न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 289, कुल 608 में से
संदर्भ में पढ़ें˙द्वितीयस्तबके ] शब्दानित्यत्वोपपादनम्। २५५ र्हीयम्। तस्यातद्देशत्वात् । आश्रयावच्छेदकतया तेषामपि अदूरविप्रकर्षेण तद्देश- त्वम्, एवम्भूतेनापि देशेन तन्निरूपणं, योग्यताया अव्यभिचारादिनि चेत् । न तर्हि प्रतियोगिसमवायिदेशेनैव ध्वंसनिरूपणमिति नियमः, प्रकारान्तरेणापि निरूपणा- त् । तस्माद् यस्य यावती ग्रहणसामग्री तं विहाय तस्यां सत्यां तदभावो यत्र क्वचि- न्निरूप्यो देशे काले वा । इयांस्तु विशेषः । सा सती चेत्, प्रत्यक्षेण, असत्येव ज्ञाता चेत्, अनुमानादि- नेति स्थितिः ।
बोधनी । इति । शङ्कते- आश्रय इति । अयमर्थः । गुणकर्मणोः पटस्य चाश्रयं पटं तन्तूश्च प्रति परम्परया साक्षाच्चांशवः कारणं, तैरेवारब्धैस्तन्तुभिरारब्धः पट इति । एवं पटावच्छेदका अंशव इति तेषामप्यदूरविप्रकर्षेण गुणानामप्याभावदेशत्वमस्ति, तस्मादेवंभूतेन व्यवहितेनापि देशेनाभावो निरूपणीयः व्यवहितस्यापीदृशस्याभावनिरूपणे योग्यताध्यासेः । न हि संभवति तन्तुप्रध्वंसव- न्तोऽशव इवि पटाभावस्तदाश्रयगुणाभावो वा नास्तीति । न तर्हि इति । तेन शब्ददेशस्या- प्रत्यक्षत्वेऽपि शब्दप्रध्वंसप्रत्यक्षोपपत्तिरिति । किंनिरूप्यस्तर्हीत्याशङ्कामपनुदन्नुपसंहरति- तस्मात् इति । यस्य भावस्य या ग्रहणसामग्री तं भावं तदविनाभूतमपि संनिकर्षं विहाय तस्यां सत्यां तस्य भावस्याभावो यत्कचिन्निरूप्यः न स्वधिकरण एवेति नियमः भावस्यात्मापि प्रत्यक्षसामग्र्ये- कदेश इति तं विहाय-इत्युक्तम्-इति । यद्यतीन्द्रियाधारेऽप्यभावः प्रत्यक्षः, कस्तर्हि प्रत्यक्षाप्रत्यक्षव्यवस्वाहेतुरित्यत्राह- इयांस्तु इति । येयमभावग्रहणसामग्री सा विद्यमाना चेत् प्रत्यक्षेण निरूप्यः इह घटो नास्तीति । अत्र. हि प्रतियोगिस्मरणं तदनुपलब्धिरालोकादिसहकृतेन्द्रियव्यापारादयो विद्यन्ते सा तु सामग्रीसती ज्ञाय- माना चेदनुमानेन । प्राक्तनाभावप्रतीतो नेदानीमिन्द्रियव्यापारादयो विद्यन्ते किं तु प्राक्तना एवानु- संधीयन्त इति । यदि ह्याधारनिरूप्यो न स्यात् तर्ह्याधारप्रतियोगिभ्यां निरूप्योऽभाव इति प्रति-
प्रकाशः। शङ्कते अनन्येति । अत्रापि बाध इत्यभिप्रेत्य परिहरति तथापीति । तस्येति । पटध्वंस- स्यांशवनाधारत्वादित्यर्थः । आश्रयेति । गुणक्रियावत्पटाश्रयतन्तववच्छेदकानामंशानामपि गुणा- दिदेशत्वमित्यर्थः । तं विहायेति । तं = प्रतियोगिनम्, तद्व्याप्यञ्चेति द्रष्टव्यम् । शब्दस्य तु नाश्रयग्रहान्तर्भावेण ग्रहणसामग्री, येन तदग्रहे न गृह्येतेति भावः । यत्रेति । एतेन निरधिकरणोऽ भावधीरेति सत्यं, किन्तु प्रतियोगिसमवायिदेशनिरूप्यता नियमो नास्तीत्युक्तम् । नन्वेवं प्राङ्नास्तितायामप्यनुपलम्भानुमानं न स्यादित्यत आह- इयांस्त्विति । प्रत्यक्षसामग्रयाः सतीत्वं = योग्यानुपलम्भसहकृतत्वम् । यत्र तु प्राङ्नास्ति- तादावाधारेन्द्रियसंनिकर्षाभावात् तदभावस्तत्रासती, ज्ञाता चेदनुमानेन, स्मरणार्हस्याऽस्मरणादिना । आदिग्रहणादाप्तोपदेशेनापीत्यर्थः । स्थितिः = व्यवस्थ्तििः ।
प्रकाशिका। विशेपणानां पटादीनामित्यर्थकत्वेन प्रकृते तदविरोधात् । प्रकाशे तु विशेष्यविशेषणपदयोर्व्यत्यासेना- न्वय इति साम्प्रदायिकाः । मूलेऽनन्यगतिकत्वकीर्त्तनं तन्त्वाधारांशुपक्षीकरणाभिप्रायेण द्रष्टव्यम् । पटध्वंसस्येत्युपलक्षणम् । गुणादिध्वंसस्येत्यपि द्रष्टव्यम्। तन्त्ववच्छेदकानामिति । तन्त्वाश्रयाणा-
मकरन्दः । धारेति वक्तुमर्हति, तथापि पटनिष्ठयोरपि गुणक्रिययोः परम्परया तन्तुविशेषणत्वमित्यभिप्रायेण तथोक्तम् । पटध्वंसस्येत्युपलक्षणं, गुणादिध्वंसस्येत्यपि द्रष्टव्यम् । तन्त्ववच्छेदकानामिति । तन्त्वाश्रयाणामित्यर्थः । तथा च परम्परासम्बन्धेन तेषां गुणादिदेशत्वात्तद्ध्वंशदेशत्वमपीति