भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 318, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 318

३८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्या शीति तदानीं कृत्स्नान्येव भोगविमुखानि । न ह्यचेतयतः कश्चिद्भोगो नाम । विरो- धात् । कस्तर्हि तदानीं शरीरस्योपयोगः ? । तं प्रति न कश्चित् । तर्हि किमर्थमनु- वर्त्तते । उत्तरभोगार्थं, चक्षुरादिवत् । प्राणिति किमर्थम् । श्वासप्रश्वाससन्ताने- नायुषोऽवस्थाभेदार्थम्, तेन भोगविशेषसिद्धेः । एकस्यैव तत् कथञ्चिदुपपद्यते, न- तु विश्वस्येति चेत् । अनन्ततया, अनियतविपाकसमयतया, उपमर्द्योपमर्दकस्वभा- वतया च कर्मणां, विश्वस्यैकस्य वा को विशेषो येन तन्न भवेत् । भवति च सर्व- स्यैव सुषुवापः । क्रमेण, न तु युगपदिति चेन्न । कारणक्रमायत्तत्वात् कार्यक्रमस्य । न च स्वहेतुबलायातः कारणैः क्रमेणैव भवितव्यम्, अनियतत्वादेव । सर्वग्रास- वत् । ग्रहाणां ह्यन्यदा समागमनियमेऽपि तथा कदाचित् स्यात् । यथा फलाद्यनि- बोधनी । अनियतविपाकसमयानीत्येतावता सुषुप्तिदशायां कृत्स्नान्यपि भोगाविमुखानि न हि भवन्ति, किंतु भोगविमुखान्येव । सुषुप्तस्य भोगोत्पादः किमिति न स्यात् अत्राह- न हि इति । अचैतन्यं सुषुप्तिमूर्च्छादिः, भोगश्च सुखानुभवः । तत्र यदि सुषुप्तस्य भोगः स्यात् तदाऽस्त्यनुभवो नास्ति चेति विरोधः स्यादिति । यदि तदा न भोगः कश्चित्तर्हि भोगसाधनस्य शरीरस्य कोपयोग इत्याह- कस्तर्हि इति । गूढाभिसन्धिराह- तं प्रति इति । तं = सुषुप्तमिति । अज्ञातपराभिसन्धिः पृच्छति- किमर्थम् इति । स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह- उत्तरं इति । यथा हि ज्ञानजननार्थानि चक्षुरादीनि तदानीं ज्ञानमनुत्पादयन्त्यपि जाग्रद्दशायां तदुत्पादनायानुवर्त्तन्ते तथा शरीरमप्युत्तर- भोगायेति । कस्तर्हि उत्तरकालं यावत्तावदवस्थितस्य प्राणनस्य तदानीमुपयोग इत्याह-प्राणिति इति । प्राणनं नाम = शरीरान्तर्वर्त्तिनो वायोर्गतिविशेष इति । श्वास इति । प्राणाख्यस्य वायोः कालावच्छेदेन संबन्ध आयुरिति । अवस्थाभेदो वा किमर्थ इत्याह-तेन इति । अस्मिन्नवस्था- भेदे असौ भोगोऽस्मिंस्त्वयमित्यवस्थाभेदेषु भोगविशेषाः प्राणिनां नियताः, ततस्तत्सिद्धयर्थोऽव- स्थाभेद इति । नन्वस्त्वेकस्यात्मनः कर्मणां युगपद्वृत्तिनिरोधः, न तु विश्वस्यात्मवर्गस्य, न ह्यनन्तानां भोक्तॄणामनन्तानि कर्माणि युगपन्निरोत्स्यन्त इति संभवतीत्याह-एकस्यैवेति । अनन्त इति । अनन्तत्वादीनि हि कर्मणां युगपन्निरोधविरोधीनि; तानि च कर्मणामेकत्वानेक- त्वयोरविशिष्टानि । तत्र यद्येकस्य सुषुप्तिदशायां तथाभूतानामेव कर्मणां युगपन्निरोधः संभवति । किमिति विश्वस्यायं न संभवेदिति । किंच, सुषुप्तिरपि सर्वस्य भवति न त्वेकस्यैवेत्याह-भवति च इति । तेन कर्मणामेकानेकत्वकृतो विशेषो नास्तीति । ननु सत्यमस्ति सर्वस्यापि सुस्वापः, स तु क्रमेण न युगपदित्याह-क्रमेण इति । ततश्च न तन्निदर्शनेन युगपत्प्रलयः सिध्यतीति भावः । न इति । सुषुप्तेः कारणक्रमवशात् क्रमः, न युगपन्निरोधविरोधादिति । ननु सुषुप्तेरिव प्रलयस्यापि कारणानि क्रमेण भवन्ति दृश्यन्ते, तद्वत्सर्वदापि किमिति न भवन्तीत्यत्राह- न च इति । न हि क्वचित्कदाचिद्वा क्रमभावीनि कारणानीति सर्वत्र सर्वदा वा तैस्तथा भवितव्यं स्वहेतूनां क्रमयौग- पद्यवशेन संभवत्क्रमयौगपद्यानां कारणानामनियतत्वात् क्रमस्येति । एकदा क्रमभाविनामेवा- न्यदा यौगपद्यं दृष्टमित्याह-सर्वग्रासवत् इति । तदेव विभजते-ग्रहाणामिति । अत्रैव दृष्टा- प्रकाशः । न्तीनि प्रतिवद्धभोगजननानि, तद्वत्तदाऽपीत्यर्थः । आयुष इति । जीवनस्य कालावच्छेद आयुस्त- दर्थमित्यर्थः । उपमर्द्येति । प्रतिवद्ध्यप्रतिबन्धकस्वभावतयेत्यर्थः । सुसुवाप इति युक्तः पाठः । प्रकाशिका । न चानित्यत्वेऽपि ब्रह्माण्डस्य तत्कालींनत्वं साधनाब्यापकमैव, प्रलयेऽहोरात्रानभ्युपगमादिति वाच्यम् । विवक्षितोपाधेराद्याहोरात्रे साधनाब्यापकत्वात् । स्वापसन्तानजनककर्मणामनिरुद्ध-