न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 328, कुल 608 में से
संदर्भ में पढ़ें२६४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ ३ कारिकां व्याख्यायां स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् । स्वातन्त्र्येण स्मृतीनामा- चारस्य च प्रामाण्यानभ्युपगमात् । मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभा- वात् । आचारात् स्मृतिः स्मृतेश्चाचार इत्यनादिताऽभ्युपगमे अन्धपरम्पराप्र- सङ्गात् । आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् । बोधनी । र्शनादिति, बीजाङ्कुरन्यायेनानादित्वेन स्मृत्याचारयोः प्रामाण्यसिद्धेः किं शब्दानुमानेनेत्याश- ङ्कयाह-आचारात् इति । अन्धानां मुग्धरूपस्मरणतुल्यताप्रसङ्गात् । यथा हि तद् रूपनिर्णयसा- पेक्षं तथा धर्मनिर्णये स्मृत्याचारः स्मृतेरनुभवापेक्षत्वादाचारस्य प्रमेयत्वेन प्रमाणापेक्षत्वात्, अत- स्तयोरेवान्योन्यमूलत्वाभ्युपगमेऽन्धवाक्यपरम्परापङ्क्तितुल्यता प्रसज्यत इति । तर्हि तयोर्वेदमेव मूल- मनुमास्यामः स तु वेदो मन्वादीनां प्रत्यक्षः इदानीमुच्छिन्न इति नाभ्युपगच्छामः, किन्तु तैरपि पूर्वस्मृत्यादिना तैरपि पूर्वतमस्मृत्यादिना, ततश्च सर्वेषां नित्यानुमेयस्यैव वेदस्य मूलत्वान्न शाखो- च्छेदः, नाप्यन्धपरंपराप्रसक्तिरिति प्राभाकरस्तन्नाह — आसंसारम् इति । यदि सर्वैरप्यनाम्नातः प्रकाशः । अक्लृप्तमूलान्तरत्वे सति महाजनपरिगृहीतस्मृतित्वात् , प्रत्यक्षवेदमूलस्मृतिवत् । अतो न न्याया- दिमूलकस्मृतौ व्यभिचारः । तथा, मङ्गलाचारो वेदबोधितः, अलौकिकविषयाविगीतशिष्टाचार- त्वात् यागवदिति स्मृत्याचारमूलस्य वेदस्याप्रत्यक्षत्वात् तदुच्छेदे तदध्यीयमानवेदस्याप्युच्छेदो भावीत्याह । स्मृतीति । ननु, वेदवत् स्मृत्याचारयोरदृष्टे स्वतः प्रामाण्यमेवेति न तन्मूलकवे- दानुमानमित्यत आह । स्वातन्त्र्येणेति । वेदनिरपेक्ष्येण स्मृत्यादेस्त्वयाऽपि प्रामाण्यानभ्युपगमा- दित्यर्थः । ननु स्मृतिकर्त्तारः स्वयमेवापूर्वं साक्षात्कृत्य तत्साधनमुपदेक्ष्यन्तीति न तेषां तदर्थं वेदापेक्षेत्यत आह । मन्वादीनामिति । अतीन्द्रियार्थदर्शित्वे तेषामनाश्वासादिति भावः । ननु भूयः शिष्टाचारदर्शनात् स्मृतिप्रणयनम् , ततः पुनःरिदानीं शिष्टाचारपरम्परा स्यादिति किं तन्मू- लवेदानुमानेनेत्यत आह । आचारादिति । उभयोरप्यनुमानमूलकत्वेनाव्यवस्थापकत्वात् तादृश- स्मृत्याचारयोर्वेदमूलकत्वव्याप्तिस्तव देशनाया एव धर्मे मानत्वाच्च तयोरमानकत्वापातादित्यर्थः । ननु नित्यानुमेयो वेदस्तन्मूलं स्यादतो न शाखोच्छेद इत्यत आह । आसंसारमिति । अनाम्ना- प्रकाशिका । अक्लृप्तेति । न्यायमूलकत्वे सत्यन्तार्थः । लोभमूलकस्मृतौ व्यभिचार इति महाज- नपरिगृहीतेति । प्रत्यक्षमूलकवाक्ये व्यभिचार इति स्मृतीति । स्मृतित्वञ्चादृष्टज्ञा- पकवाक्यत्वम् । अतो न ऋषिप्रणीतदृष्टान्तार्थकवाक्ये व्यभिचारः । नन्वनुमानमपि स्वतः प्रमाणमेवेति कथं तन्मूलकत्वे नाश्वास इत्यरुचेराह । तादृशस्मृत्याचारयोरिति । ननु तत्रापि व्याप्तावसम्भवन्मूलान्तरत्वमुपाधिरित्यरुचेराह-तव देशनाया इति । मीमांसकस्ये- मकरन्दः । वारणार्थम् । ताद्रूप्यसिद्धयेऽनुभावकान्तम् । न्यायादिमूलकस्मृतौ व्यभिचारवारणाय अक्लृ- प्तेति । असम्भवन्मूलान्तरत्वे सतीत्यर्थः । ननु महाजनपरिगृहीतपदं व्यर्थमिति चेत् । सत्यम् । भ्रम एवात्र मूलमित्यसिद्धिशङ्कानिरासाय तदुपादानात् न तु हेतुविशेषणत्वे तात्पर्य्यमित्येके । लोभादिभिन्नन्यायादिमूलकत्वाभावमात्रे सत्यन्ततात्पर्य्यम् । एवं च लोभादिमूलकस्मृताविव व्यभि- चारवारणाय तदित्यन्ये । लोभस्य वस्तुगत्या मूलत्वाभावान्मूलपदस्य प्रामाणिकमूलपरत्वाद्वा सत्यन्तेन लोभमूलकस्मृतौ व्यभिचारवारणाय तदुपादानमित्याहुः । अलौकिकेति । एतच्च द्रव्यप्रकाशे व्याख्यातम् । नन्वनुमानमूलकत्वेऽपि नान्धपरम्परा न हि प्रत्यक्षमात्रं प्रमाणमित्या- शयादाह तादृशेति । नन्वत्राप्यसम्भवन्मूलान्तरत्वमन्यथा न्यायादिमूलकस्मृतावपि तथात्वा- पत्तिरित्यनुशयादाह तवेति । मीमांसकस्येत्यर्थः । तथा च तवापसिद्धान्त इति भावः ।