न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 292, कुल 608 में से
संदर्भ में पढ़ें२५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रकाशः। एतेनेति। प्रतियोगियोग्यतामात्रनिरूप्यत्वेन। व्याख्यातः, प्रत्यक्षतया। एतच्च संसर्गा- भावविषयम्। अन्योन्याभावस्यायोग्यप्रतियोगिकस्य प्रत्यक्षत्वात्। कथमन्धथा स्तम्भः पिशाचो नेति धीः प्रत्यक्षा। प्रतियोगिसत्त्वविरोधिना एवानुपलम्भस्याभावप्रत्यक्षतायां तन्त्रत्वात्। यदि हि स्तम्भः पिशाचः स्यात् स्तम्भात्मकतयोपलभ्येतेति न पिशाचानुपलम्भः स्यात्। ननु शब्दा- भावो न योग्यानुपलम्भग्राह्यः। तत्तद्ध्याप्येतरतदुपलम्भकस्य वायोस्तत्राभावात्। तथा च सत एव शब्दस्य व्यञ्जकवायुविरहादनुपलब्धिमात्रं, न तु ध्वंसग्रहः। विनष्टधीरपि व्यञ्जकवायुध्वंसो- पाधिकैव। अत एव यत्र यस्य. सत्त्वमनुपलब्धिविरोधि,तस्याभावस्तत्र गृह्यत इति योग्यानुप- लब्ध्यर्थ इति पक्षेऽपि न शब्दाभावोऽध्यक्षः। व्यञ्जकाभावेन सतोऽपि शब्दस्योपलब्धेरभावात्। नैवम्। वर्णा न प्रतिनियतव्यञ्जकव्यङ्ग्याः, एकावच्छेदेन समानदेशत्वे सति समानेन्द्रिय- प्रकाशिका। व्यभिचारात्तेजःपदमग्निपरमित्याह—अग्निरिति। एतच्चेति। निरुक्तानुलब्धेः सहकारिण्या अविशेषेऽपि संसर्गाभावग्रहे प्रतियोगियोग्यत्वं स्वरूपयोग्यता, अन्योन्याभावग्रहे त्वधिकरणयोग्यता तथेति मनसिकृत्यैवेद्मुक्तम्। वस्तुतो निरुक्तानुलब्धिः सहकारिणी उपलम्भापादकसत्त्वप्रतियोगि- प्रतियोगिकत्वमेव स्वरूपयोग्यतेति पिशाचान्योन्याभाववत् पिशाचत्वात्यन्ताभावो रूपात्यन्ताभाव- वद्रूपान्योन्याभावः प्रत्यक्ष इति रहस्यम्। ननूक्तधीः प्रत्यक्षैत्यत्रैव किं मानमत आह—प्रतियो- गिसत्त्वेति। स्तम्भात्मकतयेति हेतौ तृतीया न तु प्रकारे, इष्टापत्तेः प्रकृतानुपयोगाच्च, तथा च स्तम्भो यदि पिशाचत्वजातिमान् स्यात् तद्वत्तयोपलभ्येत अत्र हेतुः स्तम्भात्मकतयेति। पिशाचस्येतिशेषः। तेन योग्यव्यक्तिवृत्तित्वं तथा सति पिशाचस्य स्यादिति मूलसूचितं सूचितम्। न च पिशाचत्वप्रकारकप्रत्यक्षविषयत्वमापाद्यम् तच्चाप्रसिद्धमिति वाच्यम्। पिशाचत्वं यदि स्तम्भवृ- त्तिजातिः स्यात् स्तम्भविशेष्यकप्रत्यक्षप्रकारः स्यादित्यस्य प्रकृते आपादनशरीरत्वात् व्यञ्जक- त्वं वायोः सामान्यत एव वर्णान् प्रति तत्तद्वायोस्तत्तद्वर्णं प्रति वा, आद्ये फकाराभिव्यक्ति- काले गकाराभिव्यक्तिप्रसक्तिः, अन्त्ये त्वाह वर्णा इति। परस्परप्रमाप्रतिबन्धकासहकृतपरस्परव्य- मकरन्दः। तेजोऽन्तरे व्यभिचारात्तेजःपदमग्निपरमित्याह अग्निरिति। यदि हीति। यद्यपि यथाश्रुते इष्टापत्तिः, न च पिशाचो यदि स्तम्भात्मा स्यादिति विवक्षितमिति वाच्यम्, अधिकरणे प्रतियोगिसत्त्वस्य तर्कविषयत्वाभ्युपगमात्, तथाऽपि स्तम्भो यदि पिशाचात्मा स्यात् पिशाचा- त्मतया प्रमाविषयः स्यादित्यत्र तात्पर्यम्। ननु वायोर्व्यञ्जकत्वे सर्वशब्दोपलब्धिः स्यात्, यदि च कार्ये प्रतिनियतजनकजन्यत्ववत् शब्देऽपि प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमिति ब्रूयात्, तत्राह-वर्णा नेति। अत्र प्रतिनियतव्यङ्गकव्यङ्ग्यत्वं दोषाभावे सति परस्परविलक्षणपरस्परसा- क्षात्कारहेतुकज्ञानविषयत्वं तदभावः साध्यः। तेनैकत्वदित्वभ्रमजनकेन परिमाणग्राहिणा, परिमाण- भ्रमजनके नैकत्वग्राहिणा च न व्यभिचारः। न चैवमप्येकाधिकरणक्रमिकगन्धादिभिर्व्यभिचारः, एककालावस्थायित्वे सतीत्यपि साध्ये प्रतियोगिविशेषणत्वात्। के चित्तु अवच्छेदकं देशकालसा- धारणं, तथा चान्यूनानतिरिक्तदेशकालत्वे सतीति सत्यन्ततात्पर्यम्, अतो हेतोरेव तन्नागम- नान्न व्यभिचारः। न चैवं स्वमतेऽसिद्धिः, वर्णानां क्रमिकोत्पादत्वेनाव्याप्यवृत्तितया च तुल्यदेश- कालत्वाभावादिति वाच्यम्। परमतेन कृतत्वादित्येके। कर्णावच्छेदेनैकदाऽपि नानावर्णोत्पादस- म्भवेन तत्तद्वर्णविशेषाणामेव पक्षत्वमित्यपरे। ननु तत्तद्वर्णप्रागभावत्यादिकम प्रतिनियतव्यञ्जक- मादाय बाध इति चेत्, न, तदन्यत्वेनापि साक्षात्कारहेतुविशेषणात्। इतरनिरूपणाधीन निरूप- णत्वे सतीत्यपि हेतुविशेषणं, तेन घटान्योन्याभावपटत्वात्यन्ताभावयोः पृथक्त्वदीर्घत्वयोर्वा न