न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 33, कुल 608 में से
संदर्भ में पढ़ेंस्तवकः १ ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते ३ बोधनी। -मात्मोपासनेच्छा येनेति। एतदुक्तं भवति आगमावगते परमात्मनि व्याप्तिवशेन भूयस्तत्संवादिप्र- मित्युत्पादनेन तदुपासने श्रद्धां निश्चलामावद्वानिति। अनेन स्वरूपतो ज्ञानतश्च व्याप्त्यासिद्ध्यैः प्रकाशः। वाक्यदोषरहितः, विपया(१)शुद्धेः पूर्वार्द्धेनैव निरासात्। नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति प्रकाशिका। नतिवत् स्तुतेरपि मङ्गलत्वमिति भावः। अघशब्दस्य पापवाचकत्वेन प्रकृतासङ्गतिरत आह— वाक्यदोषरहित इति। तथापि दोषसामान्यपरतैव किन्नेत्यत आह—विपयेति। तथाच तेन समं पौनरुक्त्यं मा भूदिति विशेषपरतेति भावः। न चैवमनघत्वमित्यग्रिमग्रन्थविरोध इति वाच्यम्। तस्य पूर्वोक्तमनघत्वन्नार्थः, किन्तु दोषसामान्याभाव एव, तथा च श्लोकस्थानघशब्देन वाक्य- दोषाभावे पूर्वार्द्धेन चार्थदोषाभावे लब्धे भवति सामान्याभावलाभ इति तदर्थात्, अत एव तन्त्रोक्त- मुपपादयन्निति न तूपपादयितुमिति। केचित्तु वाक्यपदं सम्पातायातं, कथं दोषसामान्याभावलाभ इत्यपेक्षायां विपयाशुद्धेरिति फक्किका। न चैवमपि शाब्ददोषाभावालाभादयुक्तता, न्यायप- देन नीयंत इति व्युत्पत्त्या बोधकमात्रपरेण तल्लाभादिति न पूर्वोत्तरग्रन्थविरोधश्चेति वदन्ति। न्यायपदस्यानुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यपरतायां पौनरुक्त्यमनघ- पदेन समं शब्दतोऽर्थतो वा स्यादत आह नीयत इति। तथाच योगार्थ एव न्यायपदेन विवक्षितो मकरन्दः। अनघत्वमपापत्वमत्राप्रकृतमित्यत आह। वाक्यदोषेति, वाक्येति स्वरूपनिर्वचनम्। तथाच दोषराहित्यमात्रमत्र विवक्षितम्। तत्र दोषो द्विविधो वाक्यस्य, अर्थगतो वाक्यगतश्च, तत्र पूर्वार्द्धश्लोकेन आद्ये निरस्तेऽपि अन्त्यस्य निरासो न लभ्यत इत्यर्थः। नन्वेवमर्थदोषनिव- न्धनदोषविशेषाभावे लब्धेऽपि तत्सामान्याभावो न लब्धः, शब्ददोषात्मकविशेषाभावस्याप्रा- प्तत्वादित्यत आह। नीयत इति। तथाच बोधकत्वेन सोऽपि सूचित इति भावः। नचैवं टिप्पणी। रहित इति। अघशब्दस्य दोषविशेषपरत्वे हेतुमाह। विपयेति। तथा च सामान्यपरत्वे पूर्वा- र्द्धेन सममनघपदस्य पौनरुक्त्यं, पूर्वार्द्धस्य प्रयोजनशून्यतापि स्यादिति भावः। न्यायपदेनानुमिति- चरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यस्य विवक्षणेऽयोग्यपार्थकनिराकाङ्क्षादिवाक्या- च्छाब्दबोधाभावात् शब्दार्थदोषशून्यत्वलाभाद् विमर्द्दन इत्यन्तेनानघपदेन च पौनरुक्त्यं, ग्रन्थे न्यायेतरभागस्यानिवेशप्रसङ्गश्च स्यादित्यत आह। नीयते इति। तथा च स्वार्थ- स्मृत्युत्पादितमानसद्वारेण कचिद्विवक्षितार्थसिद्धिप्रापका यथोक्तशब्दा अपि भवन्तीति तयोरुप- न्यास इति न पौनरुक्त्यम्, एवं समुदितग्रन्थस्यैव विवक्षितेतरानुमितिप्रापकत्या न्यायपदा- र्थता, तेन च तर्कपक्ष इत्याद्यग्रिमफक्किकाया अपि नासङ्गतिः। अन्यथा पञ्चावयववाक्यरूपस्य तर्काप्रतिपादकत्वेन सा स्यात्। एवं यथोक्तन्यायस्य शब्दाप्रतिपादकत्वेन पदयुगस्य शब्दानुमा- नद्वयपरत्वे बाधितार्थत्वेन तत्र ग्रन्थविरोधलिङ्गनसंयुक्तं स्यादित्यपि प्रत्युक्तम्। यद्वा समस्तस्पे- त्यादितात्पर्यविषये उचितानुपूर्वीकवाक्यपञ्चकसमुदाये न्यायपदार्थतायार्नीयत इत्यादिना योगार्थो- ऽपि प्रदर्शितः। न्यायस्य तर्कविषयत्वासम्भवमाकलख्यैवान्वयीत्यादि व्याख्यान्तरानुसरणम्। अत्र न तु शब्देत्याद्यग्रिमग्रन्थस्त्वाचार्याणां शोचनीयतामासादयतीति विभाव्यम्। विवक्षितार्थसिद्धिप्रापकत्व- (१) वाक्यजन्यशाब्दवोधविषयार्थस्य अशुद्धेः=दोषस्य बाधितत्वादेर्हेत्वाभासस्येति यावत्।