधने आह य इति । तद्वत्ता=तन्तूनां पटध्वंसवत्ता । नन्वे-

प्रकाशिका ।

उपलम्भपदमुभयं प्रत्यक्षपरम् । नन्वेत इति । न च स्वजन्यपदं व्यर्थमिति वाच्यम् । यत्किञ्चि-

मकरन्दः ।

द्वन्ध्याप्येतरेत्यर्थः । तथा च दृष्टान्तसौलभ्यम् । उपलम्भपदं प्रत्यक्षपरम् । नन्वेत इति ।

२५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां त्रसाधने च पटध्वंसासिद्धेः । तस्य नाशानाशयोः समानत्वात् । अनन्यगतिकतया विशिष्टनिषेधे कृते विशेषणानामप्यभावः प्रतीतो भवति । गुणक्रियावत्पटाधारास्त- न्तवो न सन्ति स्वावयवेष्विति हि प्रत्यय इति चेत्, तथापि गुणकर्मणां पटस्य च प्रध्वंसः किमधिकरणः प्रतीयते इति वक्तव्यम् । अंशुधिकरण एवेति चेद्, भ्रान्तिस्त- बोधनी । साधिते तन्तुपटविशेषणानां पटगुणादीनां अवस्थानसंभवादभावः सिध्यतीत्याह-अनन्य इति । निषेधप्रतीतिरपि हि लौकिकानां विशिष्टविषयेत्याह-गुणक्रियावत् इति । एवमपि गुणकर्मणोर- भावाधिकरणस्य पटस्य तदभावाधिकरणस्य च तन्तूनां तदानीमभावादधिकरणनिरूप्याभाववादिनो नायं प्रत्यय उपपद्यत इत्याह-तथापि इति । अधिकरणमाशङ्कते-अंशु इति । तर्हि तस्य पटादिप्रध्वंसस्यांशवधिकरणत्वाभावातदधिकरणत्वेन प्रतीतिर्भ्रान्तिरेव स्यादित्याह-भ्रान्तिस्तर्हि प्रकाशः । तेऽंशवः पटध्वंससमानकालस्वजन्यतन्तुध्वंसवन्तस्तद्वत्तयाऽनुपलभ्यमानत्वादित्यनुमानं स्यात् । अत्र, यदा कदा चित् समानकालत्वविवक्षायामिदानीं नष्टः पट इति प्रतीत्यनुपपत्तिः । अथे- दानीं तथात्वं विवक्षितं, तदा हेतोरसिद्धिरित्येके । यत्र परम्परादिनोपलभ्यते तत्र कथमनुमानमि- त्यन्ये । ननु यत्र विशिष्टनिषेधे विशेष्यासिद्धौ मानं, तत्रैव तस्य विशेषणमात्रनिषेधपर्यवसायि- त्वम्, प्रकृते चातथात्वाद् गुणक्रियावत्पटाधारतन्तुनिषेधे गुणकर्मपटानामपि निषेधः स्यादिति प्रकाशिका । टपटध्वंसेनान्तरवारणाय स्वजन्यपदस्य पटविशेषणत्वात् स्वपदञ्च तन्तुपरम् , अंशुपरमेव वा, जन्यपदस्य प्रयोज्यपरत्वात् । असिद्धिरित्येक इति । यद्यपि स्वरूपासिद्धिरसम्भाविनी, तथापि व्याप्यत्वासिद्धिरीह विवक्षिता सा च पटध्वंससमानकालीनत्वस्य गौरवेण व्यापकतानवच्छेदकत्वाद्वा आकाशादौ व्यभिचाराद् वा। न चांशुत्वमपि विशेषणं हेतौ प्रवेश्यमितिनोक्तव्यभिचार इति वाच्यम् । तथाप्यनारब्धपटांशुषु व्यभिचारात् । केचित्तु एतत्कालीनप्रकृतपटध्वंसस्य साध्यविशेषणस्याप्रसिद्धेः साध्याप्रसिद्धिरित्यज्ञानरूपव्याप्यत्वासिद्धौ तात्पर्यमित्याहुः। वस्तुतो यथा कथञ्चिल्लिङ्गज्ञानं कल्पयित्वा यद्युक्ताभावप्रतीतेरानुमानिकत्वं तदा सर्वाभावप्रतीतीनामानुमानिकत्वं स्यादिति दूषणं द्रष्टव्यम् । तच्चाव्यवधानेनैव पूर्व प्रकाशकृतोक्तम्, 'एवं सतीत्यादिना । ननु यत्र विशिष्टेति । नन्विदं प्रकृ- तानुपयुक्तं पटरूपविशेषणनिषेधसिद्धेरिहोद्देश्यत्वात्, मूलविरुद्धञ्च विशेषणानामप्यभावः प्रतीयत इति मूलदर्शनादिति चेत् । न । गुणक्रिययोः पट एव अत्र विशेष्य इति गुणक्रियाविरहमात्रपर्यवसायि- तैव निरुक्तप्रतीतेः स्यादित्याशङ्कानिराकरणपरतया प्रकाशोपपत्तेः ‘विशेषणाना' मिति मूलस्य तन्तु- मकरन्दः । यद्यपि स्वजन्यत्वपदं व्यर्थं यत्किञ्चित्पटसमानकालतन्तुध्वंसवत्तयाऽर्थान्तरम्, तथापि स्वजन्य- त्वपदं स्वप्रयोज्यत्वपरं पटविशेषणमेव बोध्यमिति नोक्तदोषः । हेतोरसिद्धिरिति । व्यापकेऽपि व्यर्थविशेषणत्वमिति मते व्याप्यत्वासिद्धिरित्येके । आकाशादौ व्यभिचारेण सेत्यन्ये । साध्या- प्रसिद्धया अज्ञानरूपाऽसिद्धिरित्यपरे । विशेष्यसिद्धाविति । विशेषणसिद्धाविति युक्तः पाठः । एवं विशेषणमात्रनिषेधेत्यत्र विशेष्यमात्रनिषेधेति । गुणक्रियावदिति । यद्यपि गुणक्रिया पटा- टिप्पणी । पटध्वंससमानकालीनस्वजन्येति । स्वजन्यपटध्वंससमानकालीनतन्तुध्वंसवन्त इति साध्यम् । लेखकपरम्पराप्रमादादेवं पाठः । यथाश्रुते स्वजन्येतस्य वैयर्थ्यात् विवक्षितसंशा धनीयाऽऽश्रयनाशजन्यपटध्वंसकालीनतन्तुध्वंसातिरिक्तस्य तन्त्वन्तरजन्यपटध्वंसकालीनतन्तुध्वं- सेनान्तरवारणाय सार्थकम् । असिद्धिरित्येक इति । व्याप्यत्वासिद्धिः, गौरवेण पटध्वंसकाली नत्वघटितस्य व्यापकतानच्छेदकत्वादित्यर्थः । आकाशादौ व्यभिचारेण हेतोरसिद्धिरसम्भवे इत्ये-

˙द्वितीयस्तबके ] शब्दानित्यत्वोपपादनम्। २५५ र्हीयम्। तस्यातद्देशत्वात् । आश्रयावच्छेदकतया तेषामपि अदूरविप्रकर्षेण तद्देश- त्वम्, एवम्भूतेनापि देशेन तन्निरूपणं, योग्यताया अव्यभिचारादिनि चेत् । न तर्हि प्रतियोगिसमवायिदेशेनैव ध्वंसनिरूपणमिति नियमः, प्रकारान्तरेणापि निरूपणा- त् । तस्माद् यस्य यावती ग्रहणसामग्री तं विहाय तस्यां सत्यां तदभावो यत्र क्वचि- न्निरूप्यो देशे काले वा । इयांस्तु विशेषः । सा सती चेत्, प्रत्यक्षेण, असत्येव ज्ञाता चेत्, अनुमानादि- नेति स्थितिः ।

बोधनी । इति । शङ्कते- आश्रय इति । अयमर्थः । गुणकर्मणोः पटस्य चाश्रयं पटं तन्तूश्च प्रति परम्परया साक्षाच्चांशवः कारणं, तैरेवारब्धैस्तन्तुभिरारब्धः पट इति । एवं पटावच्छेदका अंशव इति तेषामप्यदूरविप्रकर्षेण गुणानामप्याभावदेशत्वमस्ति, तस्मादेवंभूतेन व्यवहितेनापि देशेनाभावो निरूपणीयः व्यवहितस्यापीदृशस्याभावनिरूपणे योग्यताध्यासेः । न हि संभवति तन्तुप्रध्वंसव- न्तोऽशव इवि पटाभावस्तदाश्रयगुणाभावो वा नास्तीति । न तर्हि इति । तेन शब्ददेशस्या- प्रत्यक्षत्वेऽपि शब्दप्रध्वंसप्रत्यक्षोपपत्तिरिति । किंनिरूप्यस्तर्हीत्याशङ्कामपनुदन्नुपसंहरति- तस्मात् इति । यस्य भावस्य या ग्रहणसामग्री तं भावं तदविनाभूतमपि संनिकर्षं विहाय तस्यां सत्यां तस्य भावस्याभावो यत्कचिन्निरूप्यः न स्वधिकरण एवेति नियमः भावस्यात्मापि प्रत्यक्षसामग्र्ये- कदेश इति तं विहाय-इत्युक्तम्-इति । यद्यतीन्द्रियाधारेऽप्यभावः प्रत्यक्षः, कस्तर्हि प्रत्यक्षाप्रत्यक्षव्यवस्वाहेतुरित्यत्राह- इयांस्तु इति । येयमभावग्रहणसामग्री सा विद्यमाना चेत् प्रत्यक्षेण निरूप्यः इह घटो नास्तीति । अत्र. हि प्रतियोगिस्मरणं तदनुपलब्धिरालोकादिसहकृतेन्द्रियव्यापारादयो विद्यन्ते सा तु सामग्रीसती ज्ञाय- माना चेदनुमानेन । प्राक्तनाभावप्रतीतो नेदानीमिन्द्रियव्यापारादयो विद्यन्ते किं तु प्राक्तना एवानु- संधीयन्त इति । यदि ह्याधारनिरूप्यो न स्यात् तर्ह्याधारप्रतियोगिभ्यां निरूप्योऽभाव इति प्रति-

प्रकाशः। शङ्कते अनन्येति । अत्रापि बाध इत्यभिप्रेत्य परिहरति तथापीति । तस्येति । पटध्वंस- स्यांशवनाधारत्वादित्यर्थः । आश्रयेति । गुणक्रियावत्पटाश्रयतन्तववच्छेदकानामंशानामपि गुणा- दिदेशत्वमित्यर्थः । तं विहायेति । तं = प्रतियोगिनम्, तद्व्याप्यञ्चेति द्रष्टव्यम् । शब्दस्य तु नाश्रयग्रहान्तर्भावेण ग्रहणसामग्री, येन तदग्रहे न गृह्येतेति भावः । यत्रेति । एतेन निरधिकरणोऽ भावधीरेति सत्यं, किन्तु प्रतियोगिसमवायिदेशनिरूप्यता नियमो नास्तीत्युक्तम् । नन्वेवं प्राङ्नास्तितायामप्यनुपलम्भानुमानं न स्यादित्यत आह- इयांस्त्विति । प्रत्यक्षसामग्रयाः सतीत्वं = योग्यानुपलम्भसहकृतत्वम् । यत्र तु प्राङ्नास्ति- तादावाधारेन्द्रियसंनिकर्षाभावात् तदभावस्तत्रासती, ज्ञाता चेदनुमानेन, स्मरणार्हस्याऽस्मरणादिना । आदिग्रहणादाप्तोपदेशेनापीत्यर्थः । स्थितिः = व्यवस्थ्तििः ।

प्रकाशिका। विशेपणानां पटादीनामित्यर्थकत्वेन प्रकृते तदविरोधात् । प्रकाशे तु विशेष्यविशेषणपदयोर्व्यत्यासेना- न्वय इति साम्प्रदायिकाः । मूलेऽनन्यगतिकत्वकीर्त्तनं तन्त्वाधारांशुपक्षीकरणाभिप्रायेण द्रष्टव्यम् । पटध्वंसस्येत्युपलक्षणम् । गुणादिध्वंसस्येत्यपि द्रष्टव्यम्। तन्त्ववच्छेदकानामिति । तन्त्वाश्रयाणा-

मकरन्दः । धारेति वक्तुमर्हति, तथापि पटनिष्ठयोरपि गुणक्रिययोः परम्परया तन्तुविशेषणत्वमित्यभिप्रायेण तथोक्तम् । पटध्वंसस्येत्युपलक्षणं, गुणादिध्वंसस्येत्यपि द्रष्टव्यम् । तन्त्ववच्छेदकानामिति । तन्त्वाश्रयाणामित्यर्थः । तथा च परम्परासम्बन्धेन तेषां गुणादिदेशत्वात्तद्ध्वंशदेशत्वमपीति

२५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्याया एतेन “सङ्ख्यामभावो निरूप्यते”-इत्यादिशास्त्रविरोधः परिहृतो वेदितव्यः । उभयनिरूपणीयप्रतियोगिविषयत्वादनुमानविषयत्वाच्च । अन्यथा, आश्रयासिद्धिप्रस- ङ्गात् । तत्रापि न ग्रहणे नियमो, ज्ञानमात्रन्तु विवक्षितम्, तावन्मात्रस्यैव तदुपयो- गात्, कचिद् ग्रहणस्य सामग्रीसम्पातायातत्वाद् । यदि चाधिकरणग्रहे शास्त्रस्य निर्भरः स्याद्, “वह्नेर्दाह्यं विनाश्यस्यानुविनाशवत्तद्विनाश” (न्या० ४ अ० १ आ० २७ सू० ) इति नोदाहरेत्, असिद्धत्वात् । न हि वह्निविनाशस्तद्वयवपरम्परास्वेव निरूप्यः । बोधनी। पादयता शास्त्रेण विरोधः स्यादित्यत्राह-एतेन इति । प्रतियोगिनिरूप्यत्वाभ्युपगमेन इति । कथमेतेनास्य परिहार इत्यत्राह-उभय इति । यस्याभावस्य प्रतियोगी भावद्वयनिरूप्यः यथा संयोगः, तदभावः सङ्ख्यां संयोगिभ्यां निरूप्यते तद्विषयं शास्त्रमिति अनुमेयाभावविषयं वा शास्त्र- मित्यर्थः-अनुमाने इति । किं तत्राधारोऽपि निरूपणीय एवेत्याह-अन्यथा इति । यत्राप्य- धिकरणनिरूप्यत्वं तत्रापि न तस्य प्रत्यक्षत्वेनोपयोग इत्याह-तत्रापि इति । नन्विह भूतले घटो नास्तीत्यत्राश्रयः प्रत्यक्षेणैव गृह्यत इत्यत्राह-क्वचित् इति । तत्राश्रयप्रत्यक्षग्रहणसामग्र्या अभा- वग्रहणसामग्र्या सह संनिधानात् तत्प्रत्यक्षत्वं, न त्वभावज्ञानाङ्गतेति । कथमविशेषप्रवृत्तस्य शास्त्र- स्यैतद्विषयत्वमवगम्यत इत्यत्राह-यदि च इति । सूत्रकारो हि सर्वमनित्यमित्युक्ते तदनित्यत्वं नित्यमनित्यं वा नित्यं चेत्सर्वानित्यता न स्यात् अनित्यस्यैव नित्यत्वात् । अथानित्यं तथापि सर्वो- नित्यता न स्यात् । जनित्यस्यैव विनाशे सर्वानित्यताप्रसङ्गादिति चोद्यं परिहरन्नाह 'तदनित्यत्वं वह्नेर्दाह्यं विनाश्यस्यानुविनाशवत् तद्विनाशः' (न्या. सू. ४.१.२७) इति । अत्र हि यथाऽग्निर्दाह्यं काष्ठादि नाशयित्वा पश्चात्स्वयमपि विनश्यति, न च तदा काष्ठादिकमुपजीवति, एवं सर्वानित्यत्व- मपि सर्वं विनाश्य स्वयमपि विनश्यति न च सर्वानित्यता स्यादिति । वह्निविनाश उदाह्रियते तन्नोपपद्यते यद्यभावस्याश्रयनिरूप्यत्वं भवेदिति । कुत इत्यत आह-असिद्धेत्यादि इति । वह्निविनाशस्याश्रयानिरूपणेनासिद्धत्वादिति । तदेवाह-न हि इति । नन्वसंभवद्देशान्तरगमनति- प्रकाशः। प्रामाणिकत्वाच्छास्त्रस्य विशेषविषयत्वात् तद्विरोधोऽपि नास्तीत्याह एतेनेति । सङ्ख्यां = प्रतियोग्यधिकरणाम्याम् । विशेषविषयत्वमाह उभयेति । उभाभ्यां संयोगिभ्यां संयोगो निरूप्यते इति तदभावोऽपि तथेत्यर्थः । अनुमानेति । यत्र व्यापकाभावेन व्याप्याभावोऽनुमीयते, तत्रा- श्रयग्रह उपयुज्यते इत्यर्थः । अन्यथेति । तत्राश्रयाग्रहादित्यर्थः । तत्रापीति । उभयनिरूप्यप्र- तियोगिविषयेऽपि नानुभवनियमः । स्मरणेनाप्याश्रयनिरूपणाल्लाघवाच्चेत्यर्थः । यत्तु क्वचिद्घटं भूतलमियत्र ग्रहणनियमः, सोऽन्यथासिद्ध इत्याह क्वचिदिति । आश्रयग्रहणनियमश्च न सूत्र- कारस्यापि सम्मत इत्याह यदि चेति । दृष्टान्तस्य वह्निनाशस्याज्ञानादित्यर्थः । असिद्धत्वमेव प्रकाशिका । मित्यर्थः। तथा चांशलमपि परम्परासम्बन्धेन गुणाद्याश्रयतया तद्ध्वंसदेशत्वमपीति भावः। शास्त्र- स्येति । यद्यपि निराधिकरणा नाऽभावप्रतीतिरित्युपपन्नमेवोक्तमिति न शास्त्रविरोधशङ्का, तथापि अधि- करणपदस्य प्रतियोगिसमवायिपरत्वेऽपि न विरोधः,विशेषविषयत्वाच्छास्त्रस्येत्यर्थः। स्मरणेनापीति। मकरन्दः। भावः । शास्त्रस्येति । यद्यपि निरधिकरणाऽभावप्रतीत्यनभ्युपगमे विरोधशङ्कव नास्ति, तथाप्य- धिकरणपदस्य प्रतियोगिसमवायिपरत्वेऽपि न विरोधो विशेषविषयत्वादित्याशयः । स्मरणेना- टिप्पणी । के, । स्वजन्यपटध्वंसासिद्धया साध्यप्रसिद्धयभावाद् व्याप्यप्रदाद्धेतोरसिद्धिरित्यन्वे ।

[ द्वितीयस्तबके ] शब्दनानित्यत्वोपपादनम् । २५७ तासामनिरूपणात् । नाऽप्यन्यत्र गमनाभावादिना पारिशेष्यादनुमेयः। हेतोरेव निरू- पयितुमशक्यत्वात् । आश्रयानुपलब्धेः । नापि निमित्तविनाशात् सर्वमिदमेकवारेण सेत्स्यतीति युक्तम् । तस्यानेकान्तिकत्वात् । तेजसा विशेषितत्वादयमदोष इति चेन्न । व्याप्त्यसिद्धेः । न हीन्धनविनाशात्तेजोद्रव्यमवश्यं विनश्यतीति क्वचित् सिद्धं, प्रत्यक्षवृत्तेरनभ्युपगमात् । तस्माद् यत्त्यागेनाऽन्यत्र गमनं न सम्भाव्यते, तेन निमि- त्तादिनाऽपि देशेन प्रध्वंसो निरूप्यत इत्यकामेनापि स्वीकारणीयम् । गत्यन्तराभा- वात् । अत एव तमसः प्रत्यक्षत्वे ऽप्यभावरूपमामन्वन्त्याचार्याः । एतेन शब्दप्रागभावो व्याख्यातः । बोधनी । रोधानस्यानुपलभ्यमानस्य वह्नेर्विनाशं परिशेषादनुमानती विनाशः सिध्येदित्याशङ्क्याह-नापि इति । गमनाद्यभावस्य हेतोरप्यभावात्मकत्वादिति । निमित्तकारणस्य कोष्ठादेर्विनाशे न तत्कार्यस्य वह्ने- स्तदवयवानां च विनाशोऽनुमीयत इत्याह-नापि इति । न हि निमित्तस्य दण्डचक्रादेर्विनाशे घटादिकार्यविनाशो दृश्यत इति । ननु मा भूदन्यत्र, अस्ति तेजोनिमित्ताभावस्य कार्याभावव्या- प्तिरित्याह-तेजसा इति । अथापि व्याप्तिग्राहकप्रमाणाभावादसिद्धिरित्याह-न इति । तामेव दर्शयति-न हि इति । अतीन्द्रियाधारे तेजोविनाशे प्रत्यक्षप्रवृत्त्यनभ्युपगमात् तेन सह दुर्महा व्याप्तिरित्युपसंहरति-तस्मात् इति । गत्यन्तरस्य=आश्रयनिरूप्यत्वलक्षणस्याभावादिति । अत्रा- चार्यसम्मतिं दर्शयति-अत एव इति । यत एवाभावप्रत्यक्षस्याधिकरणप्रत्यक्षतायां निर्बन्धो नास्ति अत एव । यदि हि तस्य निर्बन्धः स्यात्तदा भाऽभावस्य तमसस्तेजोऽवयवाश्रयत्वात् तेषां चाप्रत्यक्षत्वादप्रत्यक्षता स्यादिति । एतेन प्रध्वंसप्रत्यक्षताप्रतिपादनेन शब्दप्रागभावोऽपि प्रत्यक्ष इति सिद्धमेवेत्याह-एतेन इति । प्रकाशः । व्युत्पादयति न हीति । हेतोरेवेति । अनुपलभ्यमानत्वादित्यस्य हेतोरभावाश्रयाप्रसिद्धेर- पक्षधर्मतया येन रूपेण हेतुत्वं तेनानिरूपणादित्यर्थः । नाऽपीति । वह्निमित्तेन्धननाशस्य- प्रत्यक्षत्वात् ततोऽन्यत्र प्रतियोगिगमनाभावस्तत्प्रध्वंसश्चेति सर्वमित्यर्थः । तस्येति । निमित्त- नाशेऽपि नैमित्तिकानामनाशादित्यर्थः । तेजसेति । निमित्तनाशे अग्निर्नश्यतीति व्याप्ते- रित्यर्थः । गमनं, प्रतियोगिनः । निमित्तादिनेति । अत एव यत्र कपालादिपरम्पराप्रनाशाद् घटनाशस्तत्रापीह भूतले घटो नास्तीति धीः समर्थिता । अत एवेति । यत एव निमित्तादिनाऽपि देशे ध्वंसनिरूपणमित्यर्थः । अन्यथाऽऽलोकावयवानामन्निरूपणात्तदवयवविनाशात्मकं तमो न प्रत्यक्षं स्यादिति भावः । प्रकाशिका । स्मरणरूपाश्रयनिरूपणेनाप्यभावनिरूपणादित्यर्थः । अनुपलभ्यमानत्वादित्यस्येति । अन्यत्र गम- नाभावे सत्यनुपलभ्यमानत्वेन हेतुना ध्वंसोऽनुमेयः, तत्र च विशेष्यमाश्रयवृत्तित्वेन च निरूपयितु- मशक्यमित्यर्थः । इदमुपलक्षणम् । गमनाभावरूपं विशेषणमपि तथेत्यपि द्रष्टव्यम् । सुवर्णादितेजसि मकरन्दः । पीति । स्मरणरूपाश्रयनिरूपणेनाप्यभावप्रतीतेरित्यर्थः । अन्यत्र गमनाभावे सत्यनुपलभ्य- मानत्वादद्रुमेयस्तत्राह-अनुपलभ्यमानत्वादित्यस्येति । गमनाभावस्येत्यपि द्रष्टव्यम् । टिप्पणी । आश्रयासिद्धेरिति । अनुमेयाभावपक्षोभूतवह्नेर्नाशेनाविद्यमानत्वान् ज्ञानासम्भवादित्यर्थः । येन रूपेण हेतुत्वमिति । हेतोः पक्षधर्म्मतयैव हेतुत्वम् । तेन पक्षधर्म्मत्वेनेत्यर्थः । पक्षस्यैवाग्रहात् । ३३ न्या० कु०

२५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रकाशः। एतेनेति। प्रतियोगियोग्यतामात्रनिरूप्यत्वेन। व्याख्यातः, प्रत्यक्षतया। एतच्च संसर्गा- भावविषयम्। अन्योन्याभावस्यायोग्यप्रतियोगिकस्य प्रत्यक्षत्वात्। कथमन्धथा स्तम्भः पिशाचो नेति धीः प्रत्यक्षा। प्रतियोगिसत्त्वविरोधिना एवानुपलम्भस्याभावप्रत्यक्षतायां तन्त्रत्वात्। यदि हि स्तम्भः पिशाचः स्यात् स्तम्भात्मकतयोपलभ्येतेति न पिशाचानुपलम्भः स्यात्। ननु शब्दा- भावो न योग्यानुपलम्भग्राह्यः। तत्तद्ध्याप्येतरतदुपलम्भकस्य वायोस्तत्राभावात्। तथा च सत एव शब्दस्य व्यञ्जकवायुविरहादनुपलब्धिमात्रं, न तु ध्वंसग्रहः। विनष्टधीरपि व्यञ्जकवायुध्वंसो- पाधिकैव। अत एव यत्र यस्य. सत्त्वमनुपलब्धिविरोधि,तस्याभावस्तत्र गृह्यत इति योग्यानुप- लब्ध्यर्थ इति पक्षेऽपि न शब्दाभावोऽध्यक्षः। व्यञ्जकाभावेन सतोऽपि शब्दस्योपलब्धेरभावात्। नैवम्। वर्णा न प्रतिनियतव्यञ्जकव्यङ्ग्याः, एकावच्छेदेन समानदेशत्वे सति समानेन्द्रिय- प्रकाशिका। व्यभिचारात्तेजःपदमग्निपरमित्याह—अग्निरिति। एतच्चेति। निरुक्तानुलब्धेः सहकारिण्या अविशेषेऽपि संसर्गाभावग्रहे प्रतियोगियोग्यत्वं स्वरूपयोग्यता, अन्योन्याभावग्रहे त्वधिकरणयोग्यता तथेति मनसिकृत्यैवेद्मुक्तम्। वस्तुतो निरुक्तानुलब्धिः सहकारिणी उपलम्भापादकसत्त्वप्रतियोगि- प्रतियोगिकत्वमेव स्वरूपयोग्यतेति पिशाचान्योन्याभाववत् पिशाचत्वात्यन्ताभावो रूपात्यन्ताभाव- वद्रूपान्योन्याभावः प्रत्यक्ष इति रहस्यम्। ननूक्तधीः प्रत्यक्षैत्यत्रैव किं मानमत आह—प्रतियो- गिसत्त्वेति। स्तम्भात्मकतयेति हेतौ तृतीया न तु प्रकारे, इष्टापत्तेः प्रकृतानुपयोगाच्च, तथा च स्तम्भो यदि पिशाचत्वजातिमान् स्यात् तद्वत्तयोपलभ्येत अत्र हेतुः स्तम्भात्मकतयेति। पिशाचस्येतिशेषः। तेन योग्यव्यक्तिवृत्तित्वं तथा सति पिशाचस्य स्यादिति मूलसूचितं सूचितम्। न च पिशाचत्वप्रकारकप्रत्यक्षविषयत्वमापाद्यम् तच्चाप्रसिद्धमिति वाच्यम्। पिशाचत्वं यदि स्तम्भवृ- त्तिजातिः स्यात् स्तम्भविशेष्यकप्रत्यक्षप्रकारः स्यादित्यस्य प्रकृते आपादनशरीरत्वात् व्यञ्जक- त्वं वायोः सामान्यत एव वर्णान् प्रति तत्तद्वायोस्तत्तद्वर्णं प्रति वा, आद्ये फकाराभिव्यक्ति- काले गकाराभिव्यक्तिप्रसक्तिः, अन्त्ये त्वाह वर्णा इति। परस्परप्रमाप्रतिबन्धकासहकृतपरस्परव्य- मकरन्दः। तेजोऽन्तरे व्यभिचारात्तेजःपदमग्निपरमित्याह अग्निरिति। यदि हीति। यद्यपि यथाश्रुते इष्टापत्तिः, न च पिशाचो यदि स्तम्भात्मा स्यादिति विवक्षितमिति वाच्यम्, अधिकरणे प्रतियोगिसत्त्वस्य तर्कविषयत्वाभ्युपगमात्, तथाऽपि स्तम्भो यदि पिशाचात्मा स्यात् पिशाचा- त्मतया प्रमाविषयः स्यादित्यत्र तात्पर्यम्। ननु वायोर्व्यञ्जकत्वे सर्वशब्दोपलब्धिः स्यात्, यदि च कार्ये प्रतिनियतजनकजन्यत्ववत् शब्देऽपि प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमिति ब्रूयात्, तत्राह-वर्णा नेति। अत्र प्रतिनियतव्यङ्गकव्यङ्ग्यत्वं दोषाभावे सति परस्परविलक्षणपरस्परसा- क्षात्कारहेतुकज्ञानविषयत्वं तदभावः साध्यः। तेनैकत्वदित्वभ्रमजनकेन परिमाणग्राहिणा, परिमाण- भ्रमजनके नैकत्वग्राहिणा च न व्यभिचारः। न चैवमप्येकाधिकरणक्रमिकगन्धादिभिर्व्यभिचारः, एककालावस्थायित्वे सतीत्यपि साध्ये प्रतियोगिविशेषणत्वात्। के चित्तु अवच्छेदकं देशकालसा- धारणं, तथा चान्यूनानतिरिक्तदेशकालत्वे सतीति सत्यन्ततात्पर्यम्, अतो हेतोरेव तन्नागम- नान्न व्यभिचारः। न चैवं स्वमतेऽसिद्धिः, वर्णानां क्रमिकोत्पादत्वेनाव्याप्यवृत्तितया च तुल्यदेश- कालत्वाभावादिति वाच्यम्। परमतेन कृतत्वादित्येके। कर्णावच्छेदेनैकदाऽपि नानावर्णोत्पादस- म्भवेन तत्तद्वर्णविशेषाणामेव पक्षत्वमित्यपरे। ननु तत्तद्वर्णप्रागभावत्यादिकम प्रतिनियतव्यञ्जक- मादाय बाध इति चेत्, न, तदन्यत्वेनापि साक्षात्कारहेतुविशेषणात्। इतरनिरूपणाधीन निरूप- णत्वे सतीत्यपि हेतुविशेषणं, तेन घटान्योन्याभावपटत्वात्यन्ताभावयोः पृथक्त्वदीर्घत्वयोर्वा न

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २५९ एवं स्थिते अनुमानमप्युच्यते । शब्दोऽनित्यः उत्पत्तिधर्मकत्वाद् घटवत् । न चेदं, प्रत्यभिज्ञानबाधितम् । तस्य ज्वालादिप्रत्यभिज्ञानेनाऽविशेषात् । नैवमवाधि- तस्य तस्य स्वतः प्रमाणत्वादिति चेत्तुल्यम् । ज्वालायां तन्नास्ति, विरुद्धधर्माध्यासेन बाधितत्वात् , अन्यथा वेदव्यवहारविलोपप्रसङ्गो निमित्ताभावात्, आकस्मिकत्वे वाऽतिप्रसङ्ग इति चेत् तुल्यम् ? । शब्देऽपि तीव्रतीव्रतरत्वमन्दमन्दतरत्वादेर्भा वात् तदिह न स्वाभाविकमिति चेन्न । स्वाभाविकत्वावधारणा्यायस्य तत्र तत्र सिद्धस्यात्रापि तुल्यत्वात् । न ह्यपां शैत्यद्रवत्वे स्वाभाविके तेजसो वा औष्ण्यभा- बोधनी । एवं प्रध्वंसस्य प्रत्यक्षत्वाहप्रध्वंसाभावोपलक्षितवस्तुणलक्षणमनित्यत्वं प्रत्यक्षसिद्धमेवेति व्यवस्थि- ते तत्रानुमानमस्तीत्याह-एवम् इति । ननु स एवायं गकार इति प्रत्यभिज्ञानेन पूर्वापरकालयोः स्थिरत्वं "तावत्कालं स्थितं चैनं कः पश्चान्नाशयिष्यती"ति न्यायान्नित्यत्वमपि सेत्स्यति । तेनानि- त्यत्वानुमानं बाधितविषयं स्यादित्याह—न चेदम् इति । ननु शब्दप्रत्यभिज्ञानस्यावाधितत्वात्स्व- तः प्रामाण्याच्च न भ्रान्तत्वमित्याह—नैवम् इति । तदेतदुभयं ज्वालाप्रत्यभिज्ञानेऽपि तुल्यमित्या- ह-तुल्यम्इति । ननु ज्वालाप्रत्यभिज्ञानेऽपि तदबाधितत्वं नास्ति, अपचयोपचयलक्षणविरुद्धधर्माध्य- स्तविषयत्वादित्याह-ज्वालायाम् इति । अन्यथा इति । यदि विरुद्धधर्माध्यस्तं स्यादिति । ततश्च भेदग्राहिविरुद्धधर्म संसर्गग्राहिणा प्रत्यक्षेणानन्यथासिद्धेन प्रत्यभिज्ञानमन्यथासिद्धं वाध्यत इति चोद्या- भिप्रायः । तदेतद्विरुद्धधर्माध्यस्तंविषयत्वं शब्दप्रत्यभिज्ञानेऽपि तुल्यमित्याह-तुल्यम् इति । कुत इत्याह-शब्देऽपि इति । ननु तीव्रादिकमिह शब्दे न स्वाभाविकं व्यञ्जकध्वनिधर्मस्यैव तस्य शब्द आरोप्यमाणत्वादित्याह-तदिह इति । न इति । यदि हि यतः कुतश्चिन्न्यायस्य कस्य चि- द्धर्मस्य यं कंचिद्धर्मिणं प्रति स्वाभाविकत्वमवधार्येत तर्हि तेनैव न्यायेन तीव्रत्वादीनामपि शब्दं प्रति स्वाभाविकत्वमवधार्यतामिति तमेव न्यायमाह-न हि इति । तद्धर्मसामानाधिकरण्येन प्रत्यक्षमेव प्रकाशः । ग्राह्यत्वात् पटैकत्वपरिमाणवदिति प्रतिनियतव्यञ्जकव्यङ्ग्यत्वानुपपंत्या वायोर्व्यञ्जकत्वनिरासात् । एवमिति । प्रत्यक्षेणानित्यत्वे साधित इत्यर्थः । उत्पत्तिमत्त्वात् , स्वसमानकालीनप्रति- योगिध्वंसानाधारक्षणाधारत्वादित्यर्थः । भावत्वेन विशेषणान्न ध्वंसेन व्यभिचारः । न चेदमिति । यद्यपि स एवायं गकार इति प्रत्यभिज्ञानं नित्यत्वं न गोचरयति किन्तुभेदमात्रं, तथापि नाश- कत्वाभिमतशब्दान्तरमपि शब्दं गोचरयद् नित्यतायामेव पर्यवस्यति, आश्रयनाशस्याभावादिति भावः । स्वत इति । स्वयमप्रामाण्यशङ्काविरहादित्यर्थः । विरुद्धेति । परिमाणभेदाध्यासेने- प्रकाशिका । भिचारिप्रमापकप्रामाण्येनेति साध्यार्थः । तेन एकत्वद्वित्वभ्रमजनकेन परिमाणग्राहिणा परिमाणभ्रम- जनकेनैकत्वग्राहिणा च न व्यभिचारः, न च क्रमोत्पन्नगन्धाभ्यां व्यभिचारः, एककालीनत्वस्य साध्ये प्रतियोगिविशेषणत्वात्, हेतावेव एकावच्छेदस्य देशकालोभयपरत्वाद्वा । न च प्रागभावमादा- य बाधः तदन्यत्वेन व्यञ्जकविशेषणात् । समानदेशत्वञ्च समवायिनमादाय, तेन पटैकत्वपरिमाणा- भावयोर्न व्यभिचारः । तेन पटान्योन्याभावपटत्वात्यन्ताभावयोर्न व्यभिचार इति केचित् । वस्तुतः पटत्वात्यन्ताभावग्रहकाले पटान्योन्याभावोऽपि गृह्यत एवेति साध्यमेव तत्रेति पूर्वमेवोक्तं पृथक्त्वग्रहकाले च दीर्घत्वं गृह्यत एवावधेस्तद्वृत्तित्वातिप्रहे प्रयोजकत्वादिति न तत्र व्यभि- चारः। न च स्वमते सर्वशब्दानां समानदेशत्वेन सिद्धमेवेतिवाच्यम् । वर्णा यदि प्रतिनियतव्यञ्जक- व्यङ्ग्याः स्युरेकावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्या न स्युरिति परं प्रत्यनिष्टापादने तात्पर्यादित्यन्यत्र विस्तरः । उत्पतिपदेनात्र विशिष्टक्षण एवोक्त इति न मतुबर्थसम्बन्धरूपवि- शेष्यवैयर्थ्यमित्याशयेन व्याचष्टे । स्वसमानेति । हेतुप्रविष्टोत्पत्तेश्च निर्वचनसिद्धिमिति न चरम

२६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां

स्त्रत्वे इत्यत्रान्यत्प्रमाणमस्ति प्रत्यक्षाद्विना ! तत्तथैव युज्यते, अन्यस्योपाधेर- नुपलम्भान्नियमेन तद्गतत्वेन चोपलम्भादिति चेत्तुल्यमेतत् । तथाप्यतीन्द्रियान्य- धर्मत्वशङ्का स्यादिति चेदेतदपि तादृगेव । तत् किं यद्गतत्वेन यदुपलभ्यते, तस्यैव स धर्मः । नन्वेवं पीतः शङ्खो, रक्तः स्फटिको, नीलः पट इत्यपि तथा स्याद्विशे- पात् । न । पीतत्वादीनामन्यधर्मत्वस्थितौ शङ्खादीनां च तद्विरुद्धधर्मत्वे स्थिते जवाकुसुमाद्यन्वयव्यतिरेकानुविधानाच्च बाधेन भ्रान्तत्वावधारणात्, न चेह तार- तारतरत्वादेरन्यधर्मत्वस्थितिः । नाऽपि शुकसारिकादिगकाराणां तद्विरुद्धधर्मत्वं, नाप्यन्यस्य तद्धर्मिणो ऽन्वयव्यतिरेकानुविध्यते । तथापि शङ्का स्यादिति चेत् ? एवमियं सर्वत्र ? तथा च न क्वचित् किञ्चित् कुतश्चित् सिद्ध्येत् । न चैतच्छङ्कितु- मपि शक्यते । अप्रतीते संस्काराभावात् । संस्कारानुपनीतस्य चारोपयितुमशक्य- त्वात् । न च ध्वनिधर्मा एव गृह्यन्ते । स्पर्शाद्यनन्तर्भावेण भावेषु त्वगादीनामव्या-

बोधनी ।

ह्रस्वादिषु शैत्यादीनां स्वाभाविकत्वे प्रमाणं नान्यत्, तदिहापि समानं तीव्रॊऽयं गकार इति प्रत्य- क्षेण प्रतीतेरिति भावः । शङ्कते-तत्तथा इति । तद् द्रवत्वादि तथैवावादीनां स्वाभाविकमिति युक्तं, तद्धर्मस्यान्यस्योपाधेरनुपलम्भाद्वादिगत्वेन च शैत्यादीनामुपलम्भादिति । अन्यस्येति शङ्कोपक्रमः प्रत्यक्षेण प्रतीतेरिति केचित् । तदपि तुल्यं तीव्रत्वादीनामित्याह-तुल्यम् इति । ननु मा भूदन्यधर्मत्वेनोपलम्भः तीव्रत्वादीनां, तथाऽप्यतीन्द्रियाणां व्यञ्जकध्वनीनां धर्माः स्युरिति शङ्कावकाशः स्यादित्याह-तथापि इति । तर्हि शैत्यादीनामप्यतीन्द्रियधर्मत्वशङ्का स्यादित्याह- एतदपि इति । गूढाभिसंधिः पृच्छति-तत्किम् इति । स एवाभिसंधिमुद्घाटयति-ननु इति । तर्हि पीतत्वादीनां शङ्खादिगतत्वेनोपलम्भात्तेऽपि तेषां स्वाभाविकाः स्युरिति । न इति । पीत- त्वादीनां शङ्खादिधर्मत्वे बाधकमस्ति, न तीव्रत्वादीनां शब्दधर्मत्व इति । यथाहुरार्याः- 'यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथा पुनः । स मिथ्या न तु तेनैव यो नित्यमवगम्यते' इति ॥ (श्लो० वा०) ननु बाधकादर्शनेन ते स्वाभाविकाः स्युरिति पीतः शङ्ख इत्यादिषु तद्गतत्वेनोपलम्भस्य भ्रान्तत्वोपलम्भादत्रापि शङ्का स्यादित्यत्राह-तथापि इति । एवम् इति । साधर्म्यमात्रेण शङ्कायामुष्णोऽग्निरित्यादावपि सा स्यादिति । ततः किमित्यत्राह-तथा च इति । क्वचिदपि विशेषाय कुतश्चित्प्रमाणात्कस्य चिद्धर्मिणः कश्चिद्धर्म इति न स्यात् । यद्वा, कस्यचित्प्रमातुः किञ्चि- त्प्रवृत्तिनिवृत्त्यादिकं न सिद्ध्येदिति । तारत्वंतारतरत्वादेरन्यत्राननुभूतत्वान्न तद्विषयः संस्कारः, तदभावे च न तेनोपस्थापनं, न च तदनुपनीतस्यास्मृतस्येति यावदन्यत्रारोपः संभवति, तेन भ्रान्तिज्ञानकारणाभावात् तीव्रत्वादिप्रत्ययानां भ्रान्तत्वशङ्काऽपि न युक्तेत्याह-न च इति । न च ध्वनिधर्मत्वेन तेषामस्त्यनुभव इति युक्तं वक्तुम्, तद्धर्मत्वे तेषामग्रहणस्यैव प्रसङ्गादित्याह-न च ध्वनिधर्माः इति । स्पर्शादिनियतविषयाणि त्वगादीन्द्रियाणि, न च तीव्रत्वादेः स्पर्शादिष्वन्तर्भा-

प्रकाशः ।

स्यर्थः । अन्यधर्मत्वस्थितिः, शब्दं विहायेति शेषः । तद्विरुद्धधर्मत्वं = तीव्रत्वादिविरुद्धधर्म- त्वम् । तद्धर्मिणः = तीव्रत्वादिधर्मिणः । चार्वाकमतमालम्ब्याह-तथापोति । मीमांसकस्य तन्मतातलम्बनेऽनुमानप्रामाण्यस्वीकारे व्याघात इत्याह एवमिति । न च शङ्काऽपि तत्र सम्भव- तीत्याह न चैतदिति । ननु ध्वनिधर्मास्तारत्वादयो गृह्यमाणा एव शब्दे आरोप्यन्ते, न स्मर्य- माणा इत्यत आह न चेति । ध्वनयो वायवीया एवेति तेषांन्वगादिभिरग्रहे तद्धर्मास्तारत्वादयो न