न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 32, कुल 608 में से
संदर्भ में पढ़ें२ न्यायकुसुमाञ्जलौ [ प्रथमः- सत्पक्षप्रसरः सतां परिमलप्रोधोधबद्धोत्सवो बोधनी । औदयने पथि गहने विदेशिकः प्रतिपदं स्खलति लोकः । तस्य कृते कृतिरेषा कुसुमाञ्जलिबोधनी जयति ॥ ३ ॥ प्रारिप्सितप्रकरणव्युत्पाद्यस्य परमात्मविषयन्यायस्य प्रसिद्धसमाराधनसाधनप्रसूनाञ्जलिसाधर्म्य- प्रदर्शनेन पञ्चरूपोपपत्तिसम्पत्तिलक्षणं विशुद्धिं निःश्रेयसात्मकं फलं च प्रतिपाद्य तथाविधन्यायव्युत्पा- दनेन परमात्मसमाराधनतया परिकल्पितेन परमात्मनिरूपणेन स्वारसिकश्रद्धायुक्तस्य स्वान्तःकरण- स्याविहतश्रद्धावत्त्वमारिप्सितग्रन्थाविघ्नपरिसमाप्तिफलमाशास्ते—सत्पक्षप्रसर इति। सति प्रमा- णसिद्धे प्रमाणाबाधिते च पक्षे सन्दिग्घसाध्यधर्मवति धर्मिणि प्रसरतीति सत्पक्षप्रसरः। तेनाश्रया- सिद्धिकालात्ययापदेशसिद्धसाधनानां मूले निहितः कुठारः। सत्पक्षे प्रसरः प्रकर्षेण सरणं व्याप्या वृत्तिर्यस्येति भागतोऽपि स्वरूपासिद्धेरुद्धारः । कुसुमाञ्जलिस्तु सन् शोभनः पक्षप्रसरः पत्रविकासो यस्येति स तथोक्तः । सतामन्वयव्यतिरेकविदामागमावगततत्त्वानां वा परिमलः परिशीलनं भूयो- दर्शनमिति यावत्, तज्जनितः प्रोद्वोधः भूयोदर्शने साहायकमाचरताऽनुकूलतर्केण निरस्तनिखिलो- पाधिशङ्कंव्याप्तिज्ञानं, तत्र बद्ध उत्सवोऽपेक्षा येन स तथोक्तः गृहीतव्याप्तिक इति यावत् । यद्वा तेन प्रोद्बोधेन स्वस्मिन् बद्धोत्सवः बद्धापेक्षः अनुमित्सतां गृहीतव्याप्तिकत्वादपेक्षणीय इत्यर्थः । अथवा सामान्यव्याप्तिमत्तया परिशीलनस्य प्रोद्बोधो विशेषे पर्यवसानं, तेन बद्धः स्थिरीकृतः उत्सवः पर- प्रकाशः । अपि ज्ञानमयः स्थाणुर्यस्तमीशं स्तुवीमहि ॥ १ ॥ यतः प्रकाशते ज्योतिरपि वाचामगोचरः । कायेन मनसा वाचा परां वाचं नमाम्यिताम् ॥ २ ॥ न्यायाम्भोजपतङ्गाय मीमांसापारदृश्वने । गङ्गेश्वराय गुरवे पित्रेऽत्रभवते नमः ॥ ३ ॥ सदाचारानुमितश्रुतिबोधितकर्त्तव्यताकं प्रारिप्सितप्रतिवन्धकविघ्नविघातकमिष्टदेवताकीर्त्तनरूपं सच्छब्दप्रयोगरूपञ्च मङ्गलमाचरन्नेव प्रयोजनाभिधेयसम्बन्धानाह । सत्पक्षेति : एषोऽनघो = प्रकाशिका । दहन्नपि कामद् इति विरोधद्योतनायापिः । ज्ञानमय इत्यभिव्याप्तौ मयट् , यथा जलमयो देश इत्यत्र, व्याप्तिश्च देशकालाभ्याम्, इदञ्चेशस्येश्वराभिन्नत्वपक्षे, अन्यथा शिवस्य संसारित्वेनानुपत्तेः। स्थाणुः=शिवः, स्थाणुर्दारुविशेषोऽपि ज्ञानमय इति विरोधद्योतनायापिः, स्तुवीमहीति । मकरन्दः । प्रत्ययाद्वा । स्थाणुः = स्थिरः, अथ च स्थाणोर्दारुविशेषस्य ज्ञानसम्बन्धो विरुद्ध इति विरोधा- भासः । यद्यपि वृक्षदेरपि चेतनत्वं, तथापि दारुविशेषे न तथात्वम् । यद्वा ज्ञानमय इत्यभि- व्याप्तौ मयट् , भगवज्ज्ञानस्य व्याप्यवृत्तत्वादिति विरोधाभासः ॥ टिप्पणी । दहन्नपीति । रोषतोषयोः समानकालिकयोस्तात्त्विक एव विरोधः काम्यकन्दर्पयोरेकशब्दप्रति- पाद्यत्वेन तद्दाननाशकत्वयोरारोपितो विरोधः शतृप्रत्ययेन सहापिना द्योत्यते, तेन च महिमातिशयो व्यज्यते। इदञ्च विग्रहविशेषपक्षे । ईशस्येश्वराभिन्नत्वपक्षे त्वाह । अपीति । मयटोऽभिव्याप्त्यर्थ- कत्वम्, व्याप्तिर्देशकालाभ्याम् तथा च विग्रहविशेषपक्षे तदभाव इति भावः। अनघो वाक्यदोष