भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

यिभिरारब्धः। सन्तानत्वाद्वारोयसन्तानवत्। वर्त्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पा इति। प्रलयेऽपि प्रमाणमाह-वर्त्तमान इति। यदि संतानानारम्भकत्वादित्येवोच्येत द्व्यणुकादिभि र्व्यभिचारः स्यात्, न हि ते पूर्वमुत्पादितसंतानान्तराः अथ चारम्भकाः, अतस्तद्व्यवच्छेदायोक्तं- वायिभिन्नवृत्तित्वंसप्रतियोग्यवृत्तिकार्यद्रव्यत्वं, कार्यद्रव्यप्रागभावसमानकालीनारम्भकातिरिक्तकार्यद्र- व्यानधिकरणवृत्तित्वंसप्रतियोगिवृत्ति, कार्यमात्रवृत्तिधर्म्मत्वात्, शब्दत्ववत्। न चात्र विभुवृत्तित्वं वृत्तित्व मुपाधिः। अन्त्यावयविकर्मत्वे साध्याव्यापकत्वात्। वर्त्तमानेति। ब्रह्माण्डस्यागमसिद्धत्वानाश्रया- प्रागभावात्मककर्मादिसमानकालीनो द्रव्यध्वंसो महाप्रलयाव्यवहितक्षणे भवत्येवेति तमादायार्था- न्तरवारणाय द्रव्यपदम् कार्यद्रव्यपदयोस्तु विकल्पेनान्वयः कार्यपदञ्च भावकार्यपरं कार्यद्रव्यान- धिकरणत्वं कार्यद्रव्याभाववत्त्वमेवोक्तं तच्च कपालादावस्त्येवेति कपालादिकमादायार्थान्तरवारणाया- रम्भकातिरिक्तेत्यनधिकरणान्तविशेषणम्। आरम्भकपदं द्रव्यसमवायिकारणपरमतो न दृष्टान्ते- साध्यवैकल्यम्। कार्येति। अनन्तत्वे व्यभिचारवारणाय इति। मात्रेति। न चैवमपि ध्वंसत्वे व्यभिचारः, भाववृत्तित्वे सतीति विशेषात्। नन्वेवमपि चरमक्रियात्वे व्यभिचारः, न च प्राग्भा- वसमानकालीनकार्यमात्रवृत्तित्वादिति हेतुरिति वाच्यम्। तथापि चरमस्वर्गीयघटत्वे व्यभिचा- रात्। न च तादृशध्वंसप्रतियोगिजातीयवृत्तित्वं साध्यमिति वाच्यम्। तथा सत्यनन्तत्वे तज्जातीय- व्योमादिवृत्तितया साध्यसत्त्वेन मात्रपदवैयर्थ्यापत्तेः। न च ध्वंसप्रतियोगित्वमपि जातीयविशेषण मिति वाच्यम्। तस्याप्रयोजकत्वेन व्यापकतानवच्छेदकत्वादिति। अत्र मिश्राः। मात्रपदं हेतौ कात्स्न्र्यार्थकमिति विभाजकोपाध्यवच्छिन्नयावत्कार्यवृत्तित्वा- दिति हेतुः। कार्यपदं च भावकार्यपरमिति वदन्ति। तदपि चिन्त्यम्। तथा सति पक्षे कार्यपद- स्याप्रयोजकत्वापत्तेरिति। अत्र ब्रूमः। अनादितावच्छेदकधर्म्मत्वादिति हेत्वर्थः, अनादित्वं च सजातीयध्वंसव्याप्यप्रागभावप्रतियोगित्वम्। व्याप्तिश्च कालिकीति न काप्यनुपपत्तिरिति दिक्। अन्त्येति। अन्त्यावयविनिष्ठकर्म्मवृत्तितयैव कर्म्मत्वे साध्यमित्याविष्कर्त्तुमन्त्यावयविप- न्तरवारणायारम्भकेति। द्रव्यसमवायिकारणातिरिक्त इत्यर्थः। कार्यमात्रेति। ननु ध्वंसत्वे व्य- भिचारः। न च कार्यपदं भावकार्यपरं, मात्रपदवैयर्थ्यापत्तेः। न च भाववृत्तित्वे सति कार्यमा- त्रवृत्तित्वमर्थः, तथा चानन्तत्वे व्यभिचारवारणाय मात्रपदमिति वाच्यं, तथापि चरमज्ञानत्वादौ व्यभिचारापत्तेरिति चेन्न, तादृशध्वंसप्रतियोगिजातीयवृत्तित्वस्य साध्यार्थस्य तत्रापि सत्त्वात्। न चैवमपि मात्रपदवैयर्थ्यमनन्तत्वे तज्जातीयव्योमादिवृत्तितयाऽपि साध्यसत्त्वादिति वाच्यम्। ध्वंस- प्रतियोगित्वेनापि जातीयस्य विशेषणात्। अधिकं शब्दप्रकाशे द्रष्टव्यम्। अन्त्यावयविपदोपादानं टितस्य साध्यत्वे तूपरञ्जकमेवेदम्। कार्यद्रव्यप्रागभावसमानकालीनेति। महाप्रलयेनार्थान्तरवा- रणाय कालीनान्तम्। कार्यमात्रवृत्तिधर्म्मत्वादिति। ध्वंसवृत्तितया कार्यमात्रवृत्तावनन्तत्वे व्यभिचारवारणाय मात्रपदम्, तस्याकाशादिवृत्तित्वात्। न च ध्वंसत्वे व्यभिचारस्तस्य कार्यमा- त्रवृत्तित्वादिति वाच्यम्। तद्वारणाय भाववृत्तित्वे सतीत्यस्य विशेषणीयत्वात्। मात्रपदोपादानव- लाद् वा भावकार्यवृत्तित्वे तात्पर्ष्यलाभात्। उक्तध्वंसप्रतियोगिजातीयध्वंसप्रतियोगिवृत्तित्वं साध्यं नातः सर्वमुक्तत्मकंमहाप्रलयाव्यवहितपूर्ववर्त्तित्वज्ञानत्वे व्यभिचारः, विवक्षितसाध्यस्य

[द्वितीयस्तबके] प्रलयोपपादनम् । २६१ दितसजातीयसन्तानान्तराः, नित्यत्त्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्या- दि । अवयवानामावापोद्वापादुत्पत्तिविनाशौ च स्यातां, सन्तानाऽविच्छेदश्चेति को विरोध इति चेन्न । एवं तर्हि घटादिसन्तानाविच्छेदोऽपि स्यात्, विपर्ययस्तु दृश्य- ते । कर्त्रादिभोगविशेषसम्पादनप्रयुक्तोऽसाविति चेन्न । द्व्यणुकेषु तदभावात् । तथा च तदवयवानामपगमाभावेऽनादित्वप्रसङ्गे द्व्यणुकत्वव्याघातः । तस्माद् यत्कार्यं बोधनी । नित्यत्वे सति इति । पूर्वत्राप्यर्थतः प्रलयः सिध्यति, अत्रापि सर्ग इति द्रष्टव्यम् । अनुमानयो- र्विपक्षे बाधकं पृच्छति-अवयवानाम् इति । यथा ह्ययतवे तन्त्ववयवानां संयोगविभागाभ्यामेव पटादेरुत्पत्तिविनाशौ संतानानुच्छेदेन दृश्येते तथैव सर्वदापि तौ स्यातां, किमत्र बाधकमिति । एवं तर्हि इति । यदि संतानानुच्छेदः स्यात् तर्ह्यवयवावापोद्धारलक्षणो विनाशोऽपि न स्यात्, दृश्यते चासाविति । कन्थादि इति । न संतानत्वप्रयुक्तः पटादेर्विनाशः, किन्तु विनष्टपटावयवार- ब्धकन्थादिद्वारभोगविशेषप्रयुक्त इति । कर्त्रादिभोगविशेषेति पाठे त्वयमर्थः-पटादेः कर्तॄणां कुविन्दादीनां पटाद्युत्पादनद्वारेण ये भोगास्तेषां तद्विनाशमन्तरेणानुपपत्तेस्तत्प्रयुक्तो विनाश इति । द्व्यणुकेषु इति । द्व्यणुकेषु तस्य भोगविशेषस्य विनष्टद्व्यणुकावयवद्वारस्य द्व्यणुकोत्पादनद्वारस्य वा न संभव इति । ततः किमित्यत्राह-तथा च इति । तस्माद्द्भोगविशेषस्याप्रयोजकत्वात्कार्यस्योत्प- त्तिविनाशयोः समवायिकारणसंयोगविभागावेव निवन्धनमङ्गीकर्तव्यमित्याह-तस्मात् इति । प्रकाशः । सिद्धिः । तदारम्भकत्वं तन्तुभिः पूर्वमनुत्पादितपटैरनैकान्तिकमित्यत उक्तम् । नित्यत्वे सतीति । नित्यत्वमात्रन्तु व्योमादिभिरनैकान्तिकमिति तदारम्भकत्वादित्युक्तम् । प्रदीपपरमाणूनां तैजसद्रव्य- त्वेन संसर्गिद्रव्यतयाऽऽरब्धतेजोजातीयत्वसिद्धौ दृष्टान्तत्वम् । न चाप्रयोजकत्वम् । निरुपाधिमङ्ग- प्रसङ्गस्य विपक्षबाधकत्वात् । न त्वागमो विपक्षबाधकः । तस्य कार्यद्रव्यानाधारकालावोधकत्वात् । सन्तानाविच्छेदेऽपि उत्पत्तिविनाशयोरन्ययोपपत्तिरित्याह । अवयवानामिति । आवापोद्वापौ उपगमापगमौ । यदि नैवं कार्यद्रव्यस्यात्यन्तमुच्छेदस्तदाऽभिमतघटायुच्छेदोऽपि न स्यादित्याह । एवं हीति । विपर्ययस्त्विति । अत्यन्तोच्छेद इत्यर्थः । ननु न सन्तानप्रयुक्तोऽस्यन्तोच्छेदः, किन्त्वन्योपाधिप्रयुक्त इत्याह । कर्त्रादीति । उपाधेः साध्याव्यापकत्वमाह । द्व्यणुकेष्विति । तदभावाद्भोगविशेषसम्पादकत्वस्योपाधेरभावादित्यर्थः । न च तत्राप्यत्यन्तानुच्छेदेऽपि अवयवा- नामावापोद्वापाभ्यामेवोत्पादविनाशसम्भवः । तयोरप्राभावादित्याह । तथा चेति । नाशस्य भोग- विशेषसम्पादनप्रयोजकत्वे द्व्यणुकनाशो न स्यात् । तेन भोगाजननात् । तथा च विनाशिभाव स्यादनुत्पन्नत्वेन नित्यतया द्व्यणुकत्वव्याघात इति सन्तानत्वस्यात्यन्तोच्छेदेन स्वाभाविकः सम्ब- न्धो मन्तव्य इत्यर्थः । सन्तानस्यावस्थानमहेतुकं नित्यहेतुकं वा यदि स्यात्तदा सन्तानाविच्छेदः स्यादित्याह । तस्मादिति । यद्धेतुकमिति दृष्टान्तार्थम् । एतत्=कार्यं यन्निबन्धनस्थितीत्यादिकम् । प्रकाशिका । दोपादानम् । तस्येति । कार्यद्रव्यानधिकरणत्वेन तत्कालाबोधकत्वादित्यर्थः । किञ्चिद्भुवनाव- च्छिन्ननाशस्यैव पुराणादौ प्रतिपादनादिति भावः । अभिमतति । घटाद्यत्यन्तोच्छेदोऽपीत्यर्थः । मकरन्दः । तमादाय साध्याव्याप्तिरिति कृत्वा, वस्तुतः कर्मत्व एव साध्याव्यापकत्वम् । तस्येति । यद्यपि प्रलयवोधकागमसत्त्वादिदमयुक्तं, तथापि तदनाधारत्वेन तत्कालाबोधकत्वादित्यर्थादित्याहुः । अभिमतति । घटात्यन्तोच्छेदोऽपीत्यर्थः ॥ २ ॥ टिप्पणी । तत्र सत्त्वाद् । संसर्गिद्रव्यतयेति । भूयः संसृज्यमानस्वभावतया । तस्य कार्यद्रव्याना-

२६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः, यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः । न च कार्यस्य स्थितिनिबन्धनं नित्यमेव । नित्यस्थितिप्रसङ्गात् । न च नित्य एव हेतुः, अकादाचित्कत्वप्रसङ्गात् । तदतिनिस्तरङ्गमेतत् । ईदृश्याञ्च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पा- दनीय इति द्व्यणुकवत् पिपीलिकाण्डादेर्ब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गति- रिति प्रतिबन्धसिद्धिः । तथा च ब्रह्माण्डे परमाणुसाङ्ख्वितरि परमाणुषु च स्वत- न्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्त्तन्ताम् ? कुपितकपिकपोलान्त- र्गतोदुम्बरमशकसमूहवद्, दवदहनदह्यमानदारूदरविधूर्ण्णमानघुणसङ्घातवत्, प्रलय- पवनोल्लासन्तौर्वावानलनिपातिपोतसांयात्रिकसार्थवद्वेति ॥ २ ॥ अपि च— जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्म्मणोः ॥ ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् ॥ ३ ॥ बोधनी । अस्त्वेवं, तथापि कार्यस्थितिनिबन्धनमुत्पत्तिहेतुश्च किमिति सर्वदा न स्यातामित्यत्राह—न च इति । निरस्तः प्रवाहोऽनादिमानित्यत्रेति । यदि कार्योत्पत्तिविनाशयोर्भोगविशेषोऽप्रयोजकः तर्हि भोगार्थः कर्मभिः सर्व्वषामुत्पाद इति सिद्धान्तो व्याकुप्येतेत्यत्राह—ईदृश्याम् इति । इयं तावदर्थस्यितिनं च तत्र सिद्धान्तहानिः । कर्माण्येव वस्तुस्थितिमनतिक्रामन्ति तद्भोगसमर्थवस्तुत्पादनद्वारेण भोगविशेषं सम्पादयन्ति, तेन येषां वस्तूनामुच्छेदस्वभावो न तेषामनुच्छिन्नानां भोगसाधनत्वम् , अन्यथा नानापुरुषाहृष्टोत्पादि- तस्य कस्यैव पटस्य परःसहस्रं वत्सरानवस्थितस्य क्रमेण भोगसाधनत्वप्रसङ्ग इति भावः । तस्मा- द्यथा द्व्यणुकेषु भोगाभावेऽपि स्थितिनिबन्धनहेत्वोरपगमोपगमाभ्यामेव विना शोत्पत्ती तथैव विश्व- स्यापि कार्यस्य ते भविष्यत इत्याह-इति द्व्यणुकवत् इति । एवं विपक्षे बाधक सद्भावात्सृष्टिप्र- लयानुमानयोः सिद्धः प्रतिबन्ध इत्याह-इति इति । तदेवमापरमाणोर्ब्रह्माण्डस्य विनाशसिद्धौ कैव कथा तदन्तर्वर्त्तिनः कार्यस्येत्याह—तथा च इति । तदन्तर्वर्त्तिभिः सह विनश्यतीत्यत्र निदर्श- नान्याह-कपिकपोल इति ॥ २ ॥ न केवलमनुमानं दर्शनं च प्रलयसद्भावानुगुणमित्याह—अपि च इति । जन्मादेर्ह्रासदर्श- नात्स्वाध्यायाध्ययने कर्मणोऽनुष्ठाने पुरुषाणां शक्तेश्च ह्रासदर्शनात् संप्रदायस्य ह्रासोऽवगम्यत इति । प्रकाशः । ईदृश्यामिति । अनित्यहेतुनिबन्धनायां कार्यस्थितौ कर्मभिः संपादनीयो भोग एवमेव वस्तुस्वभावानतिक्रमणेति योजना । नन्वेवमपि ब्रह्माण्डनाशसिद्धौ गिरिसागरादीनां कुतः प्रलय इत्यत आह । तथा चेति । क्व वर्त्तन्तामिति । विनश्यन्तीत्यर्थः । महाद्रव्यान्तरेण निहन्यमा- नाधारत्वाद्, महादहनदह्यमानाश्रयत्वाद्, महापवनक्षुभितसमुद्रविलीयमानाश्रयत्वादित्यत्र हेतु- त्रये क्रमेण दृष्टान्तत्रयमाह कुपितेति । एतेनाधाराभावात् पतन्त एव सन्तीत्यपास्तम् ॥२॥ एवं सर्वस्य नाशे अर्थाद् वेदोऽपि नश्यतीत्युपपाद्य वेदह्रासदर्शनेनापि तन्नाशोऽनुमेय इत्याह । अपि चेति । प्रकाशिका । भोगस्य कर्मसंपादनीयत्वं मीमांसकोऽपि स्वीकरोत्येवेति तदभिधानमनर्थकमित आह— कर्मभिरित्यादि ॥ २ ॥ टिप्पणी । षात्कालाबोधकत्वादिति । तत्तात्पर्यवत्त्वानिश्चयेत्यादि ॥२॥

द्वितीयस्तवके ] प्रलयोपपादनम् । २६३ पूर्वं हि मानस्यः प्रजाः सम्भवन्, ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः, ततः कामाऽवर्जनीयसन्निधिजन्मानः, इदानीं देशकालाद्यव्यवस्थया पशुधर्मादेव भूयिष्ठाः । पूर्वं चरुप्रभृतिषु संस्काराः समाधायिषत, ततः क्षेत्रप्रभृतिषु, ततो गर्भादितः इदानीन्तु जातेषु लौकिकव्यवहारमाश्रित्य । पूर्वं सहस्रशाखः समस्तो वेदोऽध्यगायि, ततो व्यस्तः, ततः षडङ्ग एकः, इदानीन्तु क्वचिदेका शाखेति । पूर्वम् ऋतवृत्तयो ब्राह्मणाः प्रायोऽतिष्ठन्, ततोऽमृतवृत्तयः, संप्रति मृतप्रमृत- सत्यानृतकुसीदपाशुपाल्यश्ववृत्तयो भूयांसः । पूर्वं दुःखेन ब्राह्मणैरतिथयोऽलभ्यन्त, ततः क्षत्रियातिथयोऽपि संवृत्ताः, ततो वैश्यावेशिनोऽपि, संप्रति शूद्रान्नभोजिनोऽपि । पूर्वममृतभुजः, ततो विघसभुजः, ततोऽन्नभुजः, संप्रत्यघभुज एव । पूर्वं चतुष्पाद् धर्म आसीत्, ततस्तनूयमाने तपसि त्रिपात्, ततो म्लायति ज्ञाने द्विपात्, संप्रति जीर्यति यज्ञे दानैकपात्, सोऽपि पादो दुरागतादिविपादिकाशत- दुःस्थोऽश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यत- या इतस्ततः स्खलन्निवोपलभ्यते । इदानीमिव सर्वत्र दृष्टानाधिकमिष्यते इति चेन्न । बोधनी । जन्मनो ह्रासं व्याचष्टे-पूर्वं हिः इति । पूर्वं श्रुतयः स्मृत्तिदर्शनात्तत्स्मृतयश्च पूर्वतमविशिष्टाचारद- प्रकाशः । वेदह्रासे दृष्टान्तार्थं जन्मादिह्रास उक्तः । प्रतियुगं क्रमेण ह्रासमाह । पूर्वे हीति । समाधायिषत सम्यगाहिता इत्यर्थः । श्रूयमाणा अपि वेदा उच्छेत्स्यन्ति, वाक्यत्वात् , उच्छि- न्नशाखावदिति भावः । ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्ष्यं प्रमृतं कर्षणं स्मृतम् ॥ सत्यानृतं तु वाणिज्यं कुसीदञ्च फलान्तरम् ॥ पाशुपाल्यं = गोरक्षादि । श्ववृत्तिः = सेवा । वैश्यावेशिनो = वैश्याऽतिथयः । अमृत- भुजो = यज्ञशेषभुजः । विघशभुजो = अतिथिशेषभुजः । अन्नभुजो = भृत्यशेषभुजः । अघ- भुजः = स्वार्थसाधितभुजः । चतुष्पादिति । तपोज्ञानयज्ञदानानि चत्वारः पादाः । दुरागतं= दुष्टादुपायद् द्यूतादेरागतम् , तदेव विपादिका = पादरोगः । ननु न शाखोच्छेदः, किन्तु यावान् वेद इदानीमधीयते तावानेव सदाऽध्ययनविषय इति वेदह्रासोऽसिद्ध इत्याह । इदानीमिति । विवादपदं स्मृतिः, स्मृत्यर्थानुभावकवेदमूला प्रकाशिका । मूले पूर्वं सहस्रशाखा इत्यादिना विद्याह्रासे कथ्यमाने शक्तिस्वाध्याययोरपि ह्रास उक्त एवेतिन तयोरदाहरणान्तरं पूर्वमृतवृत्तय इत्यादि किन्तु कारिकास्थाऽऽदिपदसंग्राह्यकथनम्, पूर्वं चतुष्पादित्यादिना कर्म्मह्रास उक्त इति बोध्यम् । विवादपदमिति । प्रत्यक्षवेदाऽमूलाऽदृष्टा- चेत्यर्थः । लोभमूलकस्मृतेस्तु स्मृतिपदेनैव वारणम् , स्मृतिपदस्य ऋषिप्राणीतवाक्यपरत्वात् । वेद- मूलत्वं वेदजन्यानुभवजन्यत्वमदृष्टद्वारा वेदजन्यानुभवजन्यत्वासिद्धिशङ्कानिरासाय स्मृत्यर्थानु- भावकेति साध्यविशेषणम् । मकरन्दः । विवादपदमिति । एतच्च प्रत्यक्षवेदमूलस्मृत्यंशे लोभादिमूलकस्मृत्यंशे च सिद्धसाधनत्राघादि- टिप्पणी । ऋतमुञ्छशिलमिति । "उञ्छः कणश आदानं कणिशायर्जनं शिलम्” कपिशं= शस्यमञ्जरी । इति धर्मदत्तोपाध्याय ( प्रसिद्ध बच्चाझा ) कृतकुसुमाञ्जलिप्रकाशद्वितीयस्तवकटिप्पणी समाप्ता ॥

२६४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ ३ कारिकां व्याख्यायां स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात् । स्वातन्त्र्येण स्मृतीनामा- चारस्य च प्रामाण्यानभ्युपगमात् । मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभा- वात् । आचारात् स्मृतिः स्मृतेश्चाचार इत्यनादिताऽभ्युपगमे अन्धपरम्पराप्र- सङ्गात् । आसंसारमनाम्नातस्य च वेदत्वव्याघातेनानुमानायोगात् । बोधनी । र्शनादिति, बीजाङ्कुरन्यायेनानादित्वेन स्मृत्याचारयोः प्रामाण्यसिद्धेः किं शब्दानुमानेनेत्याश- ङ्कयाह-आचारात् इति । अन्धानां मुग्धरूपस्मरणतुल्यताप्रसङ्गात् । यथा हि तद् रूपनिर्णयसा- पेक्षं तथा धर्मनिर्णये स्मृत्याचारः स्मृतेरनुभवापेक्षत्वादाचारस्य प्रमेयत्वेन प्रमाणापेक्षत्वात्, अत- स्तयोरेवान्योन्यमूलत्वाभ्युपगमेऽन्धवाक्यपरम्परापङ्क्तितुल्यता प्रसज्यत इति । तर्हि तयोर्वेदमेव मूल- मनुमास्यामः स तु वेदो मन्वादीनां प्रत्यक्षः इदानीमुच्छिन्न इति नाभ्युपगच्छामः, किन्तु तैरपि पूर्वस्मृत्यादिना तैरपि पूर्वतमस्मृत्यादिना, ततश्च सर्वेषां नित्यानुमेयस्यैव वेदस्य मूलत्वान्न शाखो- च्छेदः, नाप्यन्धपरंपराप्रसक्तिरिति प्राभाकरस्तन्नाह — आसंसारम् इति । यदि सर्वैरप्यनाम्नातः प्रकाशः । अक्लृप्तमूलान्तरत्वे सति महाजनपरिगृहीतस्मृतित्वात् , प्रत्यक्षवेदमूलस्मृतिवत् । अतो न न्याया- दिमूलकस्मृतौ व्यभिचारः । तथा, मङ्गलाचारो वेदबोधितः, अलौकिकविषयाविगीतशिष्टाचार- त्वात् यागवदिति स्मृत्याचारमूलस्य वेदस्याप्रत्यक्षत्वात् तदुच्छेदे तदध्यीयमानवेदस्याप्युच्छेदो भावीत्याह । स्मृतीति । ननु, वेदवत् स्मृत्याचारयोरदृष्टे स्वतः प्रामाण्यमेवेति न तन्मूलकवे- दानुमानमित्यत आह । स्वातन्त्र्येणेति । वेदनिरपेक्ष्येण स्मृत्यादेस्त्वयाऽपि प्रामाण्यानभ्युपगमा- दित्यर्थः । ननु स्मृतिकर्त्तारः स्वयमेवापूर्वं साक्षात्कृत्य तत्साधनमुपदेक्ष्यन्तीति न तेषां तदर्थं वेदापेक्षेत्यत आह । मन्वादीनामिति । अतीन्द्रियार्थदर्शित्वे तेषामनाश्वासादिति भावः । ननु भूयः शिष्टाचारदर्शनात् स्मृतिप्रणयनम् , ततः पुनःरिदानीं शिष्टाचारपरम्परा स्यादिति किं तन्मू- लवेदानुमानेनेत्यत आह । आचारादिति । उभयोरप्यनुमानमूलकत्वेनाव्यवस्थापकत्वात् तादृश- स्मृत्याचारयोर्वेदमूलकत्वव्याप्तिस्तव देशनाया एव धर्मे मानत्वाच्च तयोरमानकत्वापातादित्यर्थः । ननु नित्यानुमेयो वेदस्तन्मूलं स्यादतो न शाखोच्छेद इत्यत आह । आसंसारमिति । अनाम्ना- प्रकाशिका । अक्लृप्तेति । न्यायमूलकत्वे सत्यन्तार्थः । लोभमूलकस्मृतौ व्यभिचार इति महाज- नपरिगृहीतेति । प्रत्यक्षमूलकवाक्ये व्यभिचार इति स्मृतीति । स्मृतित्वञ्चादृष्टज्ञा- पकवाक्यत्वम् । अतो न ऋषिप्रणीतदृष्टान्तार्थकवाक्ये व्यभिचारः । नन्वनुमानमपि स्वतः प्रमाणमेवेति कथं तन्मूलकत्वे नाश्वास इत्यरुचेराह । तादृशस्मृत्याचारयोरिति । ननु तत्रापि व्याप्तावसम्भवन्मूलान्तरत्वमुपाधिरित्यरुचेराह-तव देशनाया इति । मीमांसकस्ये- मकरन्दः । वारणार्थम् । ताद्रूप्यसिद्धयेऽनुभावकान्तम् । न्यायादिमूलकस्मृतौ व्यभिचारवारणाय अक्लृ- प्तेति । असम्भवन्मूलान्तरत्वे सतीत्यर्थः । ननु महाजनपरिगृहीतपदं व्यर्थमिति चेत् । सत्यम् । भ्रम एवात्र मूलमित्यसिद्धिशङ्कानिरासाय तदुपादानात् न तु हेतुविशेषणत्वे तात्पर्य्यमित्येके । लोभादिभिन्नन्यायादिमूलकत्वाभावमात्रे सत्यन्ततात्पर्य्यम् । एवं च लोभादिमूलकस्मृताविव व्यभि- चारवारणाय तदित्यन्ये । लोभस्य वस्तुगत्या मूलत्वाभावान्मूलपदस्य प्रामाणिकमूलपरत्वाद्वा सत्यन्तेन लोभमूलकस्मृतौ व्यभिचारवारणाय तदुपादानमित्याहुः । अलौकिकेति । एतच्च द्रव्यप्रकाशे व्याख्यातम् । नन्वनुमानमूलकत्वेऽपि नान्धपरम्परा न हि प्रत्यक्षमात्रं प्रमाणमित्या- शयादाह तादृशेति । नन्वत्राप्यसम्भवन्मूलान्तरत्वमन्यथा न्यायादिमूलकस्मृतावपि तथात्वा- पत्तिरित्‍यनुशयादाह तवेति । मीमांसकस्येत्यर्थः । तथा च तवापसिद्धान्त इति भावः ।

द्वितीयस्तवके ] प्रलयोपपादनम् । २४५ उत्पत्तितोऽभिव्यक्तितोऽभिप्रायतो वाऽनवच्छिन्नवर्णमात्रस्य निरर्थकत्वात् । बोधनी । तर्हि वेद एव स न स्यात् । वेदो नाम शुश्रूषाराधितगुरुमुखादिगतं द्विजातिभिरधीयमानं क्रमस्व- रादिविशेषोपेतं वर्णकदम्बकं न तु वर्णमात्रम्, न चैतन्नित्यमनुच्चारितस्य संभवति, तेन नित्या- नुमेयो वेद इति परस्परपराहतं वचनमिति । इत्थं न वेदत्वं तस्येत्याह-उत्पत्तितः इति । धर्माधर्मयोरवेदनाद्वेदः, वेदत्वं चानुपूर्व्या विशिष्टानां वर्णानां न केवलानाम्, आनुपूर्वी च वर्णा- नामुत्पत्तितो भवति यथा नैयायिकानाम्, अभिव्यक्तितो वा यथा वैयाकरणानाम्, अभिप्रायतो वा यथा न्यूनवाक्यप्रयोगे वक्तुरभिप्रायोपलक्षितैर्वर्णैर्वाक्यपूरणेनार्थप्रतीतिः । त्रिधा चेयमानुपूर्वी नित्यमनुच्चारितानां न संभवतीत्यनर्थकत्वाद्वेदत्वव्याघात इति । ननु मा भूद् वेदत्वं तथापि शिष्टैराचर्यमाणत्वादष्टकादेरिष्टसाधनत्वं कर्तव्यत्वं च ज्योतिष्टोमवदनुमाय तत्र चानुमेयवेदस्य प्रकाशः । तस्य = अपठितस्य । उत्पत्तित इति स्वमते, अभिव्यक्तित इति परपक्षे, अभिप्रायत इति उभयत्र । यथा मौनिश्वोकोऽपठितः श्रोत्रानभिव्यक्तश्चाभिप्रायस्थस्तथा वेदोऽपीत्यपि नेत्यर्थः । तथात्वेऽनिश्चितानुपूर्वीकपद्कदम्बस्वरूपत्त्वे नित्यानुमेयत्वव्याघात इति भावः । अत्र स्मृत्याचारमूलं वेदोऽध्ययनविषयो न वा, वेदत्वमध्ययनविषयत्वव्याप्यं न वेति विप्र- तिपत्तिः, ननु स्मृत्यर्थज्ञापकत्वेन ज्ञातस्यैव वेदस्य स्मृत्यर्थानुभावकत्वम् , न हि शाब्दबोधे निय- तपदानुपूर्वी हेतुः, गामानयानय गामित्यत्र तदभावेऽपि तत्सत्त्वात् । पदस्य वर्णविशेषानुपूर्वी- नियमेऽपि तत्तद्वर्णानुपूर्वीकपदविशेषो न हेतुः, घंटकलशंपदानां प्रत्येकं व्यभिचारात् । किन्त्व- व्यभिचारितदर्थज्ञापकत्वेन ज्ञातस्य, लाघवादावश्यकत्वाच्च । अत एव; वर्णलोपे दन्त्यादिसका- रादिसन्देहे सत्यपि वाक्यार्थधीः । न च क्रमिकपदवत्त्वं वाक्यत्वम् अनुच्चार्यमाणस्य चोच्चार- णघटितक्रमासम्भव इति वाच्यम् । गौरश्व इत्यादौ तत्सम्भवेऽपि वाक्यत्वाभावात् । विशिष्टा- र्थपरशब्दत्वंन्वत्रापि तुल्यम् । न चानुच्चार्यमाणस्य न वाक्यत्वम् । लिप्यनुमितानां मौनि- श्लोकस्य च वाक्यत्वात् । किञ्च वाक्यमुच्चार्यते, न तूच्चारणाद्वाक्यत्वम् । वाक्यमुच्चारयेदि- त्यत्रानन्वयापत्तेः । उच्चारणदशायां वाक्यत्वे वाक्यस्यासत्त्वापत्तेः । एकदा तावत्पदानामुच्चार- णाभावात् । अथ तदर्थज्ञापकत्वेन ज्ञातात् पदात् पदार्थज्ञानमात्रं स्यान्न संसर्गज्ञानम् । अन्व- यप्रकारकप्रत्यागुपस्थापकविभक्त्यादिसमभिव्याहाराभावात् । मैवम् । अनुमितवेदाद्वाक्यार्थानु- भवे सामग्र्या वैलक्षण्यात् । धर्मिग्राहकमानेन तवाशरीरेश्वरकर्तृकत्वस्यैव स्मृत्यर्थानुभावकत्वे- नैव तस्य सिद्धेः । अन्यथाऽन्यत्र कॢप्तहेतुं विना न सोऽनुभावक इत्यादौ तदसिद्धावाश्रयासि- द्धिस्तत्सिद्धौ च बाधः । अत एव स्तुतिनिन्दार्थवादकल्पितविधिनेषेधकवेदार्थमवगत्य प्रवृ- त्तिनिवृत्ती । अन्यथा विधिनिषेधकवेदानां नानाप्रकारत्वेन विभक्त्यादिविशेषवत्पदस्यानुमा- तुमशक्यत्वान्न ततोऽर्थधीः स्यात् । एवमाचारानुमितवेदादपि प्रवर्तककर्तव्यताधीः स्मृत्याचारा- नुमितो वेदोऽर्थं बोधयतीति पूर्वपूर्वानुमितवेदादुत्तरोत्तरस्मृत्याचारविति नान्धपरम्परा, स्वतन्त्र- प्रमाणमूलकत्वादिति । प्रकाशिका । त्यर्थः । तथा च तत्रापि सिद्धान्तविरोध इति भावः । घटकलशेति ।, घटपदकलसपदादीनामि- त्यर्थः । घटरूपार्थबोधे तेषां जनकत्वेनानुपूर्व्याः परस्परव्यभिचारादिति भावः । अत्र चार्यवा- मकरन्दः । घटकलशेति । घट्कलसपदानमित्यर्थः । शेषं शब्दप्रकाशे द्रष्टव्यम् ।

२६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां यदि च शिष्टाचारात्त्वादिदं हितसाधनं कर्त्तव्यं वेत्यनुमितं किं वेदानुमानेन, तदर्थ- स्यानुमानत एव सिद्धेः। न च धर्मवेदनत्वादिदमेवानुमानमनुमेयो वेदः। प्रत्यक्ष- सिद्धत्वात्। अशब्दत्वाच्च॥ अथ शिष्टाचारात् प्रमाणमूलोऽयमिति चेत्। ततः सिद्धसाधनम्। प्रत्यक्षमू- बोधनी। प्रामाण्यमपि निश्चित्य मन्वादयः स्मरिष्यन्ति अनुष्ठास्यन्ति चेत्यत्राह-यदि हिं इति। तदर्थस्य= अनुमेयवेदप्रमेयस्य शिष्टाचारात्त्वानुमानेनैव सिद्धेरिति। धर्माधर्मावेदकत्वं हि वेदत्वं, तच्च शिष्टा- च्चारानुमानस्यास्तीति तदेवानुमेयो वेदो भविष्यतीत्यत्राह-न च इति। शिष्टाचारस्य प्रत्यक्ष- त्वान्न तावदनुमेयत्वम् अशब्दात्मकत्वादिति। ननु यदि वयं शिष्टाचारत्वेन कर्तव्यत्वहितसाधनत्वे अनुमास्यामः, ततो वेदानुमानमनर्थकं स्यात्। प्रमाणमूलमात्रमनुमीयत इत्याह-अथ इति। तत्र च पक्षधर्मतावलाद्वेदमूलत्वमेव सिध्य- तीति भावः। ततः इति। आचारस्वरूपस्य प्रत्यक्षमूलत्वात्सिद्धसाधनमिति। ननु शिष्टाचार- प्रकाशः। अत्राहूः। उच्छिन्नवेदार्थं प्रतीत्य स्मृत्याचारयोरुपपत्तेः सामग्र्यन्तरकल्पने गौरवम्। अत एव च न बाधाश्रयासिद्धी। स्मृत्याचारमूलस्य वेदस्यास्माभिरभ्युपगमात्, तथा च स्मृत्या- चारयोर्वेदजन्यानुभवमूलकत्वानुमानादेव पक्षधर्मताबलेन प्रत्यक्षवेदमूलकत्वसिद्धिः। अननुभा- वकस्य मूलत्वानुपपत्तेः। स्तुतिनिन्दार्थवादाभ्यामपि प्रवृत्तिनिवृत्तिपराभ्यां प्रवृत्तिनिवृत्तिहेतुरर्थ एव कल्प्यते, लाघवात्। न तु विधिंनिषेधवाक्यं, गौरवादुक्तदोषाच्च। यत्र चार्यवादादेव तज्ज्ञानं, तत्र "तरति मृत्यु" मित्यादौ न तत्कल्पनाऽपि। न च बहुभिर्मेधाविभिरध्यात्तिकशक्तिसम्प- न्नैर्ध्रियमाणायाः शाखाया न शाखान्तरवदुच्छेदसम्भव इति वाच्यम्। एकस्य न समग्रशा- खाऽध्ययने शक्तिरित्येकेनेवापरैरपि तदनध्ययने तदुच्छेदसम्भवात्। एकानधीतायास्तस्या अप- राध्ययनविषयत्वनियमे मानाभावात्। न च शाखोच्छेदे वर्गादिवानिश्चङ्कया प्रत्यक्षवेदादपि वाक्यार्थप्रयोगयोरनिश्चये वैदिकव्यवहारोच्छेदः, श्रूयमाणमात्रस्यैव महाजनपरिगृहीतत्वेन तत एव तन्निश्चयात्, तस्माद् स्मृत्याचारानुमितो वेदः प्रत्यक्षोऽध्ययनविषयश्च वेदत्वात् संमतवत्। विपक्षे च बाधकमुक्तं गौरवमिति सङ्क्षेपः। दूषणान्तरमाह। यदि चेति। वेदेनापि हि प्रवृत्तिहेतुकार्यत्वज्ञानं तद्धेतुत्वज्ञानं वोत्पाद्य प्रवृत्तिर्जन्येत्यावश्यकत्वान्नाघवाच्च तदेवानुमीयतां, किं तद्बोधकवेदेनेत्यर्थः। तदर्थस्य = कार्यत्वज्ञानादेः। ननु धर्मवेदकत्वहेतुको वेदव्यवहारस्तच्च लिङ्गेऽप्यस्तीति तदेव नित्यनुमेयवेद- शब्देनोच्यते इत्यत आह। न चेति। प्रत्यक्षसिद्धत्वान्न नित्यनुमेयत्वम् अशब्दत्वाच्च न वेदत्व- मित्यर्थः। प्रमाणसामान्यानुमानेऽपि पक्षधर्मतावलात् तद्विशेषवेदसिद्धिः स्यादित्याह- अथेति। सामान्यबुद्धेरीश्वरप्रत्यक्षविषयत्वेनाप्युपपत्तेर्न सा विशेषमवगमयतीत्याह। प्रत्यक्षेति। ईश्वरप्रत्यक्षानभ्युपगन्तृमतेऽपि भोजनादेरिव कर्त्तव्यताज्ञानेऽनुमानमेव मूलं स्यादि- प्रकाशिका। दादेवेति बलवदनिष्टाननुबन्धित्वज्ञानञ्च न प्रवर्तकमिति भावः। तदेवेति। कार्यत्वं हि तद्धेतु- कत्वं वेत्यर्थः। तदर्थस्येति। तत्प्रयोजनस्येत्यर्थः। विशेषमिति। वेदमित्यर्थः। धर्मिग्राहकैनैव मकरन्दः। तदेवेति। कार्यत्वं तद्धेतुत्वं वेत्यर्थः। तदर्थस्येति। तत्प्रयोजनस्येत्यर्थः। प्रमाण-

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:

द्वितीयस्तवके ] प्रलयोपपादनम् । २६७ लत्वाभ्युपगमात् । तदसम्भवेऽप्यनुमानसम्भवात् । नित्यमज्ञायमानत्वात्तदप्रत्यायकं, कथमद्युमानं, कथञ्च मूलमिति चेत् । वेदः किमज्ञायमानः प्रत्यायकोऽप्रत्यायक एव वा मूलं, येन जडतम ! तमाद्रियसे । अनुमितत्वाज्ज्ञायमान एव इति चेत् । लिङ्ग- मप्येवमेवास्तु । अनुमेयप्रतीतेः प्राक्तनी लिङ्गप्रतीतिरपेक्षिता, कारणत्वात् , न तु प- श्चातनीति चेत् । शब्दप्रतीतिरप्येवमेव । आचारस्वरूपेण शब्दमूलत्वमनुमीयते, तेन तु शब्देन कर्त्तव्यता प्रतीयते इति चेन्न । आचारस्वरूपस्य प्रत्यक्षसिद्धत्वेन बोधिनी । श्रेष्टसाधनत्वे प्रत्यक्षमूलत्वासम्भवाद्गेद एव मूलं भविष्यतीत्याह-तदसंभवेऽपि इति । तत्रापि शिष्टाचारत्वानुमानस्य मूलत्वासम्भवात्सिद्धसाधनतैवेति । अथवा धर्मादीनां कस्यचिल्लोकोत्तरस्य प्रत्यक्षत्वाभ्युपगमात् न वेदमूलत्वसिद्धिः, अर्वाचीनानां च मन्वादीनां प्रत्यक्षत्वासम्भवे शिष्टाचा- रानुमानमूलत्वासम्भवात्सिद्धसाधनतेति । नित्यम् इति । न तावदाचाराणां श्रेयःसाधनत्वेन व्याप्तं किमपि लिङ्गमिदं नामेति विशेषतो मन्वादिभिरुपगतम् । यथा हि वयं शिष्टानाचरतो दृष्ट्वा कर्तव्यताज्ञानमन्तरेण तदसंभवात्तस्य च ज्ञानस्य प्रत्यक्षमूलत्वासम्भवात् किमप्येवामंनुमानं मूल- मिति सामान्यतोऽनुमिमीमहे, तथा मन्वादयोऽपि विशिष्टानामाचारमूलं किमप्यस्त्यनुमानमिति सामान्यतोऽनुमिन्वते, न तु लिङ्गविशेषम् । नित्यं च विशेषतोऽज्ञायमानं लिङ्गं कथं प्रत्यायकं भवेत्, अप्रत्यायकं च कथमनुमानं कथं वाऽनुष्ठातॄणां कर्तव्यज्ञानस्य मूलं, ततो वेदत्वस्यैव सिद्धेः कथमनुमानेन सिद्धसाधनतेति भावः । वेदः इति । नित्यानुमेयत्वपक्षे विशेषरूपेणाज्ञातो वेदः कथं प्रत्यायको भवेत् कथं च वा मूलमिति । अनुमितत्वात् इति । अभियुक्तराचरितत्वेनाष्ट- कादेरिष्टसाधनत्वकर्त्तव्यत्वे तावदभ्युपगम्य तत्प्रतिपादक एव वेदविशेषोऽनुमीयते, तेन विशेषतो विज्ञात एवेति । लिङ्गमपि इति । शिष्टाचारात्तन्मूलत्वेनानुमीयमानं लिङ्गमपि विशिष्टमेवेति । अनुमेय इति । अत्र ह्याचारस्य हितसाधनत्वकर्त्तव्यतयोरनुमापकं लिङ्गमः अनुमेयं, तंच यदि ताभ्यामेवानुमीयते न ततोऽनुमेयप्रतीतेर्लिङ्गप्रतीतिरिति स्यात्, तच्चायुक्तमिति । तदेतद्वेदानुमा- नेऽप्यविशिष्टमित्याह - शब्द इति । आचाराद्धि कर्तव्यतां ज्ञात्वा तज्ज्ञानमूलं वेदोऽस्माभिरनु- मीयते यथा, तथा मन्वादिभिरपि प्रमेयभूतकर्तव्यतावगतेः पश्चात्निर्णायकप्रमाणभूतवेदावगति- रिति । ननु स्यादेवं यदि कर्तव्यतया वेदोऽनुमीयते न त्वेवमित्याह - आचार इति । न इति । प्रकाशः । त्याह । तदिति। विशिष्य लिङ्गाज्ञानान तद् गमकमतो न मूलमित्याह । नित्यमिति । नित्यानु- मेयो वेदोऽपि विशेषाकारेणानिश्चितत्वान्न तद्वोधकः स्यादित्याह । वेद इति । विशेषत इति शेषः । सामान्यतस्तज्ज्ञानं वेद इवानुमानेऽपि तुल्यमित्याह । अनुमितत्वादिति । आचार- कर्त्तव्यताऽनुमानमूलेत्यनुमेयपूर्वमाचारकर्त्तव्यतासिद्धौ स्यात् । सा च कर्तव्यताबोधकलिङ्गप्रतीतेः प्रागेव सिद्धेति नानुमानमित्याह । अनुमेयेति । एवं शब्दप्रतीति विनाऽपि कर्त्तव्यताबुद्धेः सिद्धत्वाद् व्यर्थं शब्दानुमानमिति तुल्यमित्याह । शब्देति । विशिष्टशिष्टाचारेण वेदमूलत्वमनु- मीयते, अतो न प्रत्यक्षादिना सिद्धसाधनमित्याह । आचारेति । आचारस्वरूपसिद्ध्यर्थं वेदानुमानं, तत्कर्त्तव्यताबोधार्थं, व्याप्तिमात्रेण वा ? नाद्यः । तत्र प्रत्यक्षस्यैव मूलत्वादित्याह । प्रत्यक्षेति । न द्वितीयः । कर्तव्यतायामज्ञातायां वेदानुमानात् तज्ज्ञाने च तदनुमानवैयर्थ्यादित्याह । प्रकाशिका । प्रमाणत्वमपि तस्य ज्ञातमित्यज्ञायमानत्वमसम्भवीत्यत आह विशिष्येति । वेदस्यापि प्रमाणत्वेन रूपेण ज्ञायमानत्वमस्त्वेवेत्यतः पूरयति-विशेषत इतीति । तथा च यथा विशिष्याज्ञातस्य मकरन्दः । स्त्वेनानुमितत्वादज्ञायमानत्वमसम्भवीत्यत आह । विशिष्येति । उक्तमभिप्रायेणाह : विशेषत ३८ न्या० कु०

२६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्या० ] मूलान्तरानपेक्षणात् । तत्कर्त्तव्यतायास्तु प्रत्यक्षाभावादप्रमिततया च शब्दानुमा- नानवकाशात् प्रत्यक्षश्रुतेरसम्भवाच्छिष्टाचारत्वेनैव कर्त्तव्यतामनुमाय तया मूल- शब्दानुमानम्, तथा च किन्तेन ? तदर्थस्य प्रागेव सिद्धेः । तथाप्यागममूलत्वेनैव तस्य व्याप्तेरिति चेत् । अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् । आदिम- तस्तत्त्वं स्यादयं त्वनादिरिति चेत् । आचारोऽपि तर्हि प्रथमतस्तथा स्यादयं त्वनादि- र्विनाऽप्यागमं भविष्यति । आचारकर्त्तव्यतानुमानयोरैवमनादित्वमस्तु किन्नश्छि- न्नमिरित चेत् । प्रथमं तावन्नित्यानुमेयो वेद इति, द्वितीयं च देशेनैव धर्मे प्रमाण- बोधनी । आचारकर्त्तव्यताया हि मूलान्तरापेक्षेति । तर्हि तयैव वेदोऽनुमास्यत इत्याह—तत्कर्त्तव्य- तायास्तु इति । ततः किमित्यत्राह—अप्रमिततया इति । मा भूच्छब्दानुमानं प्रत्यक्षवेदेनैव तु कर्त्तव्यताप्रतीतिरस्त्वित्यत्राह—प्रत्यक्ष इति । आचारमूलस्य नित्यानुमेयत्वाभ्युपगमादिति । तस्माच्छिष्टाचारत्वेन कर्त्तव्यतामनुमाय वेदोऽनुमातव्यः । सा चेदनुमिता किं तेनानुमितेन वेदेन, तत्प्रमेयस्य कर्त्तव्यताया अनुमानादेव सिद्धेरिति । नन्वनुमानादेवाचारकर्त्तव्यतावगमेऽपि वेदमूलतैव तस्या अनुमीयते । कर्त्तव्यताया वेदमूलत्वेन ज्योतिष्टोमादौ व्याप्तिवधारणादित्याह—तथापीति । यदि व्याप्तिबलादागमो मूलमनुमीयते तर्ह्यत एवानुमीयमानस्य वेदस्य प्रत्यक्षानुमानयोरन्यतर- मूलत्वमनुमीयताम्, आगमत्वस्य तन्मूलत्वेन लोके व्याप्तिवधारणादित्याह—त एव इति । एतच्च प्रकृतानुपयोगेऽपि परेषामनिष्टमित्येतावता प्रसञ्जितमिति । आदिमत इति । आगमस्य प्रत्यक्षानुमानमूलत्वं दृष्टम्, अयं त्वनुमीयमानो वेदागमोऽनादिरतः कथमस्य तन्मूलतेति । तदे- तदाचारेऽपि वक्तुं शक्यत इत्याह—आचारोऽपि इति । य आचार आचरित्रा स्वयमेव मूल- भूतमागममुपलभ्य प्रवर्तितः तस्यैवेदं प्रथमस्य ज्योतिष्टोमादेरागममूलत्वमुपलब्धम् । अयं त्वद्य- त्तनानाचारः पूर्वपूर्वाचारपरम्परोप लम्भमात्रेणानुष्ठीयमानोऽनादिरतोऽयमागमनिरपेक्षो भविष्य- तीति । ननु मा भूदागमो मूलमाचारस्य शिष्टाचारत्वेन कर्त्तव्यतानुमानमेव मूलं भविष्यति, शिष्टा- नामपि पूर्वानाचरतो दृष्ट्वा कर्त्तव्यतामनुमायाचारस्तेषामपि पूर्वतरानाचरतो दृष्ट्वा इत्याचारात् कर्त्तव्यतानुमानं, तदनुमानाच्चाचार इति अनन्ताभ्युपगमान्नेतरेतराश्रयत्वादिदोषप्रसक्तिरित्याह— आचार इति । किन्नश्छिन्नम् इति । स्मृत्याचारयोर्मूलभूतो वेदो नित्यानुमेयः, चोदनैव धर्मे प्रमाणमिति राद्धान्तद्वयमपि छिद्यते, अनुमानस्यैव धर्ममूलत्वाभ्युपगमादिति । पुनरपि नित्यानु- प्रकाशः । तदिति । तृतीयं शङ्कते । तथापीति । दर्शादिव्यवहारस्य वेदपूर्वकत्वसहचारदर्शनादित्यर्थः । न हि सहचारमात्राद् व्याप्तिः । पौरुषेयवाक्यस्येव वैदिकवाक्यस्यापि प्रत्यक्षानुमानविवक्षापूर्व- कत्वप्रसङ्गादिति परिहरति । अत एवेति । अत्रोपाधिमाह । आदिमत इति । आगमस्येत्यर्थः । आचारस्याप्यागमपूर्वकत्वे साध्ये स एवोपाधिरित्यनादिः स तन्निरपेक्षोऽपि स्यादित्याह । आचारोऽपीति । द्वितीयमिति । अनुमानस्यापि धर्मे प्रमाणत्वाभ्युपगमादित्यर्थः । आचार- प्रकाशिका । लिङ्गस्य न मूलत्वमेवं तादृशवेदस्यापीति भावः । आचारोऽपीतीति । साद्याचारोऽपि प्रत्यक्षवे- मकरन्दः । इति । तथा च यथा न नित्यानुमेयलिङ्गममूलत्वं तथा न नित्यानुमेयवेदमूलत्वमपीति निगमः । आचा- रोऽपीतीति । तथा च व्याप्तिबलादपि प्रत्यक्षश्रुतिमूलत्वमेव सिद्ध्यति, अन्यादृशश्रुतेरक्लृप्ततया मू-

द्वितीयस्तबके ] . प्रलयोपपादनम् । २६६ मिति । अथायमाशयः । वैदिका अप्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते, न चैते प्रागपि नानुष्ठिता एव, तदर्थस्य वेदरा- शेरप्रामाण्यप्रसङ्गात्, समुद्रतरणोपदेशवत् । न चैवमेवास्तु, दर्शाद्युपदेशेन तुल्य- योगक्षेमत्वात् । एवं, पुनः स कश्चित् कालो भविता यत्रैते अनुष्ठास्यन्ते, तथाऽन्ये- ऽप्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते चेति न विच्छेदः । ततस्तद्वदागममूलते- तिचेत् । एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्त्तव्यत्वागमयोरनुमानादसत्यां प्रत्यक्ष- श्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः । तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचा- रस्य सा चेदानीं नास्तीति शाखोच्छेदः । अधुनाप्यस्ति सान्यत्रेति चेदत्र कथं नास्ति ? । किमुपाध्यायवंशानामन्यत्र बोधनी। मेयवेदवादिनामेवाशयमाशङ्कते-अथायम् इति । प्रत्यक्षवेदमूलानामपि न तावदाचरितपूर्वाणा- माचाराणामुच्छेदो दृश्यते, न हि ते पूर्वमप्यनाचरिता वक्तुं युक्तं तद्विषयस्य वेदस्यानुष्ठानलक्षणां- प्रामाण्यप्रसङ्गात् । न च तस्याप्रामाण्यमेवास्त्विति युक्तम्, अनुष्ठीयानार्थदर्शपौर्णमासादिवाक्यैर- श्वमेधादिवाक्यानां प्रामाण्यहेत्वविशेषात् । पूर्वकालवदुत्तरकालमनुष्ठास्यन्ते च कदाचिदश्वमेधाद- यस्तद्वदन्येऽप्यप्रत्यक्षवेदमूला आचारत्वादेवोच्छेत्स्यन्ते पुनरनुष्ठास्यन्ते चेति तेषामपि विच्छेदेन भवितव्यम् । अतोऽनादित्वाभावादाचारपरम्परामूलत्वासंभवेनाश्वमेधादीनामिव्राष्टकादीनामप्या- चारस्यागमो मूलं, स चानुमेय इति भावः । विवादपदाचारा वेदमूला उच्छेदामन्तरभावित्वात् राजसूयाश्वमेधादिवदिति । एवं तर्हि इति । यद्येषामुच्छेदस्तर्हि किं मूलाः पुनः प्रवर्त्तन्ताम् । न तावत्कर्त्तव्यतानुमानम् अनुमेयवेदो वा मूलं संभवति, तल्लिङ्गस्याचारस्य तदानीमभावात् , न चाऽश्वमेधादिवत्प्रत्यक्षश्रुतिरस्ति तदाचारस्वरूपस्य परिप्लवः स्यात्, न केवलं वेदमूलत्वमस्येत्यु- पसंहरति-तस्मात् इति । तदेवं नित्यानुमेयत्वेन शाखानामुच्छेदाभावं वदन्तो निरस्ताः । संप्रति मतान्तरमाशङ्कते-अधुनापि इति । स्मृत्याचारयोर्मूलभूता श्रुतिरिदानीमपि देशान्तरेऽ- धीयते तेन न तच्छाखोच्छेद इति । तदपि विकल्प्य दूषयति-अत्र इति । स्वाध्याय इत्यध्ययनमुच्यते अध्येतृसमानकर्तृकत्वादिति । न ह्यनधीयानानामनुष्ठेयज्ञानासंभवादनुष्ठानं संभवतीति । देशान्तरा- प्रकाशः । स्यागममूलकत्वव्याप्तौ प्रयोजकमाह । अथेति । अप्रामाण्येति । नित्यमननुष्ठानादित्यर्थः । तद्वदिति । विवादाध्यासिता आचारा वेदमूलाः, उच्छेदानन्तरभाविप्रवाहवत्त्वाद्वाजसूयवदिति न प्रत्यक्षादिना सिद्धसाधनं, नाप्यत्यन्तमुच्छेद इत्यर्थः । प्रलये स्मृत्याचारयोरुच्छेदाल्लिङ्गाभावे- नासत्यां प्रत्यक्षश्रुतौ अनुष्ठानमेव न स्यादित्यसिद्धो हेतुरित्याह । एवं तर्हीति । न च घटादि- संप्रदायप्रवर्त्तनार्थमीश्वरस्यापि शरीरपरिग्रहात् तदाचारादेव कर्त्तव्यताऽनुमितिः स्यादितिवाच्यम्। बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वाल्लाघवेन वेदरूपवाक्यस्य कल्पनादिति भावः । शाखो- च्छेद इति । व्यासादीनां ससहस्रशाखवेदज्ञातॄणां सत्त्वेऽपि साम्प्रतं तदध्ययनाभाव एव शाखोच्छेदः। स्मृत्याचारमूलं वेद इदानीमप्यन्यत्राध्ययनगोचर इति भट्टमतं शङ्कते । अधुनाऽपीति । परिहरति । अत्रेति । भारतवर्षे तदध्ययनाभावेऽप्यन्यत्र तदध्ययनकल्पनायां गौरवमिति भावः । प्रकाशिका । मूल एवान्यादृशस्य वेदस्य मूलत्वानुपपत्तेरुक्तत्वादिति भावः । असिद्धो हेतुरिति । इदमुप- मकरन्दः । लत्वानुपपत्तेरित्यभिसन्धिः। असिद्ध-इत्युपलक्षणं, चैत्यवन्दनाद्याचारप्रवाहे लौकिकाचारप्रवाहे च

३०० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां गमनात्, तेषामेवोच्छेदाद्वा, आहोस्वित् स्वाध्यायविच्छेदात् ? न प्रथमद्वितीयौ । सर्वेषामन्यत्र गमने उच्छेदे वा नियमेन भारतवर्षे शिष्टाचारस्याप्युच्छेद- प्रसङ्गात्, तस्याध्येतृसमानकर्तृकत्वात् । अन्यत आगतैराचारप्रवर्त्तने, अध्ययन- प्रवर्त्तनमपि स्यात् । न तृतीयः । आध्यात्मिकशक्तिसम्पन्नानामन्तेवासिनामविच्छेदे तस्यासम्भवात् । तस्मादायुरारोग्यबलवीर्यश्रद्धाशमदमग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् स्वाध्यायानुष्ठाने शीर्यमाणे कथञ्चिदनुवर्त्तते । विश्वपरिग्रहाच्च न सहसा सर्वो- च्छेद इति युक्तमुत्पश्यामः । गतानुगतिको लोक इत्यप्रामाणिक एवाचारो, न तु शाखोच्छेदः, अनेकशाखा- गतेतिकर्त्तव्यतापूरणीयत्वात्, एकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गादिति चेत् । एवं हि महाजनपरिग्रहस्योपप्लवसम्भवे वेदा अपि गतानुगतिकतयैव लोकैः परिगृह्यन्ते बोधनी । दागतैरप्येतैराचाराः प्रवर्त्तिष्यन्त इत्यत्राह अन्यतः इति । आध्यात्मिकी शक्तिर्वक्ष्यमाणायु- र्ादिकम् । तस्य स्वाध्यायविच्छेदस्य । तस्मात्स्वाध्यायविच्छेदोऽपि तावदस्मत्पक्षानुगुण एव भवेदित्याह नात्तस्मात् इति । आयुरादीनां ग्रहणादिशक्तेश्च प्रत्यहमपचयादेव स्वाध्यायानुष्ठान- योर्विशेषणं न तूपचितेष्वेव तेषु । तत्र कथंचित् केषुचिदेव पुरुषेषु कस्याश्चिच्छाखायाः स्वाध्या- यानुष्ठानमनुवर्तते, परिग्रहीतॄणामनेकत्वात्तेषां युगपदनुच्छेदाच्च नैकदैव सर्वस्य स्वाध्यायस्य कर्मानुष्ठानस्य वोच्छेद इति । अनेन शक्तेः स्वाध्यायकर्मणोरित्येतद्विवृतमिति द्रष्टव्यम् । ननु यद्यष्टकाद्याचारः प्रमाणमूलः स्यात् ततस्तन्मूलस्य वेदस्येदानीमनुपलम्भादुच्छेदः कल्प्येत, अयं त्वप्रामाणिक एव । 'गतानुगतिको लोको न लोकस्तत्त्वचिन्तकः' इति तालतल- बन्धनानन्यायेन प्रवर्त्तत इत्याह-गतानुगतिकः इति। ननु महाजनपरिग्रहात्प्रामाणिकत्वमेव तेषाम- ङ्गीकृत्य शाखोच्छेद एव किमिति न कल्प्य इत्यत्राह-अनेकशाखा इति । सर्वशाखाप्रत्ययमेकं प्रकाशः । तस्येति । यद्यप्याचारस्याप्यध्येतृसमानकर्तृकतयाऽध्ययनगोचरशाखाबोधिताचारस्यानुपपत्तिः, तथाप्यत्राध्ययनाभावः शक्त्यभावप्रयुक्तः, स च नैतद्देशनियतस्त प्रागप्यत्र तदभावापत्तेः, किन्त्वे- तत्कालनियतः । अतो भारतवर्षोऽन्यदेशः, स्मृत्याचारमूलाध्ययनशून्यो, देशत्वात्, एतद्देशव- दिति भावः ॥ उच्छिन्नशाखाबोधितेतिकर्तव्यताशङ्कया एकस्मिन्नपि कर्मणीतिकर्त्तव्यतेयत्तानिश्चयो न स्या- दित्यमानक एवायमाचार इत्याह— गतेति । महाजनपरिगृहीताचारस्यामानकत्वंशङ्का वेदेऽपि स्यादित्याह । एवं हीति । प्रकाशिका । लक्षणम् लौकिकाचारे चैत्यवन्दनाचारे च प्रवाहपन्ने व्यभिचार इत्यपि द्रष्टव्यम् । किन्त्वेतत्का- लनियत इति । एतद्देशावच्छिन्नैतत्कालनियतत्वे च शक्त्यभावस्य गौरवमेव बाधकमिति भावः । स्मृत्याचारेति । ननु यथाश्रुते दृष्टान्ते साध्यवैकल्यम् । न च विवादपदे स्मृत्या- मकरन्दः । व्यभिचारोऽपीति द्रष्टव्यम् । किन्त्वेतत्कालेति । यद्यप्येतत्कालावच्छिन्नैतद्देशत्वाभ्युपगमे नोक्त- दोषस्तथापि लाघवादेतत्कालावच्छेदेनैक शक्त्यभावः कल्प्यते इति भावः । स्मृत्याचारेति । विवादपदस्मृत्याचारेत्यर्थः । इदानीं तच्छून्य इति साध्यम् । तेन दृष्टान्तस्य न साध्यवैकल्यम् ।

[द्वितीयस्तबके ] प्रलयोपपादनम् । ३०१

इति न वेदाः प्रमाणं स्युः, तथा च वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । एतमेव च कालक्रमभाविनमनाश्वासमाशङ्कमानैर्महर्षिभिः प्रतिविहितमतो नोक- दोषोऽपि, न चायमुच्छेदो ज्ञानक्रमेण येन श्लाघ्यः स्याद्, अपि तु प्रमाद- मदमानाऽलस्यनास्तिक्यपरिपाकक्रमेण, ततश्चोच्छेदोत्तरं पुनः प्रवाहः, तदनन्तरश्च पुनरुच्छेद इति सारस्वतमेव स्रोतः, अन्यथा कृतहानप्रसङ्गात् ।

बोधनी । कर्मेति न्यायात्प्रयोगविधयः शाखान्तर्गतानप्यङ्गविधीनुपसंहृत्य कर्माणि प्रयुञ्जते, तेन नाना- शाखाविहितेतिकर्तव्यतापूरणीयेषु कर्मसु शाखोच्छेदचे कयाचिदुच्छिन्नया विहितमङ्गान्तरं किमपि कदाचित्स्यादिति शङ्कावकाशाजैकस्मिन्नपि कर्मणि एतावदिदमित्याश्वासः स्यादिति । न इति । यदि महाजनपरिगृहीतोऽप्याचारोऽप्रमाणं स्यात् तर्हि वेदा अपि तथा भवेयुः, न हि ततोऽन्यत्ते- षामपि प्रामाण्ये कारणम् । तत्र च शाखोच्छेदलक्षणाद्वृश्चिकभयादपसर्पन् कृत्स्नवेदाप्रामाण्यरूपे आशीविषमुखे निपतितः स्यादिति । इतश्च शाखोच्छेदोऽवगम्यत इत्याह-एतमेव इति । काल- क्रमवशाद्भाविना शाखोच्छेदेनानुष्ठातृणां त्वदुक्तमार्गेण भाविनमनाश्वासमाशङ्क्य कल्पसूत्रका- र्नानाशाखागतान्यङ्गान्यनुसंहृत्य स्मरद्भिरनाश्वासप्रतिविधानं कृतं शाखोच्छेदाभावे कल्पसूत्राणि निष्फलानि भवेयुरिति । ततश्च यदुक्तमेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्ग इति तदपि निरस्तमि- त्याह-अतः इति । अर्थवमित्यारभ्य वाऽनाश्वासपरिहारतया व्याख्येयमिति । उच्छिन्नस्यैव विश्वस्य पुनरपि भविता प्रवाह इति प्रतिपादयिष्यन्पुनः प्रवृत्तिविधुरादपवर्गरूपादुच्छेदस्य भेदं तावदाह-न चायम् इति । श्रवणादिगतस्य विविक्तात्मविषयस्य ज्ञानस्य क्रमेण परिपाकविशेषेण भवन्मोक्षाख्य उच्छेदः श्लाघ्यो भवति आत्यन्तिकत्वात्, अयं तु प्रमादादिपरिपाकक्रमेण । अतः प्रवाहोच्छेदयोः पुनः प्रवृत्तिरिति । 'अस्तु वर्तमानप्रवाहस्य विच्छेदः, भाविप्रवाहस्तु कुतस्त्य इत्यत्राह-अन्यथा इति । यद्युच्छेदोत्तरं पुनः प्रवाहो न स्यात् तदा कृतस्य कर्मणः फलभोगमन्तरेणैव नाशः स्यादिति । ननु भवतु भाविनः प्रवाहस्योच्छेदः पुनः प्रवाहश्च भावी, तथापीतः पूर्वमपि प्रवाहो-

प्रकाशः। वृश्चिकेति । उच्छिन्नशाखावेदाङ्गीकारेऽननुष्ठानं वृश्चिकभीः, तया पलायमानस्य सर्ववेदाप्रामा- ण्यापात आशीविषमुखे निपात इत्यर्थः । अनेकेत्यादि दूषयति । एतमिति । तत्तत्कर्मणि नाना- शाखाबोधिततिकर्तव्यताबोधनाय महर्षिप्रणीता महाजनपरिगृहीताश्च स्मृतयः सन्तीति नाऽनाश्वास इत्यर्थः । अन्यथैकस्य सकलानवगमाच्छाखान्तरबोधिततिकर्तव्यताशङ्कया एकशाखातो नार्थनि- र्णयः स्यादिति भावः । नन्वाचारस्योच्छिन्नशाखामूलकत्वे साऽपि शाखान्तरवच्छिष्यैरग्रहीष्येतेति नोच्छेदः । स चेत्तूर्न समुद्रतरणोपदेशवत्तच्छाखावैप्रामाण्यमित्यत आह । न चेति । अप्रामाणिक- धिया न तच्छाखाध्ययनमपि त्वन्यप्रयुक्तमित्यर्थः । तदेवं वेदत्वादारादनुमितवेदवद्भेदा उच्छेदंस्य- न्तीत्युपसंहरति । ततश्चेति । दिनरात्रिक्षमांसैव न व्यभिचारस्तस्यापि पक्षत्वादिति भावः । ननु वर्तमानप्रवाहोच्छेदसिद्धावपि भाविप्रवाहोच्छेदसिद्धिः कुत इत्यत आह । अन्यथेति । प्रागुपात्ता- दृष्टस्य देहाद्यभावेन भोगाजनकत्वादित्यर्थः । नन्वेवमपि प्राग्यविच्छेदसिद्धौ परतन्त्रपुरुषपूर्वकोऽ-

प्रकाशिका । चारमूलवेदशून्यत्वं साध्यम् । प्रतियोग्यप्रसिद्ध्योऽप्रसिद्धेरिति । मैवम् । तादृशवेदसिद्धौ सत्यामेवान्यत्रेच्छेदार्यमुक्तानुमानप्रवृत्तेरिति । विवादपदेत्यादिसाध्यस्यैवाऽभ्युपगमादिति । एत- त्कालातच्छिन्नमध्ययनशून्यत्वं साध्यमतो न दृष्टान्ते साध्यवैकल्यम् । भाविप्रवाहोच्छेदेति ।

मकरन्दः । भाविप्रवाहेति । भाविप्रवाइतदुच्छेदयोः सिद्धिः कुत इत्यर्थः । परैः पूज्यानामप्यत्र प्रवेशा-

३०२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां तथा च भाविप्रवाहवद्भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते । स्मरति च भगवान् व्यासो गीतासु भगवद्वचनम्— यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ इति कः पुनरयं महाजनपरिग्रहः ? । हेतुदर्शनशून्यैर्ग्रहणधारणार्थानुष्ठानादिः, न ह्यत्र न स्यादृते निमित्तम् । न ह्यत्रालस्यादिनिमित्तम् । दुःखमयकर्मप्रधानत्वात् । नाप्यन्यत्र सिद्धप्रामाण्येऽ- भ्युपायेऽनधिकारेणाऽस्मिन्ननन्यगतिकतयाऽनुप्रवेशः । परैः पूज्यानामप्यत्राप्रवेशात्। नापि भक्ष्यपेयाद्यद्वैतरागः, तद्विभागव्यवस्थापरत्वात् । नापि कुतर्काभ्यासाऽहित- व्यामोहः, आकुमारं प्रवृत्तेः । नापि सम्भवद्विप्रलम्भपाखण्डसंसर्गः, पित्रादिक्रमेण प्रवर्त्तनात् । नाऽपि योगाभ्यासाभिमानेनाव्यग्रताभिसन्धिः, प्राथमिकस्य कर्मकाण्डे बोधनी । च्छेदी कथं सिध्यत इत्यत्राह-तथा च इति । वर्तमानोऽयं प्रवाहः प्रवाहोच्छेदपूर्वकः प्रवाहत्वाद्भा- विप्रवाहवत् । प्रवाहविच्छेदयोः पुनः प्रवृत्तावागमसंवादं दर्शयति-स्मरति च इति । महाजनप- रिग्रहाद् वेदस्य प्रामाण्यमित्युक्तं, तत्र कोऽयं परिग्रहो नामेत्याह-कः पुनः इति । हेतुदर्शनशू- न्यैः इति । दृष्टहेतुदर्शनशून्यैरिति । वेदपरिग्रहे न कश्चिद् दृष्टो हेतुरित्याह-न ह्यत्र इति । न च सिद्धपुरुषार्थावगत्युपाय आगमान्तरेऽनधिकारिणः केचिद् गत्यन्तराभावादर्थसंदेहादेवात्र प्रवर्त्तन्ते । यद्ययं वेदागमः प्रमाणं स्यात् ततः पुरुषार्थसिद्धिः, नो चेत् पूर्वावस्थाया न हानिरिति । न तु प्रामाण्यनिश्चयादिति वाच्यमित्याह-नापि इति । परैर्बौद्धैः, सम्मतानामप्यत्र प्रवेशो नास्ति किमु तैरपि त्यक्तानामिति । न वागमान्तराणां भक्ष्याभक्ष्यविभागपरत्वादसिद्धप्रामाण्यान्यपि तानि परि- त्यज्य स्वैरभक्षणार्थमत्र प्रवर्त्तन्त इत्याह-नापि इति । भक्ष्यस्य पेयस्य वा भक्ष्येण पेयेन च सह द्वैतं नास्ति किं तु सर्वं भक्ष्यं च पेयं चैकत्वमेव तयोरिति कामयमाना इति । नापि कुतर्काभ्यास- वन्तस्तैः कुतर्कैः प्रमाणमेवेदं प्रमाणतया निश्चित्य प्रवर्त्तन्ते तदभ्यासविरहिणामेव कुमाराणां प्रवृत्ते- रित्याह-नापि इति । नापि संभवद्विप्रलम्भैः षण्डजैः संसर्गेण तैर्विप्रलब्धाः प्रवर्त्तन्ते, पितृपितामहा- दयोऽत्र प्रवृत्ता इत्यवगम्य प्रवृत्तेरित्याह-नापि इति । 'नापि योगमभ्यस्यता मया तूष्णीमास्यत इति व्यपदेशेनाव्यग्रतां निर्व्यापारतां फलत्वेनाभिसंधायात्र प्रवृत्तिरित्याह-नापि इति । कर्मकाण्डे ह्ययं प्राथमिकः प्रवृत्ते न तु ब्रह्मकाण्डे “ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” इति वचनात् तत्र चास्यानेकधाऽनुष्ठानव्यग्रत्वात् । यद्वा, अन्तिममोक्षाश्रममप्राप्तः प्राथमिकस्तस्य कर्मकाण्डव्यग्रत्वादिति । नापि जीविकाऽत्र प्रवृत्तेर्निमित्तं, 'दृष्टलाभफला नापि' (न्या०कु० १ । ८) प्रकाशः । नादिरेवायं संप्रदाय इत्यत्र न किञ्चिदनिष्टमित्यत आह । तथा चेति । प्रवाहत्वादिति शेषः । धर्मो = यागादिः, तस्य ग्लानिरुच्छेदः । अधर्मस्य = मण्डलीकरणादेः । संस्थापना = व्यवस्था । ननु महाजनपरिग्रहाद्वेदस्य प्रामाण्यधौः, स एव क इत्यत आह कः पुनरिति । हेतुदर्शनेति । अनन्यथासिद्धप्रवृत्तिविषयत्वमित्यर्थः । तदेवाह । न ह्यत्रेति । निमित्तमित्यग्रे सर्वत्रानुषज्ज्यते । योगेति । योग एव कर्तव्यो, न तु चित्तविक्षेपहेतुर्यागादिरित्यभिमानेनेत्यर्थः । प्राथमिकस्येति । ब्रह्मचारिण इत्यर्थः । योग्यव्यग्रताभिमानेन कर्मकाण्डे प्रवृत्तिर्न स्यात् तस्य

सुतरां व्यग्रत्वात् । नापि जीविका, प्रागुक्तेन न्यायेन दृष्टफलाभावात् । नापि कुह- कवञ्चना, प्रकृते तदसम्भवात् । सम्भवन्ति चैते हेतवो बौद्धाद्यागमपरिग्रहे । तथा हि। भूयस्तत्र कर्मलाघव- मित्यलसाः । इतः पतितानामप्यनुप्रवेश इत्यनन्यगतिकाः । भक्ष्याद्यनियम इति रागिणः । स्वेच्छया परिग्रह इति कुतर्काऽभ्यासिनः । पित्रादिक्रमाभावात् प्रवृत्ति- रिति पाषण्डसंसर्गिणः । “उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते” इत्यादिश्रव- णाद्व्यग्रताऽभिमानिनः । सप्तघटिकाभोजनादिसिद्धेर्जीविकेत्ययोग्याः । आदित्य- स्तम्भनं, पाषाणपाटनं, शाखाभङ्गो, भूतावेशः, प्रतिमाजल्पनं, धातुवाद इत्याद्युप- न्यसात् कुहकवञ्चिताः । ततस्तान् परिगृह्णन्तीति सम्भाव्यते । अतो न ते महाजन- परिगृहीता इति विभागः । स्यादेतत् । यद्येवं सर्वकर्मणां वृत्तिनिरोधो न किञ्चिदुत्पद्यते, न किञ्चिद्विन- श्यतीति स्तिमिताकाशकल्पे जगति कुतो विशेषात् पुनः सर्गः ? । प्रकृतिपरिणते- रिति साङ्ख्यानां शोभते । ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते । वासनापरि-


⁘ बोधनी। इत्यनेन निरस्तत्वादित्याह-नापि इति । नापि कुहकानां वञ्चकानां वञ्चना प्रवृत्तेर्निमित्तं वेदागमे वञ्चनाया असम्भवादित्याह-नापि इति । न ह्यत्रादित्यस्तम्भादीनामुपाया उपदिश्यन्त इति । अत्रासंभवन्तः सर्व एवैते दृष्टहेतवो बौद्धाद्यागमपरिग्रहे संभवन्तीत्याह-संभवन्ति तु इति । संभवमेव दर्शयति-यथा हि इति । बौद्धादयोऽपि विहारकुहरकोटरेषु चक्षुषी निमील्य निर्व्यापारा आसत इत्यलसास्तान् बौद्धाद्यागमान् परिगृह्णन्तीति संबन्धः । इतः वैदिकात् पथः, रागिणः सोज्यायद्वेतरागिणः स्वेच्छया परिग्रहः पित्रादीनां नियामकानामभावात् । अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते । आदित्यस्तम्भनादीनामुपायस्य बौद्धाद्यागमेषूपदिष्टत्वात् कुहकवञ्चिताः परिगृह्णन्ति । अतः' यत एव दृष्टहेतवः संभवन्तीति । तदेवं प्रसङ्गाद्वेदप्रामाण्यहेतोर्महाजनपरिग्रहस्य स्वरूपं दर्शयित्वाऽधिकृतयोरेव सृष्टिप्रलययो र्किचनाशङ्कते-स्यादितत् इति । विश्वोत्पत्तिनाशयोर्निमित्तानां कर्मणां प्रलयावस्थायां युगपन्निरुद्धवृ- त्तित्वेन कस्यचिदपि वस्तुन उत्पत्तेर्विनाशस्य चासंभवात् स्तिमिताकाशसदृशं जगदवतिष्ठते, तदा चागन्तोः कुतो हेतुविशेषात् पुनः सर्गः ? न हि तदा हेतुविशेषः कुतश्चिदस्ति, न हि तमन्तरेणा- हेतुकः सर्गः संभवतीति । प्रकृतेर्महदादिरूपेण परिणतेः पुनः सर्गोऽस्त्वित्यत्राह-प्रकृतिपरिणतेः इति । मातुलदुहितेव दाक्षिणात्यानां न तु प्रामाणिकानाम्, प्रकृतिनित्यत्वयोरप्रामाणिकत्वात्त- त्परिणतिहेतोरागन्तुकस्याभावाच्चेति । ब्रह्मपरिणतेरिति भास्करगोत्र एव युज्यते कुलवधूरिव श्रोत्रियगोत्रे । वासना नाम = आलयसंततिपतितानां ज्ञानक्षणानां पूर्वं पूर्वं विज्ञानं, तस्य परिपाकः प्रकाशः । योगवहिर्भावादित्यर्थः । प्रागुक्तेन = विफला विश्ववृत्तिर्न-इत्यादिना ॥ बौद्धाद्यागमपरिग्रहे अन्यथासिद्धिमाह-सम्भवन्तीति । उभयोरिति । "अत्यन्तमलिनः कायो देही चाऽत्यन्तनिर्मलः"-इति पूर्वार्द्धम्। साङ्ख्या- नामिति । प्रकृतिपरिणतावपि प्रयोजनाकाङ्क्षायाः सत्त्वात् तेषामेव शोभते, न त्वस्माकमित्यर्थः । एवमग्रेऽपि । भास्करः = त्रिदण्डिमतभाष्यकारः । ननु वर्तमानापाद्यभावेऽप्यतीतसूर्यस्पन्दा

३०४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां पाकादिति सौगतमतमनुधावति । कालविशेषादिति चोपाधिविशेषाभावादयुक्तम् । असताञ्चोपलक्षणानां न विशेषकत्वं, सर्वदा तुल्यरूपत्वात् । न च ज्ञानद्वारा । अनित्यस्य तस्य तदानीमभावात् । नित्यस्य च विषयतः स्वरूपतश्च अविशेषा- दिति चेन्न । शरीरसंक्षोभश्रमजनितनिद्राणां प्राणिनामायुःपरिपाकक्रमसम्पादनैक- प्रयोजनश्वाससन्तानाऽनुवृत्तिवन्महाभूतसंप्लवसंक्षोभलब्धसंस्काराणां परमाणूनां मन्दतरतमाऽऽदिभावेन कालावच्छेदकप्रयोजनस्य प्रचयाख्यसंयोगपर्यन्तस्य कर्मस- बोधनी । सहकारिलाभस्तस्मादिति सौगतमतमनुधावति वेशवनितेव धनवन्तमिति । कालविशेषावच्छिन्नया भगवतः सिसृक्षया सहकृतैर्भौक्तिककर्मभिः परमाणुषु क्रियोत्पत्तौ तेषां परस्परसंयोगाद् द्व्यणुकादिक्र- मेण पुनः सर्ग इति नैयायिकानां मतमाशङ्कयाह-कालविशेषात् इति । कालस्य स्वतः भेदाभावा- दुपाधिविशेषाद्विशेषो वक्तव्यः, प्रलये च कालावच्छेदकस्योपाधेरभावादिति न संगच्छत इति । नन्वसन्त एव तदानीमुपाधयः सर्वकालमुपलक्षयिष्यन्ति असतामेवोपलक्षणत्वादविरोधादित्यत्राह- असतां च इति । कुत इत्यत आह-सर्वदा इति । प्रलयारम्भात् प्रभृति सर्वोपाधीनामसत्त्वेन विशेषात्तैवागन्तुकसर्गकालस्य विशेषकत्वमिति । ननु मा भूवन्नसन्तो विशेषकाः सर्वदा तुल्यरूप- त्वात् तथापि तद्विषयं विज्ञानं कदाचिदुपपद्यते, ततश्चागन्तुकज्ञानावान्तरव्यापारद्वारा तेषामेव विशे- षकतवं भविष्यतीत्याशङ्कयाह-न च ज्ञानद्वारा इति । तच्च ज्ञानमस्मदादीनां भवेदीश्वरस्य वा ? नाद्यः-तस्यानित्यत्वेन प्रलये विनाशाच्छरीरेन्द्रियादिकारणाभावेन पुनरनुत्पादाच्च । न द्वितीयः- तस्य नित्यसर्वविषयस्य च स्वरूपतो विषयतश्चाविशेषकत्वात् । ततश्च सर्गादावागन्तोः कस्यचिद्धे- तोरभावानुत्पत्तिः सर्वदा उत्पत्तिर्वा सर्वस्य स्यात्, न तु कदाचिदुत्पत्तिरिति चोद्याभिप्रायः । न इति । मा भूवन्नन्ये प्रकृतिपरिणामादयः सर्गस्य निमित्तं, कालविशेषस्तु भविष्यति । अस्ति च तदानीं तस्योपाधिविशेष ईश्वरनिःश्वसितलक्षणः । कथमशरीरस्य तस्य निःश्वसितमित्यत उक्तं- परमाणूनां कर्मसंतानस्य इति । परमाणवो हीश्वरशरीरं साक्षात्प्रयत्नाधिष्ठेयत्वात्, तेन तदा श्रयं कर्मेश्वरनिःश्वसितं भवति । तथा च श्रुतिः-"अस्य महतो भूतस्य निःश्वसितमेतत्" इति ननु यदि परमाणुषु कर्म स्यात् तर्हि संयोगस्यावर्जनीयत्वाद् द्व्यणुकादिक्रमेण तदानीमेव विश्वं जगदुत्पद्येत, अत उक्तं-प्रचय इति । प्रचयाख्यमेव संयोगं तदा कर्मारभते न तु कार्यारम्भकं, तर्हि किमर्थं कर्मसंतानोऽनुवर्त्तत इत्यत उक्तं-कालावच्छेदकप्रयोजनस्य इति । इयन्तं कालं प्रलीनं ब्रह्माण्डमिति प्रलयकालावच्छेद एव प्रयोजनं तस्य नान्यत् । सर्वस्मिन्नेव प्रलीने कुतः क- र्मण एवोत्पत्तिरित्यत उक्तं-महाभूत इति । महाभूतानां पृथिव्यप्तेजोवाय्ववयविनां संप्लवो=विनाशः तदर्थं यः संक्षोभोऽभिघातस्तेन तदारम्भकेषु परमाणुषु कर्मोत्पत्तिद्वारेण वेगाख्यः संस्कार उत्प- द्यते, तेन चावयविनाशोत्तरकालमपि मन्दतरतमादिभावेन कर्मसंतानोऽनुवर्त्तते, कार्यान्तराभावेऽपि कालावच्छेदकप्रयोजनमीश्वरनिश्वसितमनुवर्त्तत इत्यत्र दृष्टान्तः-शरीर इति । यथा हि निद्राणानां प्राणिनामेतावानस्यायुषो भोग इदानीं परिपक्वः इदानीं त्वेतावानित्यायुःपरिपाकक्रमसंपादनेकप्र- प्रकाशः । उपाधयः स्युरित्यत आह । असतामिति । तस्य = ज्ञानस्येत्यर्थः । शरीरेति । यथा सुपुप्तौ कर्मणां युगपद्वृत्तिनिरोधेऽपि श्वासानुवृत्तित्वात् कदाचित् प्रबोधस्तथा परमाणूनां कर्मसन्ताना- नुवृत्तिवशात् कदाचित् सर्ग इत्यर्थः । प्रचयेति । यावत् प्रचयाख्यः संयोगोऽनुवर्त्तते, तावत् कर्मसन्तानाऽनुवृत्तिरित्यर्थः । प्रचयश्च यद्यप्यवयवमात्रवृत्तिः संयोगस्तथापि द्व्यणुकारम्भकसंयो- गमात्रमेव विवक्षितम् ।

द्वितीयस्तबके ] सर्गोपपादनम् । ३०५ न्तानस्येश्वरनिःश्वसितस्याऽनुवृत्तेः । कियानसावित्यत्राविरोधादागमप्रसिद्धमनति- क्रम्य तावन्तमेव कालमित्यनुमन्यते । ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः । तदवच्छिन्ने काले पुनः सर्गः । यथा खल्वालाबुलतायां विततानि फलानि, तथा परमेश्वराकाशेऽनुस्यूतानि सहस्रशोऽण्डानीति श्रूयते । तस्मादेवं विच्छेदसम्भवे कस्य केन परिग्रहो, यतः प्रामाण्यं स्यात् । ज्ञापकश्चायमर्थो न कारकः ततः कार- काभावान्नियतं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत् । बोधनी । योजनः श्वाससंतानोऽनुवर्त्तते, इतरथा हि तदानीं जीवनकालावच्छेदयोग्यक्रियाभावादियन्तं कालम- नेन जीवितमतोऽयमायुर्मागः पक्व इति तत्क्रमो न स्यादिति। यद्यत्र कश्चित्पृच्छेत् कियान्तं कालमसौ प्रलयोऽनुवर्त्तत इति, तत्रैवमुत्तरितव्यमित्याह-कियानसौ इति । प्रमाणविरोधाभावादागमप्रसि द्ध्यनुसारेण यावन्तं कालं सर्गानुवृत्तिस्तावन्तं कालमिति । यद्वा, यावानागमेषूपदिश्यते तावानिति । सर्वथा ब्राह्मेण मानेन वर्षशतमिति । उपाध्यन्तरमाह-ब्रह्माण्डान्तर इति । यदेकस्मिन् ब्रह्मा- ण्डे विनष्टे ब्रह्माण्डान्तरमुत्पद्यते तद्व्यवहारो वा तत्समये भाविनो ब्रह्माण्डान्तरस्यानुवृत्तिकालं यावद- न्यस्य प्रलय इत्यर्थः । सन्ति च बहूनि ब्रह्माण्डानीत्याह-यथा खल्विति । श्रुतिरेवात्र प्रमाण- मित्यर्थः । परमप्रकृतमुपसंहरति-तस्मादिति । उक्तैर्हेतुभिरेव सर्वेषां विच्छेदे परिग्राह्यपरिग्रही- तृपरिग्रहाणामभावान्न तद्द्वारेण प्रामाण्यं शक्याभ्युपगममिति । परिग्रहमङ्गीकृत्याप्याह-ज्ञापक श्चेति । महाजनपरिग्रहः खलु प्रामाण्यस्य ज्ञापकः । ननु ज्ञापकानि च कारकोत्पादितानीति केवलं ज्ञापयन्ति, शब्दानां च मूलप्रमाणवत्ता प्रामाण्यकारणं, न हि सा नित्यस्य संभवति, स्वतः प्रामाण्यमित्युक्तं, ततः कारकाभावानिवर्त्तमानं प्रामाण्यं ज्ञापकाभिमतः परिग्रहः सन्नपि कथं व्यव- स्थापयेत् । न हि सहस्रचक्षुरपाऽपि नभसि नभस्वति वा रूपं शक्यसंपादमिति । प्रकाशः । कियानिति । ब्रह्मवर्षशतमेव कालोपाधिरित्यागमप्रसिद्धेरास्थीयते इत्यर्थः । यद्वा, प्रकृत- ब्रह्माण्डान्यब्रह्माण्डवृत्तिः कालोपाधिरित्याह । ब्रह्माण्डेति । पूर्वं शब्दनित्यत्वस्य प्रवाहाविच्छेद- रूपस्य नित्यत्वस्य चासिद्धिरुक्ता । इदानीमस्मदभिमतस्यापि महाजनपरिग्रहस्य सर्गादावसम्भ- वादसिद्धिमाह । एवमिति । किञ्च महाजनपरिग्रहः प्रामाण्यज्ञापको, न तूत्पादकः, यस्तूत्पादको गुणस्तदभावे ग्राह्यस्य प्रामाण्यस्याभावात् किन्तेन ग्राह्यमित्याह । ज्ञापकश्चेति । अयमर्थो = महाजनपरिग्रहरूपः । द्वितीयामन्यथासिद्धिं दूषयितुमुपन्यस्यति- प्रकाशिका । भाविप्रवाहोच्छेदयोः सिद्धिः कुत इत्यर्थः । षष्ठीसमासेऽन्यथेत्यादेरसङ्गतेः । यद्यपि भाविप्रवाह- सिद्धयैव दृष्टान्तसिद्धिः, तथापि तदुच्छेदासिद्धौ उत्पन्नब्रह्माण्डादेर्विनाशित्वे इदानीन्तनब्रह्माण्ड- स्याप्यनाशप्रसङ्ग इत्याशयेनोच्छेदोऽप्युक्तः । "परैः पूज्यमानानामप्यत्र प्रवेशा"दिति मूलं पूज्य- त्वमत्र सदर्शनं प्रविशन्त्विति श्लाघाविषयत्वं तथा च नान्यत्रानधिकारेणात्र प्रवेश इत्यर्थः । क्वचि- दप्रवेशादिति पाठः, तत्र तन्मतपूज्यानामपि चेदत्रानधिकारस्तर्हि तन्मतानधिकृतानामत्र प्रवेशा- मकरन्दः । दिति मूलम्। पाषण्डैः स्वमतप्रवेशार्थं पूज्यमानानामप्यत्र प्रवेशदर्शनादनन्यगतिकतया नात्र प्रवेश इत्यर्थः । वस्तुतोऽप्रवेशादिति पाठः । अत एव बौद्धाधिकारेऽपि तथैव पाठः । तत्र तन्मतप्रवि- ष्टानां पूज्यानामेव नात्र प्रवेशाधिकारः, तत्राप्यनधिकृतानामत्र प्रवेशस्त्वसम्भावित एवेत्यर्थः । ३६ न्या० कु०

३०८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां विशेषेण ब्राह्मणत्वाद्यप्रतिसन्धानेऽनुष्ठानरूपस्याश्वासस्याभावात् । न हि पूर्वजन्मनि मातापित्त्रोर्ब्राह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमो, येन सर्गादौ वर्णादिधर्मव्यवस्था स्यात् । ईश्वरवददृष्टविशेषोपनिबद्धभूतविशेषानुपलम्भात् । अतीन्द्रियार्थदर्शित्वे चानाश्वासस्योक्तत्वात् । एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्त्तनमपास्तम् । सञ्चार- शङ्केरभावात् । वर्षान्तरसञ्चरणमेव हि दुष्करं, कुतो लोकान्तरसञ्चारः, कुतस्त- राञ्च ब्रह्माण्डान्तरगमनम् । अणिमादिसम्पत्तेरेवमपि स्यादितिचेन्न । अत्रापि प्रमा- णाभावात् सम्भावनामात्रेण समाश्वासानुपपत्तेः । आद्यमहाजनपरिग्रहान्यथाऽनुपप- त्तिरेवात्र प्रमाणमिति चेत् । न । एवम्भूतेककल्पनयैवोपपत्तौ भूयःकल्पनायां गौरव- प्रसङ्गात् । विदेहनिर्माणशक्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् । अस्त्वेक एवेतिचेत्, न तर्हीश्वरमन्तरेणान्यत्र समाश्वास इति ॥ ३ ॥ बोधनी । श्वास्यन्तीत्याह-ईश्वरवत् इति । स हि तज्जातिविशेषे निमित्तमदृष्टविशेषसहकृतभूतभेदारब्ध- शरीरत्वं जानाति नित्यसर्वज्ञत्वेनादृष्टविशेषवेदित्वात्तस्य, नैवं कपिलादयः तेषामदृष्टविशेषज्ञानहे- तोर्भावनाया निरस्तत्वादिति । तर्हि ब्रह्माण्डान्तरवर्तिनो ब्राह्मणा ब्राह्मणदिवर्णान् तत्र संचार्य तत्तद्वर्णविशेषप्रयुक्तान् धर्मान् व्यवस्थापयन्तीत्याह-एतेन इति । एतेन वक्ष्यमाणेन संचरण- शक्त्यभावेनेति । अणिमादि इति । अणिमा, महिमा, लघिमा, गरिमा, प्राप्तिः, प्राकाम्यमी- शित्वं, वशित्वमित्येभिरैश्वर्यैः संपन्नाः कपिलादयः । ततस्तेषां किन्नाम दुष्करमिति । न इति । अत्राणिमादिसंपत्ताविति । तत्र संभावना तावदस्तीत्याह-संभावना इति । आद्य इति । अत्र कपिलादीनामैश्वर्येऽतीन्द्रियार्थदर्शित्वे च तदानीन्तनमहाजनपरिग्रहान्यथानुपपत्तिः प्रमाण- मिति । न इति ॥ विशिष्टैकरूपकल्पनयापि परिग्रहस्योपपत्तौ न भूयसां विशिष्टानां कल्पनायां प्रमाणमस्तीति । नन्वेककल्पनायामपि तस्य विदेहस्यैव निर्मातुं शक्तिरणिमाद्यैश्वर्यसंपत्तिश्च कल्प्येतेति कल्पनागौरवमस्त्येवेत्यत्राह-विदेह इति । अनेककल्पनायामपि तद्विशिष्टमेवे- त्यर्थः । अस्तु तर्हि कपिलादीनामन्यतमः स एकः किमीश्वरेणेत्यत्राह-अस्तु इति ॥ ३ ॥ यद्येक एवाङ्गीक्रियते स तर्हीश्वर एव स्यात् तमन्तरेणान्यत्र कपिलादावनाश्वासस्योक्तत्वा- दिति परिच्छेदार्थं संकलप्य दर्शयन् सर्वास्वपि जातिष्वात्मनः परमेश्वरं प्रति प्रणतिं प्रार्थयते प्रकाशः । प्रत्यक्षादित्याह । न हीति । ननु यथेश्वरेणादृष्टविशेषजन्यतया शरीरे ब्राह्मण्यदि साक्षात्कृत्य सर्गादौ कपिलादयो वेदमध्याप्यन्ते, तथा कपिलादिभिरप्यध्येष्यत इत्यत आह । ईश्वरवदिति । अणिमादिसम्पत्तावप्यागम एव मानम् । तत्प्रामाण्यग्रह एव चानाश्वास इत्याह । अत्रापी- ति । हेतुदर्शनशून्यैर्ग्रहणधारणादिरूपमहाजनपरिग्रहानुपपत्तिरेवाऽणिमादिसम्पत्तौ मानमित्याह । आद्येति । तथाविधाः किं बहवः कल्पनीयाः, एक एव वा ? नाद्य इत्याह । एवमिति । कल्प- नायां लाघवसाचिव्यादेक एव विषय इति तन्नानात्वे मानाभाव इत्यर्थः । कल्पनागौरवमाह विदेहेति । विविधो देहो विदेहः । अन्त्यमाशङ्क्य ईश्वरादन्यत्रानाश्वासेन तत्रैव पर्यवसानमिति परिहरति । अस्त्वित्यादि ॥ ३ ॥ मकरन्दः । न्धानं न स्यात्, न त्वेवमित्यर्थः । मूलयुक्तिमाह । कल्पनायामिति ॥ ३ ॥

द्वितीयस्तवके] ईश्वरे समाश्वासोपसंहारः। ३०६ कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन् हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति ॥ तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवं विश्वालैकसुवं शिवं प्रति नमन् भूयासमन्त्येष्वपि ॥४॥ इति द्वितीयः स्तवकः ॥ २ ॥ बोधनी। -कारं कारम् इति। संसारिचेतनवर्गसमवेतमदृष्टं माया, तद्वशादलौकिकमन्यत्रादृष्टचरमद्भुत- मयं विचित्रं च जगत्कृत्वा कृत्वा पुनः संहृत्य संहृत्य पुनरपि कुर्वन् ऐन्द्रजालिक इवेन्द्रजालं यः क्रीडति तं देवं, निरवग्रहस्फुरदभिध्यानानुभावं निरवग्रहम्=अप्रतिघातं, स्फुरत् प्रकाशमानम्। अभिध्यानं सर्वानपि विषयान्दृष्टपरमाण्वादीनभिध्याय व्यवस्थितं ध्यानं ज्ञानं, तदेव तस्यानुभावो = महिमा यस्य तथोक्तः । यद्वा, अनुभावः = क्रियाशक्तिः, अप्रतिहते सर्वविषये ज्ञानशक्तिक्रिया- शक्ती यस्य स तथा । नित्यज्ञानत्वेन विश्वासभुवां कपिलादीनां निरस्तत्वात् तस्यैकभुवं शिवं प्रति नमन्, भूयासमन्त्येष्वपि जननेषु नीचास्वपि जातिषु वर्तमानः शिवं प्रति नमन् भूयासमिति यावत् । यदि शिवं प्रति नमन् भवे, अन्येष्वपि भूयासम्, अन्यथा तूत्तमेष्वपि न भूयासमित्यर्थः॥४॥ इति श्रीमद्दामदेवमिश्रसूनोर्वरदराजस्य कृतौ न्यायकुसुमाञ्जलिटीकायां द्वितीयः परिच्छेदः॥ प्रकाशः। परिच्छेदार्थमुपसंहरन् ईश्वरस्य नतिमाह । कारमिति । जगत् = कार्यद्रव्यजातं, कृत्वा कृत्वा संहरन्, हृत्वा हृत्वा सृजन् , मायावशात् सृष्टिसंहारसहकारिसम्पत्तेर्यः क्रीडतीव, तं, देवं= स्तुत्यं, सत्यविश्वासाैककारणं, भवं = जगन्मूलकारणम्, निष्प्रतिबन्धस्फुरदिच्छाप्रभावं शिवं प्रत्यु द्दिश्य नमन्नन्तकालेष्वपि भूयासमित्याशंसा ॥ ४ ॥ इति श्रीमहामहोपाध्यायश्रीवर्धमानविरचिते कुसुमाञ्जलिप्रकाशे द्वितीयः स्तवकः॥ २ ॥ प्रकाशिका। जगतो नित्यघटितत्वात्, संहरणादिकमसम्भवोति व्याचष्टे । कार्यद्रव्येति । कार्यमात्र- संहरणं महाप्रलय एवेति तत्र पौनःपुन्यमनुपपन्नमत उक्तं-द्रव्येति । माया पदार्थान्तरं न्यायमते नास्त्येव, मिथ्याज्ञानात्मिकापि नेश्वर इत्यन्यथा व्याचष्टे-सृष्टीति । तथा चादृष्टमेवात्र मायापदार्थ इति भावः। क्रीडनमपि वास्तवमीश्वरे बाधितमित्यत आह-इवेति। ननु दीव्यतीति देवः खेदः दैवनं च क्रीडनं तच्चेश्वरे नास्तीत्य ( त आह ) र्थान्तरमाह । स्तुत्यमिति । अवग्रहशब्दस्यैव वृत्तिप्रतिबन्धके शक्तिर्न च तेनार्थेन प्रकृते सङ्गतिरिति प्रतिबन्ध- कमात्रपरतया व्याचष्टे-निष्प्रतिवन्धकेति । अन्त्येष्वपीत्यर्थः । विशिष्टस्य भवनस्याऽऽशंसायां मुमुक्षुताविरोधः बहुत्वविशिष्टस्यान्तस्य जन्मबहुत्वाधीनत्वात्, न च जन्म मुमुक्षोराशंसनीय- मित्याशंसाविषयं विच्छिद्य दर्शयति । भूयासमित्याशंसेति । तेन भूयासमित्याशीर्लिङ् स्फु- टत्वादाशंसेति विफलमिति न दोषः । तथा च नमनविशिष्टभवनमात्रमाशास्यमित्यर्थः ॥ ४ ॥ इति श्रीमद्महामहोपाध्यायश्रीभगीरथापरनामकमेघठक्कुरविरचितायां कुसुमाञ्जलिप्रकाशिकायां द्वितीयः स्तवकः। मकरन्दः। नित्यस्य संहरणादिकमसम्भवीति व्याचष्टे-कार्यद्रव्येति । कार्यमात्रसंहरणं महाप्रलय- एवेति तत्राभीक्ष्णत्वमनुपपन्नं तस्याप्रकृतत्वञ्चेति द्रव्यपदमुपात्तम् । ईश्वरस्य मायावित्वे संसारित्वा पत्तिरिति व्याचष्टे सृष्टीति । वास्तवक्रीडनमपि तस्य नास्तीत्यत आह । इवेति ॥ ४ ॥ इति महामहोपाध्यायदेवदत्तात्मजमहामहोपाध्यायरुचिदत्तविरचिते कुसुमा- ञ्जलिप्रकाशव्याख्याने मकरन्दे द्वितीयः स्तवकः॥

The provided image is severely degraded, overexposed, and washed out due to extreme binarization/scanning loss. The ink/text across virtually the entire page consists only of faint, disconnected specks and noise, making the actual Devanagari characters completely illegible and impossible to transcribe reliably without hallucinating text.

If you have access to a clearer, higher-resolution, or grayscale scan of this page, please provide it for an accurate transcription.

श्रीगणेशाय नमः ॥ न्यायकुसुमाञ्जलौ तृतीयस्तवकः । नन्वेतदपि कथं, तत्र बाधकसंभवात् । तथा हि । यदि स्यादुपलभ्येत । अयो- ग्यत्वात् सन्नपि नोपलभ्यते इति चेदेवं तर्हि शशशृङ्गमप्ययोग्यत्वान्नोपलभ्यते इति स्यात् । नैतदेवम् । शृङ्गस्य योग्यतयैव व्याप्तत्वादिति चेत् । चेतनस्यापि योग्यो- बोधनी । तदेवमीश्वरविषयस्योपदेशलिङ्गानुमानस्य़ान्यथासिद्धिर्निराकृता । अयेदानीं तदभाववेदक- प्रमाणसद्भावादित्याशङ्कितं, तस्य कालात्ययापदिष्टत्वं निराचिकीर्षुः स्मारयति तावत्—नन्वेतदपि इति । मा भून्नित्यवेदद्वारा वा कपिलादिद्वारा वा धर्मसंप्रदायसंस्थाप्येतदीश्वरद्वारकत्वमपि कथं सिध्यति, तत्रेश्वरे बाधकसंभवात् । यद्वा, यद्यप्यन्यथासिद्धिर्निराकृता, तथाप्येतत्परोक्तं कालात्ययापदिष्टत्वं कथं निरसनीयम् । यद्वानन्यत्प्रत्यक्षं सिद्धमप्येतत्कथं साधकं तत्रानुमाने बाधक सद्भावादिति । बाधकमेवोपपादयितुमुपक्रमते—तथा हि इति । तत्र प्रत्यक्षानुपलम्भेन बाधकं तावदाह—यदि स्यात् इति । न चोपलभ्यत इति शेषः । तर्केणानेनानुगृहीतं प्रत्यक्षं जग- त्कर्तुरभावमावेदयतीति भावः । सिद्धान्ती शङ्कते—अयोग्यत्वात् इति । योग्यानुपलम्भो हि बाधक इति । एवं तर्हि इति । न चासत्त्वादिति शेषः । शशशृङ्गप्रतिबन्दीमुन्मोचयन् सिद्धान्ती शङ्कते— नैतदेवम् इति । शृङ्गस्य रूपवत्त्वमहत्त्वाभ्यां प्रत्यक्षयोग्यत्वेन गवादिस्थशृङ्गे व्याप्तिदर्शनादस्यापि शृङ्गस्य सतो योग्यतया भवितव्यम्—तस्माच्छशशृङ्गस्य योग्यानुपलम्भोऽस्तीति । इतरः पुनरीश्वर- स्यापादयति—चेतनस्य इति । चेतनादियोगिनो हीश्वरस्य शरीराद्युपाधिसंबन्धोऽवश्यंभावी तत्कार- प्रकाशः । तृतीयां विप्रतिपत्तिं दूषयितुमुपन्यस्यति— नन्वेतदपीति । अन्यथासिद्धिनिराकरणमपि कथममीश्वरसाधनाय, तत्र प्रत्यक्षबाधादित्यर्थः । तत्र स्वरूपसदनुपलब्धिसहकृतप्रत्यक्षबाधमाह । तथा हीति । यद्यप्यनुपलम्भेनेश्वान्योन्याभावात्य- न्ताभावसाधने इष्टापत्तिः, प्रागभावप्रध्वंससाधने चापसिद्धान्तः । तथापि क्षित्यादिकं यदि सकर्तृकं, वेदश्च यदि सकर्तृकः स्यात्तदा तद्वत्तयोपलभ्येत इत्यर्थः । अनुपलब्धिमात्रस्य बाधकतायामयोग्यो- च्छेद इति योग्यानुपलब्धिर्वाधिकेति वाच्येत्याह । अयोग्यत्वादिति । एवं शशः शृङ्गी पशुत्वादित्य- त्रापि तद्बाधो न स्यादयोग्यत्वाच्छृङ्गस्येत्याह । एवमिति । शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यतया योग्यव्यक्तिवृत्तित्वनियमाद्योग्यं शृङ्गमित्याह । शृङ्गस्येति । एवं शरीरविशिष्टात्मनि कर्तृत्वेन कर्तृयोग्यता नियमाद्विशेषणबाधेन विशिष्टबाध एवेत्याह । चेतनस्यापीति । न तु कर्तृव्यापकशरी- प्रकाशिका । श्रीगणेशः पातु । अनुपलब्धेः स्वातन्त्र्येण न बाधकत्वमप्रमाणत्वादत आह । तत्रेति । इष्टापत्तिरिति । यद्यपि भावाभावसाधारणपदार्थमात्र ईश्वरान्योन्याभावसाधने नेष्टापत्तिः, एवमीश्वरसत्ता- विरोध्यत्यन्ताभावसाधनेऽपि । तथापि तथासति असत्प्रतियोगिकत्वमेव दोषोऽन्यथा त्विष्टापत्तिरित्यत्र तात्पर्यम् । अनुपलब्धिमात्रस्य बाधकत्वेऽयोग्यत्वाभिधानमफलमत आह । अनुपलब्धिमात्रस्येति । विशेषणबाधेनेति । विशेषणबाधात्मक एव विशिष्टबाध इत्यर्थः । मीमांसकैर्विशेषणाभावादी- मकरन्दः । अनुपलब्धेः स्वातन्त्र्येण प्रामाण्यानभ्युपगमान्न बाधकत्वमत आह तत्रेति । विशेषणबाधेनेति ।