न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 290, कुल 608 में से
संदर्भ में पढ़ें२५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्याया एतेन “सङ्ख्यामभावो निरूप्यते”-इत्यादिशास्त्रविरोधः परिहृतो वेदितव्यः । उभयनिरूपणीयप्रतियोगिविषयत्वादनुमानविषयत्वाच्च । अन्यथा, आश्रयासिद्धिप्रस- ङ्गात् । तत्रापि न ग्रहणे नियमो, ज्ञानमात्रन्तु विवक्षितम्, तावन्मात्रस्यैव तदुपयो- गात्, कचिद् ग्रहणस्य सामग्रीसम्पातायातत्वाद् । यदि चाधिकरणग्रहे शास्त्रस्य निर्भरः स्याद्, “वह्नेर्दाह्यं विनाश्यस्यानुविनाशवत्तद्विनाश” (न्या० ४ अ० १ आ० २७ सू० ) इति नोदाहरेत्, असिद्धत्वात् । न हि वह्निविनाशस्तद्वयवपरम्परास्वेव निरूप्यः । बोधनी। पादयता शास्त्रेण विरोधः स्यादित्यत्राह-एतेन इति । प्रतियोगिनिरूप्यत्वाभ्युपगमेन इति । कथमेतेनास्य परिहार इत्यत्राह-उभय इति । यस्याभावस्य प्रतियोगी भावद्वयनिरूप्यः यथा संयोगः, तदभावः सङ्ख्यां संयोगिभ्यां निरूप्यते तद्विषयं शास्त्रमिति अनुमेयाभावविषयं वा शास्त्र- मित्यर्थः-अनुमाने इति । किं तत्राधारोऽपि निरूपणीय एवेत्याह-अन्यथा इति । यत्राप्य- धिकरणनिरूप्यत्वं तत्रापि न तस्य प्रत्यक्षत्वेनोपयोग इत्याह-तत्रापि इति । नन्विह भूतले घटो नास्तीत्यत्राश्रयः प्रत्यक्षेणैव गृह्यत इत्यत्राह-क्वचित् इति । तत्राश्रयप्रत्यक्षग्रहणसामग्र्या अभा- वग्रहणसामग्र्या सह संनिधानात् तत्प्रत्यक्षत्वं, न त्वभावज्ञानाङ्गतेति । कथमविशेषप्रवृत्तस्य शास्त्र- स्यैतद्विषयत्वमवगम्यत इत्यत्राह-यदि च इति । सूत्रकारो हि सर्वमनित्यमित्युक्ते तदनित्यत्वं नित्यमनित्यं वा नित्यं चेत्सर्वानित्यता न स्यात् अनित्यस्यैव नित्यत्वात् । अथानित्यं तथापि सर्वो- नित्यता न स्यात् । जनित्यस्यैव विनाशे सर्वानित्यताप्रसङ्गादिति चोद्यं परिहरन्नाह 'तदनित्यत्वं वह्नेर्दाह्यं विनाश्यस्यानुविनाशवत् तद्विनाशः' (न्या. सू. ४.१.२७) इति । अत्र हि यथाऽग्निर्दाह्यं काष्ठादि नाशयित्वा पश्चात्स्वयमपि विनश्यति, न च तदा काष्ठादिकमुपजीवति, एवं सर्वानित्यत्व- मपि सर्वं विनाश्य स्वयमपि विनश्यति न च सर्वानित्यता स्यादिति । वह्निविनाश उदाह्रियते तन्नोपपद्यते यद्यभावस्याश्रयनिरूप्यत्वं भवेदिति । कुत इत्यत आह-असिद्धेत्यादि इति । वह्निविनाशस्याश्रयानिरूपणेनासिद्धत्वादिति । तदेवाह-न हि इति । नन्वसंभवद्देशान्तरगमनति- प्रकाशः। प्रामाणिकत्वाच्छास्त्रस्य विशेषविषयत्वात् तद्विरोधोऽपि नास्तीत्याह एतेनेति । सङ्ख्यां = प्रतियोग्यधिकरणाम्याम् । विशेषविषयत्वमाह उभयेति । उभाभ्यां संयोगिभ्यां संयोगो निरूप्यते इति तदभावोऽपि तथेत्यर्थः । अनुमानेति । यत्र व्यापकाभावेन व्याप्याभावोऽनुमीयते, तत्रा- श्रयग्रह उपयुज्यते इत्यर्थः । अन्यथेति । तत्राश्रयाग्रहादित्यर्थः । तत्रापीति । उभयनिरूप्यप्र- तियोगिविषयेऽपि नानुभवनियमः । स्मरणेनाप्याश्रयनिरूपणाल्लाघवाच्चेत्यर्थः । यत्तु क्वचिद्घटं भूतलमियत्र ग्रहणनियमः, सोऽन्यथासिद्ध इत्याह क्वचिदिति । आश्रयग्रहणनियमश्च न सूत्र- कारस्यापि सम्मत इत्याह यदि चेति । दृष्टान्तस्य वह्निनाशस्याज्ञानादित्यर्थः । असिद्धत्वमेव प्रकाशिका । मित्यर्थः। तथा चांशलमपि परम्परासम्बन्धेन गुणाद्याश्रयतया तद्ध्वंसदेशत्वमपीति भावः। शास्त्र- स्येति । यद्यपि निराधिकरणा नाऽभावप्रतीतिरित्युपपन्नमेवोक्तमिति न शास्त्रविरोधशङ्का, तथापि अधि- करणपदस्य प्रतियोगिसमवायिपरत्वेऽपि न विरोधः,विशेषविषयत्वाच्छास्त्रस्येत्यर्थः। स्मरणेनापीति। मकरन्दः। भावः । शास्त्रस्येति । यद्यपि निरधिकरणाऽभावप्रतीत्यनभ्युपगमे विरोधशङ्कव नास्ति, तथाप्य- धिकरणपदस्य प्रतियोगिसमवायिपरत्वेऽपि न विरोधो विशेषविषयत्वादित्याशयः । स्मरणेना- टिप्पणी । के, । स्वजन्यपटध्वंसासिद्धया साध्यप्रसिद्धयभावाद् व्याप्यप्रदाद्धेतोरसिद्धिरित्यन्वे ।