न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 295, कुल 608 में से
संदर्भ में पढ़ें[ द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २६१ पारात् । न च श्रवणेनैव तद्ग्रहणम् । अवायवीयत्वेन तस्य वायुधर्माग्राहकत्वात् चक्षुर्वत्, तारतारतरत्वादयो वा न वायुधर्माः श्रावणत्वात् कादिवत् । वायुर्वा न श्रवणग्राह्यधर्मा मूर्त्तत्वात् पृथिवीवत् । यदि च नैवं, कादीनामपि वायवीयत्वप्रसङ्गः । ततः किम् ? अवयविगुणत्वेऽ- नित्यत्वम्, परमाणुगुणत्वेऽग्रहणम्, द्वयमप्येतदनिष्टं भवतः । अवश्यञ्च श्रवसा बोधनी । व इति । तर्हि श्रोत्रेण गृह्यतामित्यत्राह-न च इति । न ह्यवायवीयस्य श्रोत्रस्य वायुधर्मतारत्वा- दिग्राहकत्वं संभवति चक्षुर्वदिति । दृश्यत एव श्रोत्रेण ग्रहणमिति चेत्, तत एव तर्हि न वायुधर्मा इत्याह—तारतारतरत्वादयः इति । तेषामवायवीयत्व एवानुमानान्तरमाह-वायुर्वा इति । तेषां वायुधर्माङ्गीकारेऽनिष्टप्रसङ्गमाह-यदि च नैवम् इति । श्रोत्रग्राह्याणामेव वायवीयत्व- दर्शनादिति भावः । सन्तु कादयो वायवीयाः । उक्तं च-‘वायुः शब्दतामापद्यत’ इत्याशयेन पृच्छति-ततः किम् इति । उत्तरम्-अवयविगुणत्वे इति । वायुधर्मा भवन्तः कादयः किमव यविनस्तस्य भवेयुः वायुपरमाणोर्वा; पूर्वत्र कादीनामनित्यत्वप्रसङ्गः, उत्तरत्रेन्द्रियग्राह्यता न स्यात् तद्गतस्पर्शवदिति । न चैवमस्त्विति वाच्यमित्याह-द्वयम् इति । न परं वायुधर्मत्वे बाधकमा- प्रकाशः। गृह्यन्ते इति न गृह्यमाणारोप इत्यर्थः । अग्रहे हेतुमाह स्पर्शादीति । अवायवीयत्वेनेति । श्रोत्रं न वायुमात्रधर्ममात्रग्राहकम्, अवायवीयवहिरिन्द्रियत्वात् चक्षुर्वदित्यर्थः । अतो न सत्ता- द्रव्यत्वग्राहकेण चक्षुषा मनसा वा व्यभिचारः । ननु चाप्रयोजकमिदम् । न हि यदिन्द्रियं यद्द्रव्यजातीयं तत् तज्जातीयस्यैव धर्मं गृह्णाति । तैजसेन चक्षुषा नीलाद्यग्रहप्रसङ्गात् । न, यद्वहिरिन्द्रियं यद्विशेषगुणग्राहकं तत्तज्जातीयगुणवदेवेति नियमेन श्रोत्रस्य वायुगुणतारत्त्वादिग्राहकत्वे तद्गुणवत्त्वप्रसङ्गे वायवीयत्वप्रसङ्गात् । श्रावणत्वात्= श्रवणमात्रवहिरिन्द्रियग्राह्यत्वादित्यर्थः । तेन न सत्तायां व्यभिचारः । श्रवणग्राह्येति । श्रवण- मात्रग्राह्यधर्मेत्यर्थः । अत्र विपक्षे बाधकमाह-- प्रकाशिका । ध्वंसोत्पत्तावव्याप्तिर्दोषः । स्वतः प्रामाण्यग्रहस्य पूर्वं निरस्तत्वान्नान्यथा व्याचष्टे । स्वत इतीति । ननु चेति । यद्यपि विशेषव्याप्त्यैवात्रानुमितिरिति सामान्यव्याप्तिदूषणमकिञ्चित्करम् । तथापि विशेषव्याप्तावपि विपक्षबाधकत्वेन सामान्यव्याप्तिरेव वक्तव्येति सैवाशङ्क्य निरस्तेति भावः। यद्वहिरि- न्द्रियमिति । स्नेहग्राहकचक्षुषि व्यभिचार इति विशेषपदं तद्वहिरिन्द्रियव्यवस्थापकपरं तज्जातीय- त्वञ्च गुणत्वव्याप्यजात्येति न संख्यादीनां गुणत्वमादायार्थान्तरत्वम्। श्रवणमात्रेति । सत्तायां व्यभि- चार इति मात्रेति । मनसस्सर्वत्र ग्राहकतयाऽप्रसिद्धिरिति बहिरिति । सत्तामादाय बाध इति व्याचष्टे । मकरन्दः । व्यभिचारः । अधिकं शब्दप्रकाशे विपश्चितम् । उत्पत्तेस्तादृशसम्बन्धरूपतया तद्वत्त्वस्य हेतुत्वे व्यर्थविशेष्यत्वमित्यत आह स्वसमानेति । ननु चेति । यद्यपि सामान्यव्याप्तौ दुष्टायामपि विशेषव्याप्तेरबैकल्यमेव, तथा च किं तन्निरासेन, तथापि विशेषव्याप्तेरेवाप्रयोजकत्वशङ्कायां सामा- न्यव्याप्तिस्तत्प्रयोजकत्वमाशङ्कय निरस्तेति नोक्तदोषः । यद्वहिरिन्द्रियमिति । ननु स्नेहग्रा- हकचक्षुरादौ व्यभिचारो विशेषपदवैय्यर्थ्येति चेत्, न, विशेषपदस्यैव बहिरिन्द्रियव्यवस्थापक- परतयोभयदोषनिरासात् । तज्जातीयत्वञ्च गुणत्वव्याप्यजात्या, अतो न सङ्ख्यादिमत्तयाऽर्थान्तरम् । श्रवणमात्रेति । सत्तायां व्यभिचारवारकं मात्रपदं, बहिःपदञ्चाप्रसिद्धिवारकम् । सत्तावत्त्वाद्बाध-