भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 317, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 317

Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari script:

द्वितीयस्तबके ] प्रलयोपपादनम् । २८३ पाधिनिबन्धनत्वात्तस्य तदभाव एव व्यावृत्तौ को दोषः । न च तदनुत्पन्नमनश्वरं वा अवयवित्वात् ॥ वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः । न ह्यनियतविपाकसमयानि कर्मा- बोधनी । निमित्तभूता या ब्रह्माण्डस्थितिः सा स्वरूपमात्मा यस्य कालोपाधेः स एव निबन्धनमनन्तराहोरा- त्रपूर्वक्त्वस्य; तन्मात्सर्गादौ तस्योपाधेरभावे साध्यव्यावृत्तिर्नानुपपन्नेति । ननु ब्रह्माण्डस्य सर्व- दावस्थानात् कथं च तदभावः तत्राह-न चेति । तत् ब्रह्माण्डमुत्पन्नं विनश्वरं च सावयवत्वादिति। अथ द्वितीयं पादं व्याचष्टे-वृत्तिनिरोधस्यापि इति । दृष्टान्तं विभजते-न हि इति । प्रकाशः । स्वमव्यवहिताहोरात्रपूर्वकत्वव्याप्यम्, अहोरात्रवृत्तित्त्वधर्मत्वात्, एतदहोरात्रवत् । पक्षैकदेशस्यापि दृष्टान्तत्वाविरोधात् । साध्यवत्तया निश्चितत्वस्यैव तन्त्रत्वादिति वाच्यम्। अहोरात्रत्वसमानाधिकरण- त्यन्ताभावप्रतियोगित्वस्योपाधित्वात् । न च ब्रह्माण्डस्य नित्यत्वेन साधनव्यापकोऽयमुपाधिरित्याह। न चेति । वृत्तिनिरोधस्येति । यथा सुषुप्तौ विषमविपाकसमयान्यपि कर्माणि, युगपन्निरुद्धवृ- प्रकाशिका । वर्षादिनपूर्वकत्वे राशिविशेषावच्छिन्नदिवाकरदिनोत्तरत्वमुपाधिः, स च शरदाद्यदिनेऽपि वृत्तेर्न साध्याव्यापकः, वर्षाद्यदिने वृत्तेर्न साधनव्यापक इत्येव मूलतात्पर्य्यमिति भावः । अत एव राश्या- दिविशेषसंसर्गभेद उपाधिरित्युक्तं प्रकाशकृता । अहोरात्रस्याहोरात्रपूर्वकत्वे च साध्ये वत्स- राद्यनन्तरितब्रह्माण्डावच्छिन्नकालोपाध्युत्तरत्वमुपाधिरित्यवसेयम् । पक्षैकदेशस्यापीति । इद- म्बाहोशत्रमात्रवृत्तित्वधर्मत्वावच्छिन्नस्य पक्षत्वे, यथाश्रुतेऽहोरात्रत्वस्य सकलाहोरात्रवृत्तित्वधर्म- विशेषस्य पक्षतायामेतदहोरात्रस्वस्य पक्षान्यत्वादसङ्गतेः पक्षतावच्छेदकावच्छिन्नसाध्यानुमितेश्च प्रकृतोपयोगितया हेतोरेव पक्षतावच्छेदकतया व्याप्तिग्रहकाल एव सिद्धसाधनमिति निरस्तम् । अहोरात्रत्वेति । पक्षैकदेशे चाहोरात्रकत्वे साधनाव्यापकत्वमुपाधिरिति ध्येयम् । न चेति । मकरन्दः । धर्म इत्यर्थः । तेन पक्षैकदेशस्यापीत्यग्रिमग्रन्थसङ्गतिः । अन्यथैतद्धर्मविशेषस्यापक्षत्वे दृष्टा न्तस्य तदेकदेशत्वाभावादसङ्गतिः स्यादिति ध्येयम् । न चैवं हेतुपक्षतावच्छेदकयोरभेदोऽशतः सिद्धसाधनश्चेति वाच्यं, तद्विशेष्यकोद्देश्यप्रतीतेरसिद्धेरिति । अहोरात्रत्वेति । अहोरात्रत्वस्य धर्मे पक्षान्तर्भूते साधनाव्यापकत्वमस्येति ध्येयम् । न चेति । न चानित्यत्वेऽपि ब्रह्माण्डस्य तत्कालीनसर्वमहोरात्रत्वरूपसाधनव्यापकमेव प्रलयकालेऽहो- रात्रानभ्युपगमादिति वाच्यम् । स्थितिकालपदेन सर्गाद्याहोरात्रव्यावृत्तस्य स्थितिकालविशेषस्योक्त- टिप्पणी । रात्रत्वेनाभिमतव्यक्तिनिष्ठतद्व्यक्तित्वे स्वाश्रयाव्यवहिताहोरात्रपूर्वकत्वस्य न्यायमते तदाश्रयेऽ सिद्धेः सिद्धसाधनाभावात् । द्वितीये च पक्षतावच्छेदकहेत्वोरैक्येन व्याप्तिग्रहकाले सिद्ध- साधनप्रसङ्गादिति भावः । अहोरात्रत्वसमानाधिकरणेत्यादि । अहोरात्रवृत्तित्वधर्मत्वरू- पो हेतुर्न साध्यप्रयोजकः, तस्य परिदृश्यमाननिर्विवान्साध्यवदिदानीन्तनाहोरात्रत्व इव साध्यवत्तया सन्दिग्धेऽहोरात्रत्वेऽपि निश्चितत्वात्, किन्तूक्तप्रतियोगित्वमेव, तस्य साध्यवत्तया निश्चितेष्वेव तत्तदहोरात्रत्वेषु सत्त्वादिति इदम्बाद्यहोरात्रत्वे साधनाव्यापक उपाधिरिति यथाश्रुताभिप्रायः। न च भ्रमान्तस्येत्याद्यग्रिमग्रन्थविरोधः स्यात् । नित्यानित्यत्वेऽप्युभयथैवाहोरात्रत्वे साधनव्यापकत्वस्यो- पाधेः सत्त्वादिति वाच्यम्। स्वपदार्थघटितोक्तसाध्यस्याहोरात्रत्वसत्त्वादौ निश्चयेन तत्रोपाधेर- सम्भवात् साध्याव्यापकत्वाद् ब्रह्माण्डान्तःस्थितिकालीनवृत्तित्वस्योपाधितया विवक्षणीयत्वात् ।