भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 324, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 324

यिभिरारब्धः। सन्तानत्वाद्वारोयसन्तानवत्। वर्त्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पा इति। प्रलयेऽपि प्रमाणमाह-वर्त्तमान इति। यदि संतानानारम्भकत्वादित्येवोच्येत द्व्यणुकादिभि र्व्यभिचारः स्यात्, न हि ते पूर्वमुत्पादितसंतानान्तराः अथ चारम्भकाः, अतस्तद्व्यवच्छेदायोक्तं- वायिभिन्नवृत्तित्वंसप्रतियोग्यवृत्तिकार्यद्रव्यत्वं, कार्यद्रव्यप्रागभावसमानकालीनारम्भकातिरिक्तकार्यद्र- व्यानधिकरणवृत्तित्वंसप्रतियोगिवृत्ति, कार्यमात्रवृत्तिधर्म्मत्वात्, शब्दत्ववत्। न चात्र विभुवृत्तित्वं वृत्तित्व मुपाधिः। अन्त्यावयविकर्मत्वे साध्याव्यापकत्वात्। वर्त्तमानेति। ब्रह्माण्डस्यागमसिद्धत्वानाश्रया- प्रागभावात्मककर्मादिसमानकालीनो द्रव्यध्वंसो महाप्रलयाव्यवहितक्षणे भवत्येवेति तमादायार्था- न्तरवारणाय द्रव्यपदम् कार्यद्रव्यपदयोस्तु विकल्पेनान्वयः कार्यपदञ्च भावकार्यपरं कार्यद्रव्यान- धिकरणत्वं कार्यद्रव्याभाववत्त्वमेवोक्तं तच्च कपालादावस्त्येवेति कपालादिकमादायार्थान्तरवारणाया- रम्भकातिरिक्तेत्यनधिकरणान्तविशेषणम्। आरम्भकपदं द्रव्यसमवायिकारणपरमतो न दृष्टान्ते- साध्यवैकल्यम्। कार्येति। अनन्तत्वे व्यभिचारवारणाय इति। मात्रेति। न चैवमपि ध्वंसत्वे व्यभिचारः, भाववृत्तित्वे सतीति विशेषात्। नन्वेवमपि चरमक्रियात्वे व्यभिचारः, न च प्राग्भा- वसमानकालीनकार्यमात्रवृत्तित्वादिति हेतुरिति वाच्यम्। तथापि चरमस्वर्गीयघटत्वे व्यभिचा- रात्। न च तादृशध्वंसप्रतियोगिजातीयवृत्तित्वं साध्यमिति वाच्यम्। तथा सत्यनन्तत्वे तज्जातीय- व्योमादिवृत्तितया साध्यसत्त्वेन मात्रपदवैयर्थ्यापत्तेः। न च ध्वंसप्रतियोगित्वमपि जातीयविशेषण मिति वाच्यम्। तस्याप्रयोजकत्वेन व्यापकतानवच्छेदकत्वादिति। अत्र मिश्राः। मात्रपदं हेतौ कात्स्न्र्यार्थकमिति विभाजकोपाध्यवच्छिन्नयावत्कार्यवृत्तित्वा- दिति हेतुः। कार्यपदं च भावकार्यपरमिति वदन्ति। तदपि चिन्त्यम्। तथा सति पक्षे कार्यपद- स्याप्रयोजकत्वापत्तेरिति। अत्र ब्रूमः। अनादितावच्छेदकधर्म्मत्वादिति हेत्वर्थः, अनादित्वं च सजातीयध्वंसव्याप्यप्रागभावप्रतियोगित्वम्। व्याप्तिश्च कालिकीति न काप्यनुपपत्तिरिति दिक्। अन्त्येति। अन्त्यावयविनिष्ठकर्म्मवृत्तितयैव कर्म्मत्वे साध्यमित्याविष्कर्त्तुमन्त्यावयविप- न्तरवारणायारम्भकेति। द्रव्यसमवायिकारणातिरिक्त इत्यर्थः। कार्यमात्रेति। ननु ध्वंसत्वे व्य- भिचारः। न च कार्यपदं भावकार्यपरं, मात्रपदवैयर्थ्यापत्तेः। न च भाववृत्तित्वे सति कार्यमा- त्रवृत्तित्वमर्थः, तथा चानन्तत्वे व्यभिचारवारणाय मात्रपदमिति वाच्यं, तथापि चरमज्ञानत्वादौ व्यभिचारापत्तेरिति चेन्न, तादृशध्वंसप्रतियोगिजातीयवृत्तित्वस्य साध्यार्थस्य तत्रापि सत्त्वात्। न चैवमपि मात्रपदवैयर्थ्यमनन्तत्वे तज्जातीयव्योमादिवृत्तितयाऽपि साध्यसत्त्वादिति वाच्यम्। ध्वंस- प्रतियोगित्वेनापि जातीयस्य विशेषणात्। अधिकं शब्दप्रकाशे द्रष्टव्यम्। अन्त्यावयविपदोपादानं टितस्य साध्यत्वे तूपरञ्जकमेवेदम्। कार्यद्रव्यप्रागभावसमानकालीनेति। महाप्रलयेनार्थान्तरवा- रणाय कालीनान्तम्। कार्यमात्रवृत्तिधर्म्मत्वादिति। ध्वंसवृत्तितया कार्यमात्रवृत्तावनन्तत्वे व्यभिचारवारणाय मात्रपदम्, तस्याकाशादिवृत्तित्वात्। न च ध्वंसत्वे व्यभिचारस्तस्य कार्यमा- त्रवृत्तित्वादिति वाच्यम्। तद्वारणाय भाववृत्तित्वे सतीत्यस्य विशेषणीयत्वात्। मात्रपदोपादानव- लाद् वा भावकार्यवृत्तित्वे तात्पर्ष्यलाभात्। उक्तध्वंसप्रतियोगिजातीयध्वंसप्रतियोगिवृत्तित्वं साध्यं नातः सर्वमुक्तत्मकंमहाप्रलयाव्यवहितपूर्ववर्त्तित्वज्ञानत्वे व्यभिचारः, विवक्षितसाध्यस्य