न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 324, कुल 608 में से
संदर्भ में पढ़ेंयिभिरारब्धः। सन्तानत्वाद्वारोयसन्तानवत्। वर्त्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पा इति। प्रलयेऽपि प्रमाणमाह-वर्त्तमान इति। यदि संतानानारम्भकत्वादित्येवोच्येत द्व्यणुकादिभि र्व्यभिचारः स्यात्, न हि ते पूर्वमुत्पादितसंतानान्तराः अथ चारम्भकाः, अतस्तद्व्यवच्छेदायोक्तं- वायिभिन्नवृत्तित्वंसप्रतियोग्यवृत्तिकार्यद्रव्यत्वं, कार्यद्रव्यप्रागभावसमानकालीनारम्भकातिरिक्तकार्यद्र- व्यानधिकरणवृत्तित्वंसप्रतियोगिवृत्ति, कार्यमात्रवृत्तिधर्म्मत्वात्, शब्दत्ववत्। न चात्र विभुवृत्तित्वं वृत्तित्व मुपाधिः। अन्त्यावयविकर्मत्वे साध्याव्यापकत्वात्। वर्त्तमानेति। ब्रह्माण्डस्यागमसिद्धत्वानाश्रया- प्रागभावात्मककर्मादिसमानकालीनो द्रव्यध्वंसो महाप्रलयाव्यवहितक्षणे भवत्येवेति तमादायार्था- न्तरवारणाय द्रव्यपदम् कार्यद्रव्यपदयोस्तु विकल्पेनान्वयः कार्यपदञ्च भावकार्यपरं कार्यद्रव्यान- धिकरणत्वं कार्यद्रव्याभाववत्त्वमेवोक्तं तच्च कपालादावस्त्येवेति कपालादिकमादायार्थान्तरवारणाया- रम्भकातिरिक्तेत्यनधिकरणान्तविशेषणम्। आरम्भकपदं द्रव्यसमवायिकारणपरमतो न दृष्टान्ते- साध्यवैकल्यम्। कार्येति। अनन्तत्वे व्यभिचारवारणाय इति। मात्रेति। न चैवमपि ध्वंसत्वे व्यभिचारः, भाववृत्तित्वे सतीति विशेषात्। नन्वेवमपि चरमक्रियात्वे व्यभिचारः, न च प्राग्भा- वसमानकालीनकार्यमात्रवृत्तित्वादिति हेतुरिति वाच्यम्। तथापि चरमस्वर्गीयघटत्वे व्यभिचा- रात्। न च तादृशध्वंसप्रतियोगिजातीयवृत्तित्वं साध्यमिति वाच्यम्। तथा सत्यनन्तत्वे तज्जातीय- व्योमादिवृत्तितया साध्यसत्त्वेन मात्रपदवैयर्थ्यापत्तेः। न च ध्वंसप्रतियोगित्वमपि जातीयविशेषण मिति वाच्यम्। तस्याप्रयोजकत्वेन व्यापकतानवच्छेदकत्वादिति। अत्र मिश्राः। मात्रपदं हेतौ कात्स्न्र्यार्थकमिति विभाजकोपाध्यवच्छिन्नयावत्कार्यवृत्तित्वा- दिति हेतुः। कार्यपदं च भावकार्यपरमिति वदन्ति। तदपि चिन्त्यम्। तथा सति पक्षे कार्यपद- स्याप्रयोजकत्वापत्तेरिति। अत्र ब्रूमः। अनादितावच्छेदकधर्म्मत्वादिति हेत्वर्थः, अनादित्वं च सजातीयध्वंसव्याप्यप्रागभावप्रतियोगित्वम्। व्याप्तिश्च कालिकीति न काप्यनुपपत्तिरिति दिक्। अन्त्येति। अन्त्यावयविनिष्ठकर्म्मवृत्तितयैव कर्म्मत्वे साध्यमित्याविष्कर्त्तुमन्त्यावयविप- न्तरवारणायारम्भकेति। द्रव्यसमवायिकारणातिरिक्त इत्यर्थः। कार्यमात्रेति। ननु ध्वंसत्वे व्य- भिचारः। न च कार्यपदं भावकार्यपरं, मात्रपदवैयर्थ्यापत्तेः। न च भाववृत्तित्वे सति कार्यमा- त्रवृत्तित्वमर्थः, तथा चानन्तत्वे व्यभिचारवारणाय मात्रपदमिति वाच्यं, तथापि चरमज्ञानत्वादौ व्यभिचारापत्तेरिति चेन्न, तादृशध्वंसप्रतियोगिजातीयवृत्तित्वस्य साध्यार्थस्य तत्रापि सत्त्वात्। न चैवमपि मात्रपदवैयर्थ्यमनन्तत्वे तज्जातीयव्योमादिवृत्तितयाऽपि साध्यसत्त्वादिति वाच्यम्। ध्वंस- प्रतियोगित्वेनापि जातीयस्य विशेषणात्। अधिकं शब्दप्रकाशे द्रष्टव्यम्। अन्त्यावयविपदोपादानं टितस्य साध्यत्वे तूपरञ्जकमेवेदम्। कार्यद्रव्यप्रागभावसमानकालीनेति। महाप्रलयेनार्थान्तरवा- रणाय कालीनान्तम्। कार्यमात्रवृत्तिधर्म्मत्वादिति। ध्वंसवृत्तितया कार्यमात्रवृत्तावनन्तत्वे व्यभिचारवारणाय मात्रपदम्, तस्याकाशादिवृत्तित्वात्। न च ध्वंसत्वे व्यभिचारस्तस्य कार्यमा- त्रवृत्तित्वादिति वाच्यम्। तद्वारणाय भाववृत्तित्वे सतीत्यस्य विशेषणीयत्वात्। मात्रपदोपादानव- लाद् वा भावकार्यवृत्तित्वे तात्पर्ष्यलाभात्। उक्तध्वंसप्रतियोगिजातीयध्वंसप्रतियोगिवृत्तित्वं साध्यं नातः सर्वमुक्तत्मकंमहाप्रलयाव्यवहितपूर्ववर्त्तित्वज्ञानत्वे व्यभिचारः, विवक्षितसाध्यस्य