न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 291, कुल 608 में से
संदर्भ में पढ़ें[ द्वितीयस्तबके ] शब्दनानित्यत्वोपपादनम् । २५७ तासामनिरूपणात् । नाऽप्यन्यत्र गमनाभावादिना पारिशेष्यादनुमेयः। हेतोरेव निरू- पयितुमशक्यत्वात् । आश्रयानुपलब्धेः । नापि निमित्तविनाशात् सर्वमिदमेकवारेण सेत्स्यतीति युक्तम् । तस्यानेकान्तिकत्वात् । तेजसा विशेषितत्वादयमदोष इति चेन्न । व्याप्त्यसिद्धेः । न हीन्धनविनाशात्तेजोद्रव्यमवश्यं विनश्यतीति क्वचित् सिद्धं, प्रत्यक्षवृत्तेरनभ्युपगमात् । तस्माद् यत्त्यागेनाऽन्यत्र गमनं न सम्भाव्यते, तेन निमि- त्तादिनाऽपि देशेन प्रध्वंसो निरूप्यत इत्यकामेनापि स्वीकारणीयम् । गत्यन्तराभा- वात् । अत एव तमसः प्रत्यक्षत्वे ऽप्यभावरूपमामन्वन्त्याचार्याः । एतेन शब्दप्रागभावो व्याख्यातः । बोधनी । रोधानस्यानुपलभ्यमानस्य वह्नेर्विनाशं परिशेषादनुमानती विनाशः सिध्येदित्याशङ्क्याह-नापि इति । गमनाद्यभावस्य हेतोरप्यभावात्मकत्वादिति । निमित्तकारणस्य कोष्ठादेर्विनाशे न तत्कार्यस्य वह्ने- स्तदवयवानां च विनाशोऽनुमीयत इत्याह-नापि इति । न हि निमित्तस्य दण्डचक्रादेर्विनाशे घटादिकार्यविनाशो दृश्यत इति । ननु मा भूदन्यत्र, अस्ति तेजोनिमित्ताभावस्य कार्याभावव्या- प्तिरित्याह-तेजसा इति । अथापि व्याप्तिग्राहकप्रमाणाभावादसिद्धिरित्याह-न इति । तामेव दर्शयति-न हि इति । अतीन्द्रियाधारे तेजोविनाशे प्रत्यक्षप्रवृत्त्यनभ्युपगमात् तेन सह दुर्महा व्याप्तिरित्युपसंहरति-तस्मात् इति । गत्यन्तरस्य=आश्रयनिरूप्यत्वलक्षणस्याभावादिति । अत्रा- चार्यसम्मतिं दर्शयति-अत एव इति । यत एवाभावप्रत्यक्षस्याधिकरणप्रत्यक्षतायां निर्बन्धो नास्ति अत एव । यदि हि तस्य निर्बन्धः स्यात्तदा भाऽभावस्य तमसस्तेजोऽवयवाश्रयत्वात् तेषां चाप्रत्यक्षत्वादप्रत्यक्षता स्यादिति । एतेन प्रध्वंसप्रत्यक्षताप्रतिपादनेन शब्दप्रागभावोऽपि प्रत्यक्ष इति सिद्धमेवेत्याह-एतेन इति । प्रकाशः । व्युत्पादयति न हीति । हेतोरेवेति । अनुपलभ्यमानत्वादित्यस्य हेतोरभावाश्रयाप्रसिद्धेर- पक्षधर्मतया येन रूपेण हेतुत्वं तेनानिरूपणादित्यर्थः । नाऽपीति । वह्निमित्तेन्धननाशस्य- प्रत्यक्षत्वात् ततोऽन्यत्र प्रतियोगिगमनाभावस्तत्प्रध्वंसश्चेति सर्वमित्यर्थः । तस्येति । निमित्त- नाशेऽपि नैमित्तिकानामनाशादित्यर्थः । तेजसेति । निमित्तनाशे अग्निर्नश्यतीति व्याप्ते- रित्यर्थः । गमनं, प्रतियोगिनः । निमित्तादिनेति । अत एव यत्र कपालादिपरम्पराप्रनाशाद् घटनाशस्तत्रापीह भूतले घटो नास्तीति धीः समर्थिता । अत एवेति । यत एव निमित्तादिनाऽपि देशे ध्वंसनिरूपणमित्यर्थः । अन्यथाऽऽलोकावयवानामन्निरूपणात्तदवयवविनाशात्मकं तमो न प्रत्यक्षं स्यादिति भावः । प्रकाशिका । स्मरणरूपाश्रयनिरूपणेनाप्यभावनिरूपणादित्यर्थः । अनुपलभ्यमानत्वादित्यस्येति । अन्यत्र गम- नाभावे सत्यनुपलभ्यमानत्वेन हेतुना ध्वंसोऽनुमेयः, तत्र च विशेष्यमाश्रयवृत्तित्वेन च निरूपयितु- मशक्यमित्यर्थः । इदमुपलक्षणम् । गमनाभावरूपं विशेषणमपि तथेत्यपि द्रष्टव्यम् । सुवर्णादितेजसि मकरन्दः । पीति । स्मरणरूपाश्रयनिरूपणेनाप्यभावप्रतीतेरित्यर्थः । अन्यत्र गमनाभावे सत्यनुपलभ्य- मानत्वादद्रुमेयस्तत्राह-अनुपलभ्यमानत्वादित्यस्येति । गमनाभावस्येत्यपि द्रष्टव्यम् । टिप्पणी । आश्रयासिद्धेरिति । अनुमेयाभावपक्षोभूतवह्नेर्नाशेनाविद्यमानत्वान् ज्ञानासम्भवादित्यर्थः । येन रूपेण हेतुत्वमिति । हेतोः पक्षधर्म्मतयैव हेतुत्वम् । तेन पक्षधर्म्मत्वेनेत्यर्थः । पक्षस्यैवाग्रहात् । ३३ न्या० कु०