न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 280, कुल 608 में से
संदर्भ में पढ़ें२४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकान्याख्याने] स्याऽन्यथोपयोगः, भूतलस्याप्यन्यथैव स्यादविशेषात् । कथमन्यथेति चेत् । प्रति- योगिनिरूपणार्थमभावसन्निकर्षार्थञ्च । तत्र प्रतियोगिनिरूपणं स्मरणलक्षणमनुप- लभ्यमानेनापीति, न तदर्थमध्यक्षगोचरत्वमपेक्षणीयमन्यतरस्यापि; कुत उभयस्य । सन्निकर्षस्तु, भूतलघटसंयोगाभावस्येन्द्रियेण साक्षान्नास्ति, येनास्ति तेनापि बोधनी । घटस्योपयोगः । तच्च स्मर्यमाणेनापि तेन सिध्यतीति भावः । तदेतद् भूतलस्यापि तुल्यमित्याह । भूतलस्य इति । विवक्षितमन्यथोपयोगं प्रश्नपूर्वकमाविष्करोति । कथमिति । न तावत्प्रति- योगिनिरूपणे तयोः प्रत्यक्षत्वोपयोग इत्याह-तत्र इति । प्रतियोगिनः संसर्गस्य तावन्निरूपणं स्मरणलक्षणं तदानीमनुभवस्यासंभवात्, स्मरणं चाप्रत्यक्षेणापि तन्निरूपकेण संसर्गेिणा भवतीति न भूतलघटयोरन्यतरस्यापि प्रत्यक्षत्वेन प्रतियोगिनिरूपणोपयोगः किमुतोभयोरिति । अभावसन्न्रि- कर्षार्थत्त्वेऽपि भूतलस्य न प्रत्यक्षत्वेनोपयोग इति दर्शयिष्यन् सन्निकर्षं तावदाह-सन्निकर्षस्तु प्रकाशः । यो ह्यनुपलम्भः प्रतियोगिसत्त्वविरोधी, स एवाभावग्राहकः । अत एव पृथिवीत्वाभावो जलपरमाणुषु न प्रत्यक्षः । प्रत्यक्षश्च वायौ रूपाभावः । रूपस्य महति वायौ सत्त्वेऽनुपलब्धिविरोधात् । स च शब्दाधाराप्रत्यक्षत्वेऽपि प्रकृतेऽस्तीति शब्दाभावः प्रत्यक्ष इति भावः । कथमिति । अन्यथेत्यत्र कोऽन्यः प्रकार इत्यर्थः । ननु संयोगाभावप्रतीतौ सन्निकर्षमात्रार्थं भूतलस्योपयोगे गन्धतदभावबुद्धौ द्रव्यग्रह इव नियमेन भूतलोपलम्भो न स्यात् । अतः सन्निकर्षवदस्योपलब्धिरभावप्रत्यक्षाऽङ्गमित्यु- प्रकाशिका । क्तं विलक्षणाभावकल्पनयेत्यरुचिवीजम् । यो हीति । तथाचैव योग्यानुपलब्ध्या संयोगाभावो- ऽपि गृह्यत इति भावः । स च शब्देति । यद्यपीदमप्रकृतं शब्दाभावस्य पूर्वपक्षविषयत्वात् । मकरन्दः । न्धिरित्यर्थः । चक्षुरादिकरणसमवधानमात्रे तु न योग्यानुपलब्धिः, अन्धकारे घटाभावप्रत्यक्षापत्तेः । किन्तु यावत्प्रतियोग्युपलब्भकसामग्रीसमवधाने सत्यनुपलब्धिः । तथा सति नान्धकारे घटाभाव- ग्रहापत्तिः, घटोपलम्भकसामग्रीमध्यपातितो यावदन्तर्गतस्यालोकसम्बन्धस्य तदानीमभावात् । प्रति- योग्युपलम्भे प्रतियोगिनोऽपि विषयविधया हेतुतया तस्यापि यावदन्तर्गतत्वात् प्रतियोगीतरेति । प्रतियोगिसत्त्वेऽपि तेन सममिन्द्रियसन्निकर्षश्च प्रतियोगिव्याप्यः, व्याप्तिश्च भेदगर्भा विवक्षिता अतः प्रतियोगिनः प्रतियोगिव्याप्यत्वेऽपि न क्षतिः । यत्किञ्चिदुपलम्भकसत्त्वेऽप्यन्धकारादौ तदभावग्रहा- भावाद् यावदिति । तथा च प्रतियोगितद्व्याप्यभिन्नं प्रतियोग्युपलब्धिव्यापकं यद् यत्, समुदित- तत्सत्त्व इत्यर्थः । विभिन्नदेशावच्छेदेन यावत्तदुपलम्भकसत्त्वेऽप्यभावाग्रहात् समवधान इति व्याख्यातम् । तत्र तद्धर्मावच्छिन्नतद्धर्मावच्छिन्नव्याप्येतरतद्धर्मावच्छिन्नलौकिकप्रत्यक्षयावत्कारणसम- वधाने सति तद्धर्मावच्छिन्नानुपलब्धिः कारणमिति तु निष्कर्षः । यो हीति । तथा चेयमेव योग्यानुपलब्धिरभावग्राहिकेति संयोगाभावोऽपि प्रत्यक्ष एवेति भावः । एवं सति प्रकृतः शब्दाभाव एव प्रत्यक्षो न स्यादिति नाशङ्कनीयं, तत्राप्युक्तानुपलब्धिसत्त्वा दित्याह । स चेति । एतेन शब्दाभावमधिकृत्य पूर्वपक्षाभावादिदमसङ्गतमित्यपास्तम् । टिप्पणी । रुचिबीजन्तु कालविशेषावच्छिन्नस्वरूपेणैव घटाभावादिकादाचित्कत्वप्रतीत्युपपत्तेरतिरिक्ताभाव- कल्पने मानाभाव इति । अनुपलब्धिविरोधादिति । एवं सति घटस्यानुपलम्भेऽपि संयोगाभावप्रत्यक्षसम्भवः, भूतले संयोगानुपलम्भस्य संयोगसत्त्वविरोधित्वेन तावन्मात्रस्यैवा- पेक्षणीयत्वादिति भावः । यद्यपीदमप्रकृतं शब्दाभावस्य पूर्वपक्षविषयत्वात् । तथापि प्रति- योग्ययोग्यत्वे शब्दाभावोऽपि प्रत्यक्षो न स्यादिति शङ्कामात्रानेरासार्थम्—स चेत्यादि ।