न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 31, कुल 608 में से
संदर्भ में पढ़ेंमेघठक्कुररचितप्रकाशिका (जलद) युतेन रुचिदत्तोपाध्यायकृतमकरन्दो- द्भासितेन झोपाख्यधर्म्मदत्तनिर्मितटिप्पण्यन्वितेन वर्द्धमानोपाध्यायकृत- प्रकाशेन वरदराजकृतबोधन्या च सहितः । महामहोपाध्यायश्रीमदुदयनाचार्यप्रणीतः न्यायकुसुमाञ्जलिः बोधनी । विशदयितुमर्थतत्त्वं विनिहन्तुं चान्तरीयसन्तमसम् । मम मनसि सन्निधत्तां नरहरिशवलावकृति ज्योतिः ॥ १ ॥ विश्वं यो विदधात्यदृष्टसचिवः सत्सम्प्रदायो यतः प्रामाण्यं लभते श्रुतिर्गुणवतो वक्तुर्यतो नान्यतः । यस्मिन् बाधकशाङ्कयापि विगतं-माता च मानं च यः सिद्धो यः श्रुतिनीतिसम्भृतवशस्तैस्तं मन्महे मानतः ॥ २ ॥ प्रकाशः । भक्तानां कामदस्तुष्टो रुषा कामं दहन्नपि । प्रकाशिका । भासयद्भक्तजनताचेतःकमलकोरकान् । वन्दे सन्देहतिमिरविच्छेदमिहिरं महः ॥ १ ॥ यः कौशोरे विश्वविख्यातकर्म्मा धर्म्माचार्यः श्रीमहादेवशर्मा । तत्सोदर्यो वर्द्धमानस्य सूक्तौ भावं मेघः सम्यगाविष्करोति ॥ कामद इति । कामः = काम्यं काम्यत इति व्युत्पत्त्या, अथ च कामः = कन्दर्पः, कामं मकरन्दः । भूतप्रभूतविकटध्वनिभीतिमत्या मानग्रहं मनसि धर्तुमपारयन्त्या । आलिङ्गितो गिरिजया चिरमस्मदादेरङ्गेषु मङ्गलमनङ्गरिपुर्दधातु ॥ १ ॥ कुसुमाञ्जलिमकरन्दः श्रीरुचिदत्तेन भण्यते कृतिना । स्तवकोपमर्दभाजां बुधमधुपानां विनोदाय ॥ २ ॥ कामं दहन्नपि कामद इति विरोधाभासः । कामः = काम्यम्, अर्शआदित्वात् कर्म्मणि टिप्पणी । श्रीगणेशाय नमः । भक्तानां कामद इति । काम्यत इति कामः, काम्यम् । कामं