न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 325, कुल 608 में से
संदर्भ में पढ़ें[द्वितीयस्तबके] प्रलयोपपादनम् । २६१ दितसजातीयसन्तानान्तराः, नित्यत्त्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्या- दि । अवयवानामावापोद्वापादुत्पत्तिविनाशौ च स्यातां, सन्तानाऽविच्छेदश्चेति को विरोध इति चेन्न । एवं तर्हि घटादिसन्तानाविच्छेदोऽपि स्यात्, विपर्ययस्तु दृश्य- ते । कर्त्रादिभोगविशेषसम्पादनप्रयुक्तोऽसाविति चेन्न । द्व्यणुकेषु तदभावात् । तथा च तदवयवानामपगमाभावेऽनादित्वप्रसङ्गे द्व्यणुकत्वव्याघातः । तस्माद् यत्कार्यं बोधनी । नित्यत्वे सति इति । पूर्वत्राप्यर्थतः प्रलयः सिध्यति, अत्रापि सर्ग इति द्रष्टव्यम् । अनुमानयो- र्विपक्षे बाधकं पृच्छति-अवयवानाम् इति । यथा ह्ययतवे तन्त्ववयवानां संयोगविभागाभ्यामेव पटादेरुत्पत्तिविनाशौ संतानानुच्छेदेन दृश्येते तथैव सर्वदापि तौ स्यातां, किमत्र बाधकमिति । एवं तर्हि इति । यदि संतानानुच्छेदः स्यात् तर्ह्यवयवावापोद्धारलक्षणो विनाशोऽपि न स्यात्, दृश्यते चासाविति । कन्थादि इति । न संतानत्वप्रयुक्तः पटादेर्विनाशः, किन्तु विनष्टपटावयवार- ब्धकन्थादिद्वारभोगविशेषप्रयुक्त इति । कर्त्रादिभोगविशेषेति पाठे त्वयमर्थः-पटादेः कर्तॄणां कुविन्दादीनां पटाद्युत्पादनद्वारेण ये भोगास्तेषां तद्विनाशमन्तरेणानुपपत्तेस्तत्प्रयुक्तो विनाश इति । द्व्यणुकेषु इति । द्व्यणुकेषु तस्य भोगविशेषस्य विनष्टद्व्यणुकावयवद्वारस्य द्व्यणुकोत्पादनद्वारस्य वा न संभव इति । ततः किमित्यत्राह-तथा च इति । तस्माद्द्भोगविशेषस्याप्रयोजकत्वात्कार्यस्योत्प- त्तिविनाशयोः समवायिकारणसंयोगविभागावेव निवन्धनमङ्गीकर्तव्यमित्याह-तस्मात् इति । प्रकाशः । सिद्धिः । तदारम्भकत्वं तन्तुभिः पूर्वमनुत्पादितपटैरनैकान्तिकमित्यत उक्तम् । नित्यत्वे सतीति । नित्यत्वमात्रन्तु व्योमादिभिरनैकान्तिकमिति तदारम्भकत्वादित्युक्तम् । प्रदीपपरमाणूनां तैजसद्रव्य- त्वेन संसर्गिद्रव्यतयाऽऽरब्धतेजोजातीयत्वसिद्धौ दृष्टान्तत्वम् । न चाप्रयोजकत्वम् । निरुपाधिमङ्ग- प्रसङ्गस्य विपक्षबाधकत्वात् । न त्वागमो विपक्षबाधकः । तस्य कार्यद्रव्यानाधारकालावोधकत्वात् । सन्तानाविच्छेदेऽपि उत्पत्तिविनाशयोरन्ययोपपत्तिरित्याह । अवयवानामिति । आवापोद्वापौ उपगमापगमौ । यदि नैवं कार्यद्रव्यस्यात्यन्तमुच्छेदस्तदाऽभिमतघटायुच्छेदोऽपि न स्यादित्याह । एवं हीति । विपर्ययस्त्विति । अत्यन्तोच्छेद इत्यर्थः । ननु न सन्तानप्रयुक्तोऽस्यन्तोच्छेदः, किन्त्वन्योपाधिप्रयुक्त इत्याह । कर्त्रादीति । उपाधेः साध्याव्यापकत्वमाह । द्व्यणुकेष्विति । तदभावाद्भोगविशेषसम्पादकत्वस्योपाधेरभावादित्यर्थः । न च तत्राप्यत्यन्तानुच्छेदेऽपि अवयवा- नामावापोद्वापाभ्यामेवोत्पादविनाशसम्भवः । तयोरप्राभावादित्याह । तथा चेति । नाशस्य भोग- विशेषसम्पादनप्रयोजकत्वे द्व्यणुकनाशो न स्यात् । तेन भोगाजननात् । तथा च विनाशिभाव स्यादनुत्पन्नत्वेन नित्यतया द्व्यणुकत्वव्याघात इति सन्तानत्वस्यात्यन्तोच्छेदेन स्वाभाविकः सम्ब- न्धो मन्तव्य इत्यर्थः । सन्तानस्यावस्थानमहेतुकं नित्यहेतुकं वा यदि स्यात्तदा सन्तानाविच्छेदः स्यादित्याह । तस्मादिति । यद्धेतुकमिति दृष्टान्तार्थम् । एतत्=कार्यं यन्निबन्धनस्थितीत्यादिकम् । प्रकाशिका । दोपादानम् । तस्येति । कार्यद्रव्यानधिकरणत्वेन तत्कालाबोधकत्वादित्यर्थः । किञ्चिद्भुवनाव- च्छिन्ननाशस्यैव पुराणादौ प्रतिपादनादिति भावः । अभिमतति । घटाद्यत्यन्तोच्छेदोऽपीत्यर्थः । मकरन्दः । तमादाय साध्याव्याप्तिरिति कृत्वा, वस्तुतः कर्मत्व एव साध्याव्यापकत्वम् । तस्येति । यद्यपि प्रलयवोधकागमसत्त्वादिदमयुक्तं, तथापि तदनाधारत्वेन तत्कालाबोधकत्वादित्यर्थादित्याहुः । अभिमतति । घटात्यन्तोच्छेदोऽपीत्यर्थः ॥ २ ॥ टिप्पणी । तत्र सत्त्वाद् । संसर्गिद्रव्यतयेति । भूयः संसृज्यमानस्वभावतया । तस्य कार्यद्रव्याना-