न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 276, कुल 608 में से
संदर्भ में पढ़ें२४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां अन्यथा संयुक्तसमवायेन गन्धादावुपलब्धिदर्शनात् समवायेनादर्शनात् शब्दस्याग्रह- णप्रसङ्गात् । नाप्यभावत्वे सत्यतीन्द्रियाधारत्वात् सत्प्रतिपक्षत्वं, योग्यताविरह- प्रयुक्तत्वाद् व्याप्तेः । न चाऽतीन्द्रियाधारत्वमेव तस्य योग्यताविरहः । तद्विपर्ययस्यैव बोधनी । हीन्द्रियेण साक्षात्सम्बद्धमुपयोग्यस्तत्सम्बन्धिनाऽर्थान्तरेण सम्बध्यते तद्विषय एवायं प्रतिबन्धः, न त्विन्द्रियग्राह्याभावमात्रविषय इति । कचिद् व्यवधानदर्शनादन्यत्रापि तथाभ्युपगमेऽनिष्टमाह । अन्यथा इति । तदेवमिन्द्रियसन्निकृष्टत्वस्यासिद्धयुद्भावनेन प्रतिपक्षत्वं निराकृतम्, इदानी- मतीन्द्रियाधारत्वस्य निराचष्टे । नापि इति । शब्दादिभिर्व्यभिचारनिवृत्त्यर्थमुक्तमभावत्वे सति इति । कुत इत्यत आह । योग्यता इति । परमाणुगतद्वयणुकप्रध्वंसादेः सपक्षत्वाभि- मतस्य नातीन्द्रियाधारत्वादतीन्द्रियत्वं, किन्तु स्वरूपयोग्यताविरहात् ततो व्याप्त्यप्रसिद्धो हेतु- रिति । नन्वस्तु योग्यताविरह एव प्रयोजकः, स त्वतीन्द्रियाधारतैवाभावस्येत्यत्राह । न च प्रकाशः । गृह्यमाणविशेष्यम् । साक्षात्सम्बन्धाभावे सत्येव हि परम्परासम्बन्ध आश्रीयते, अत्र तु साक्षादेव- सम्बन्धोऽस्तीति न तदाश्रयणमित्यर्थः । द्वितीयं सत्प्रतिपक्षं निरस्यति । नाऽपीति । शब्देन व्यभिचारवारणार्थमभावत्वे सतीति । योग्यतेति । तथा चोपाधिमत्त्वेनातुल्यबलत्वादित्यर्थः । ननु स्थापनानुमाने योग्यतायाः साध्यत्वात् प्रत्यनुमाने तदभावः साध्य इति स एव नोपाधिः । साधनव्यापकत्वात्, व्यभिचारानुमाने साध्याविशेषप्रसङ्गाच्च । न च योग्यतावच्छेदकरूपाभाव उपाधिः, योग्यतासाधके स्थापनानुमाने नैन्द्रियकाभावत्वमेव योग्यत्वं हेतुः, साध्याविशेषप्रसङ्गात्, अपि तु योग्यतावच्छेदकरूपवत्त्वमिति तदभावो नोपाधिः, पूर्वसाधनव्यतिरेकत्वात् । मैवम् । साध्यप्रयोजकत्वेन तादृशस्याप्युपाधित्वात् । न चैवं सत्प्रतिपक्षोच्छेदः । स्थापनाया यत्राभा- सत्वं तत्र पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वात् । यथा शब्दोऽनित्यो गुणत्वाद् इत्यत्र व्योमैकगुणत्वेन सत्प्रतिपक्षे अगु णत्वमुपाधिः । जलपरमाणुरूपादौ साध्याव्यापकत्वात् । पूर्वं योग्यताविशेषो हेतुरत्र योग्यतामात्रव्यतिरेक उपाधिरित्यन्ये । प्रयोजकत्वमेवाह । न चेति । न दृश्याधारत्वमात्रं योग्यता, किन्तु दृश्यप्रतियोगिकत्वसहि- प्रकाशिका । उपसंहरन्नेवेति निराकरोतीति योजना । एवं = सम्बद्धविशेषणग्राहकम् । गृह्यमाण विशेष्यमिति । गृह्यमाणं विशेष्यमाश्रयो यस्य तादृशं विशेषणतास्वरूपमित्यर्थः । एतेनान्यत्र सम्ब- द्धाभावग्रहे सम्बद्धविशेषणताप्रत्यासत्तिर्न तु सर्वत्रेति पर्यवसितार्थः । ननु भवेदेवं यदि साध्यं साधनव्यापकं स्यात् तदेव तु नारुतीत्यारुचेराह । व्यभिचारानुमान इति । न चैवमिति । यद्यपि साध्यप्रयोजकत्वेनेत्यभिधानाद् यत्रैव साध्यं प्रत्यप्रयोजकः पूर्वसाधनव्यतिरेकस्तत्रैव नोपा- धिरिति शङ्कैवेयमनुपपन्ना, तथापि तत्र तस्याप्रयोजकत्वमित्यत्रैव किं बीजमित्यभिप्रायेणेदमुक्तम् । पूर्वमिति ऐन्द्रियकप्रतियोगिकत्वरूपयोग्यताविशेषो हेतुः, योग्यतासामान्याभावश्चोपाधिरतो न पूर्वसाधनव्यतिरेकित्वमित्यर्थः । अन्य इत्यरुचौ, तद्वीजन्तु स्थापनानुमाने योग्यतासामान्यस्य साध्यत्वेऽपि योग्यताविशेषो हेतावंशतः साध्याविशेषे यथोक्तप्रक्रियाया एवानुसरणीयत्वे किम- मकरन्दः । ननु भवेदेवं यदि साधनं साध्यव्याप्यं स्यात् , तदेव चौपाधिवादिमतेऽसिद्धमित्य नुशयादाह । व्यभिचारानुमान इति । टिप्पणी । मिति । इन्द्रियसम्बद्धविशेषणताग्राह्य इत्यर्थः । गृह्यमाणेति । इन्द्रियसम्बद्धविशेषणता-