भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 296, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 296

२६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यानं ग्राह्यजातीयगुणेनवता भवितव्यम्, बहिरिन्द्रियत्वाद् घ्राणादिवत्। सन्तु ध्वनयोऽपि नाभसाः, तथा च तद्धर्मग्रहणं श्रवणेनोपपत्स्यत इति चेन्न। तारस्तारतरो वाऽयंझङ्कार इत्यत्र ध्वनीनामस्फुरणात् । न च व्यक्त्या विना सामान्यस्फुरणम्। कारणाभा- वात्। व्यक्तिस्फुरणसामग्रीनिविष्टा हि जातिस्फुरणसामग्री। कुत एतत्? अन्वय- व्यतिरेकाभ्यां तथाऽवगमात्। ऐन्द्रियकेष्वेव घटादिषु सामान्यग्रहणात्, अतीन्द्रि- येषु च मनःप्रभृतिष्वग्रहणात्। स्वरूपयोग्यतैव तत्र निमित्तम्, अकारणं व्यक्ति- योग्यतेति चेत्। एवं तर्हि सत्ताद्रव्यत्वपार्थिवत्वादीनां स्वरूपयोग्यत्वे परमाण्वादि- बोधनी । काशधर्मत्वे साधकमप्यस्ति वर्णानामित्याह-अवश्यम् इति । सन्तु इति । ततश्च श्रोत्रग्राह्यत्वेन तारत्वादीनां शब्दधर्मत्वसिद्धिरिति । न इति । तारोऽयं ककार इति प्रतीतिस्तत्र, न च तारत्वा- दिमत्तया ध्वनयः परिस्फुरन्तीति न ते ध्वनिधर्माः किन्तु वर्णधर्मा एवेति भावः। मा भूद् ध्वनीनां स्फुरणं, तथापि तद्धर्माणाभेव तीव्रत्वादीनां स्फुरणं भविष्यतीत्यत्राह-न च इति। व्यत्क्त्या विना गृह्यमाणतयेति शेषः । विशेषणानां ध्वनीनां सामान्यात्मानस्तीव्रत्वादयः कथमिव तेष्वगृह्यमाणेषु स्फुरेयुरिति । यद्वा, विशेषरूपेण ध्वनीनामस्फुरणेऽपि सामान्यात्मना स्फुरणात्तद्धर्मस्य तीव्रत्वादेर्ग्रहणोपप- त्तिरित्याशङ्क्याह-न च इति । कारणाभावमेवाह-व्यक्ति इति । व्यक्तिस्फुरणसामग्र्येकत्वं जातिस्फुरणंस्य कुतोऽवधृतमित्याह-कुत एतत् इति । उत्तरम्- अन्वय इति। अन्वयव्यतिरेकावेव दर्शयति-ऐन्द्रियकेषु इति। सतीन्द्रिये व्यक्तिग्राहिणि सामान्य- ग्रहादसति चाग्रहादिति। ननु तत्र सामान्यस्य स्वरूपयोग्यता सदसत्त्वनिमित्तत्वाद् ग्रहणाग्रहणयोरन्य- थासिद्धावन्वयव्यतिरेकावित्याह-स्वरूपयोग्यता इति । तद्विकल्प्य दूषयति-एवं तर्हि इति । प्रकाशः । यदि चेति । श्रोत्रस्य नभस्त्वे मानमाह--ग्राह्येति । ग्राह्यजातीयविशेषगुणवतेत्यर्थः । ध्वनीनामिति । ध्वनयो नाभसा विभुसमवायिकारणत्वाद् गुणा एव, तद्धर्माश्च तारत्वादयः सामान्यरूपाः स्युः । तथा च ध्वनीनां तारत्वादिसमवायिव्यक्तीनामज्ञाने गकारादिगतत्वेन न भासेरन्नित्यर्थः । न चेति । जातिज्ञाने व्यक्तिविषयकत्वनियमादित्यर्थः । प्रत्यक्षेऽयं नियमोऽतो न जातिपदजन्यज्ञाने व्यभिचारः । जातिपदेनापि वा जातित्वज्ञानं व्यक्तिविषयकमेव जन्यते । नित्या- नेकवृत्तित्वस्य जातित्वात् । एवं तर्हीति । ननु परमाणुवृत्तिसत्तादिकं गृह्यत एवेतीष्टापत्तिः । न च परमाणुगतत्वेन तद्बुद्धिरपाया । विशेषणज्ञानं विना विशिष्टज्ञानाभावात् परमाणोरयोग्य- प्रकाशिका । श्रवणमात्रेति । अत्रापि पूर्ववद् बहिः पदं पूरणीयम् । श्रोत्रस्य नभस्त्व इति । श्रोत्रमपि वाय- वीयमेव तथा च तद्धर्मतारत्वादिपरिग्रहः सम्भवत्येव । श्रवणेति । एवमेवेति शङ्का निराकरणा- येति शेषः। ग्राह्यजातीयेति । तथाच श्रोत्रस्य कादिमत्त्वेन यद्यपि विशेषणपदमत्र व्यर्थं सामान्य गुणस्य श्रोत्राग्राह्यतया तमादाय सिद्धसाधनाभावात् । तथापि संख्यादिनार्थान्तरं स्यादेव उक्तप्रमा- णस्य संख्यादिश्रोत्रग्राह्यत्वविषयतवेनाप्युपपत्तिरिति विशेषपदम् । ननु धर्म्यग्रहेऽपि धर्म्मग्रहः शब्द- ग्रहवत, स्यादत आह । ध्वनय इत्यादि । सामान्यरूपा इति । गुणे जातिं विधाय धर्म्मान्त- मकरन्दः । इत्यत आह श्रवणमात्रेति । श्रवणमात्रबहिरेन्द्रियग्राह्येत्यर्थः । श्रोत्रस्य नभस्त्व इति, कादीनां नभसत्वेऽपि श्रोत्रं वायवीयमिति तद्धर्मतारत्वादिग्रहस्तेन स्यादिति शङ्कानिरासाय इति शेषः । ग्राह्येति । तथा च श्रोत्रस्यापि कादिमत्त्वे नभस्त्वमिति भावः । यद्यपि श्रोत्रस्य सामान्य-