न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 326, कुल 608 में से
संदर्भ में पढ़ें२६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः, यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः । न च कार्यस्य स्थितिनिबन्धनं नित्यमेव । नित्यस्थितिप्रसङ्गात् । न च नित्य एव हेतुः, अकादाचित्कत्वप्रसङ्गात् । तदतिनिस्तरङ्गमेतत् । ईदृश्याञ्च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पा- दनीय इति द्व्यणुकवत् पिपीलिकाण्डादेर्ब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गति- रिति प्रतिबन्धसिद्धिः । तथा च ब्रह्माण्डे परमाणुसाङ्ख्वितरि परमाणुषु च स्वत- न्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्त्तन्ताम् ? कुपितकपिकपोलान्त- र्गतोदुम्बरमशकसमूहवद्, दवदहनदह्यमानदारूदरविधूर्ण्णमानघुणसङ्घातवत्, प्रलय- पवनोल्लासन्तौर्वावानलनिपातिपोतसांयात्रिकसार्थवद्वेति ॥ २ ॥ अपि च— जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्म्मणोः ॥ ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥ ३ ॥ बोधनी । अस्त्वेवं, तथापि कार्यस्थितिनिबन्धनमुत्पत्तिहेतुश्च किमिति सर्वदा न स्यातामित्यत्राह—न च इति । निरस्तः प्रवाहोऽनादिमानित्यत्रेति । यदि कार्योत्पत्तिविनाशयोर्भोगविशेषोऽप्रयोजकः तर्हि भोगार्थः कर्मभिः सर्व्वषामुत्पाद इति सिद्धान्तो व्याकुप्येतेत्यत्राह—ईदृश्याम् इति । इयं तावदर्थस्यितिनं च तत्र सिद्धान्तहानिः । कर्माण्येव वस्तुस्थितिमनतिक्रामन्ति तद्भोगसमर्थवस्तुत्पादनद्वारेण भोगविशेषं सम्पादयन्ति, तेन येषां वस्तूनामुच्छेदस्वभावो न तेषामनुच्छिन्नानां भोगसाधनत्वम् , अन्यथा नानापुरुषाहृष्टोत्पादि- तस्य कस्यैव पटस्य परःसहस्रं वत्सरानवस्थितस्य क्रमेण भोगसाधनत्वप्रसङ्ग इति भावः । तस्मा- द्यथा द्व्यणुकेषु भोगाभावेऽपि स्थितिनिबन्धनहेत्वोरपगमोपगमाभ्यामेव विना शोत्पत्ती तथैव विश्व- स्यापि कार्यस्य ते भविष्यत इत्याह-इति द्व्यणुकवत् इति । एवं विपक्षे बाधक सद्भावात्सृष्टिप्र- लयानुमानयोः सिद्धः प्रतिबन्ध इत्याह-इति इति । तदेवमापरमाणोर्ब्रह्माण्डस्य विनाशसिद्धौ कैव कथा तदन्तर्वर्त्तिनः कार्यस्येत्याह—तथा च इति । तदन्तर्वर्त्तिभिः सह विनश्यतीत्यत्र निदर्श- नान्याह-कपिकपोल इति ॥ २ ॥ न केवलमनुमानं दर्शनं च प्रलयसद्भावानुगुणमित्याह—अपि च इति । जन्मादेर्ह्रासदर्श- नात्स्वाध्यायाध्ययने कर्मणोऽनुष्ठाने पुरुषाणां शक्तेश्च ह्रासदर्शनात् संप्रदायस्य ह्रासोऽवगम्यत इति । प्रकाशः । ईदृश्यामिति । अनित्यहेतुनिबन्धनायां कार्यस्थितौ कर्मभिः संपादनीयो भोग एवमेव वस्तुस्वभावानतिक्रमणेति योजना । नन्वेवमपि ब्रह्माण्डनाशसिद्धौ गिरिसागरादीनां कुतः प्रलय इत्यत आह । तथा चेति । क्व वर्त्तन्तामिति । विनश्यन्तीत्यर्थः । महाद्रव्यान्तरेण निहन्यमा- नाधारत्वाद्, महादहनदह्यमानाश्रयत्वाद्, महापवनक्षुभितसमुद्रविलीयमानाश्रयत्वादित्यत्र हेतु- त्रये क्रमेण दृष्टान्तत्रयमाह कुपितेति । एतेनाधाराभावात् पतन्त एव सन्तीत्यपास्तम् ॥२॥ एवं सर्वस्य नाशे अर्थाद् वेदोऽपि नश्यतीत्युपपाद्य वेदह्रासदर्शनेनापि तन्नाशोऽनुमेय इत्याह । अपि चेति । प्रकाशिका । भोगस्य कर्मसंपादनीयत्वं मीमांसकोऽपि स्वीकरोत्येवेति तदभिधानमनर्थकमित आह— कर्मभिरित्यादि ॥ २ ॥ टिप्पणी । षात्कालाबोधकत्वादिति । तत्तात्पर्यवत्त्वानिश्चयेत्यादि ॥२॥