न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 327, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तवके ] प्रलयोपपादनम् । २६३ पूर्वं हि मानस्यः प्रजाः सम्भवन्, ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः, ततः कामाऽवर्जनीयसन्निधिजन्मानः, इदानीं देशकालाद्यव्यवस्थया पशुधर्मादेव भूयिष्ठाः । पूर्वं चरुप्रभृतिषु संस्काराः समाधायिषत, ततः क्षेत्रप्रभृतिषु, ततो गर्भादितः इदानीन्तु जातेषु लौकिकव्यवहारमाश्रित्य । पूर्वं सहस्रशाखः समस्तो वेदोऽध्यगायि, ततो व्यस्तः, ततः षडङ्ग एकः, इदानीन्तु क्वचिदेका शाखेति । पूर्वम् ऋतवृत्तयो ब्राह्मणाः प्रायोऽतिष्ठन्, ततोऽमृतवृत्तयः, संप्रति मृतप्रमृत- सत्यानृतकुसीदपाशुपाल्यश्ववृत्तयो भूयांसः । पूर्वं दुःखेन ब्राह्मणैरतिथयोऽलभ्यन्त, ततः क्षत्रियातिथयोऽपि संवृत्ताः, ततो वैश्यावेशिनोऽपि, संप्रति शूद्रान्नभोजिनोऽपि । पूर्वममृतभुजः, ततो विघसभुजः, ततोऽन्नभुजः, संप्रत्यघभुज एव । पूर्वं चतुष्पाद् धर्म आसीत्, ततस्तनूयमाने तपसि त्रिपात्, ततो म्लायति ज्ञाने द्विपात्, संप्रति जीर्यति यज्ञे दानैकपात्, सोऽपि पादो दुरागतादिविपादिकाशत- दुःस्थोऽश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यत- या इतस्ततः स्खलन्निवोपलभ्यते । इदानीमिव सर्वत्र दृष्टानाधिकमिष्यते इति चेन्न । बोधनी । जन्मनो ह्रासं व्याचष्टे-पूर्वं हिः इति । पूर्वं श्रुतयः स्मृत्तिदर्शनात्तत्स्मृतयश्च पूर्वतमविशिष्टाचारद- प्रकाशः । वेदह्रासे दृष्टान्तार्थं जन्मादिह्रास उक्तः । प्रतियुगं क्रमेण ह्रासमाह । पूर्वे हीति । समाधायिषत सम्यगाहिता इत्यर्थः । श्रूयमाणा अपि वेदा उच्छेत्स्यन्ति, वाक्यत्वात् , उच्छि- न्नशाखावदिति भावः । ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्ष्यं प्रमृतं कर्षणं स्मृतम् ॥ सत्यानृतं तु वाणिज्यं कुसीदञ्च फलान्तरम् ॥ पाशुपाल्यं = गोरक्षादि । श्ववृत्तिः = सेवा । वैश्यावेशिनो = वैश्याऽतिथयः । अमृत- भुजो = यज्ञशेषभुजः । विघशभुजो = अतिथिशेषभुजः । अन्नभुजो = भृत्यशेषभुजः । अघ- भुजः = स्वार्थसाधितभुजः । चतुष्पादिति । तपोज्ञानयज्ञदानानि चत्वारः पादाः । दुरागतं= दुष्टादुपायद् द्यूतादेरागतम् , तदेव विपादिका = पादरोगः । ननु न शाखोच्छेदः, किन्तु यावान् वेद इदानीमधीयते तावानेव सदाऽध्ययनविषय इति वेदह्रासोऽसिद्ध इत्याह । इदानीमिति । विवादपदं स्मृतिः, स्मृत्यर्थानुभावकवेदमूला प्रकाशिका । मूले पूर्वं सहस्रशाखा इत्यादिना विद्याह्रासे कथ्यमाने शक्तिस्वाध्याययोरपि ह्रास उक्त एवेतिन तयोरदाहरणान्तरं पूर्वमृतवृत्तय इत्यादि किन्तु कारिकास्थाऽऽदिपदसंग्राह्यकथनम्, पूर्वं चतुष्पादित्यादिना कर्म्मह्रास उक्त इति बोध्यम् । विवादपदमिति । प्रत्यक्षवेदाऽमूलाऽदृष्टा- चेत्यर्थः । लोभमूलकस्मृतेस्तु स्मृतिपदेनैव वारणम् , स्मृतिपदस्य ऋषिप्राणीतवाक्यपरत्वात् । वेद- मूलत्वं वेदजन्यानुभवजन्यत्वमदृष्टद्वारा वेदजन्यानुभवजन्यत्वासिद्धिशङ्कानिरासाय स्मृत्यर्थानु- भावकेति साध्यविशेषणम् । मकरन्दः । विवादपदमिति । एतच्च प्रत्यक्षवेदमूलस्मृत्यंशे लोभादिमूलकस्मृत्यंशे च सिद्धसाधनत्राघादि- टिप्पणी । ऋतमुञ्छशिलमिति । "उञ्छः कणश आदानं कणिशायर्जनं शिलम्” कपिशं= शस्यमञ्जरी । इति धर्मदत्तोपाध्याय ( प्रसिद्ध बच्चाझा ) कृतकुसुमाञ्जलिप्रकाशद्वितीयस्तवकटिप्पणी समाप्ता ॥