न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 343, कुल 608 में से
संदर्भ में पढ़ेंश्रीगणेशाय नमः ॥ न्यायकुसुमाञ्जलौ तृतीयस्तवकः । नन्वेतदपि कथं, तत्र बाधकसंभवात् । तथा हि । यदि स्यादुपलभ्येत । अयो- ग्यत्वात् सन्नपि नोपलभ्यते इति चेदेवं तर्हि शशशृङ्गमप्ययोग्यत्वान्नोपलभ्यते इति स्यात् । नैतदेवम् । शृङ्गस्य योग्यतयैव व्याप्तत्वादिति चेत् । चेतनस्यापि योग्यो- बोधनी । तदेवमीश्वरविषयस्योपदेशलिङ्गानुमानस्य़ान्यथासिद्धिर्निराकृता । अयेदानीं तदभाववेदक- प्रमाणसद्भावादित्याशङ्कितं, तस्य कालात्ययापदिष्टत्वं निराचिकीर्षुः स्मारयति तावत्—नन्वेतदपि इति । मा भून्नित्यवेदद्वारा वा कपिलादिद्वारा वा धर्मसंप्रदायसंस्थाप्येतदीश्वरद्वारकत्वमपि कथं सिध्यति, तत्रेश्वरे बाधकसंभवात् । यद्वा, यद्यप्यन्यथासिद्धिर्निराकृता, तथाप्येतत्परोक्तं कालात्ययापदिष्टत्वं कथं निरसनीयम् । यद्वानन्यत्प्रत्यक्षं सिद्धमप्येतत्कथं साधकं तत्रानुमाने बाधक सद्भावादिति । बाधकमेवोपपादयितुमुपक्रमते—तथा हि इति । तत्र प्रत्यक्षानुपलम्भेन बाधकं तावदाह—यदि स्यात् इति । न चोपलभ्यत इति शेषः । तर्केणानेनानुगृहीतं प्रत्यक्षं जग- त्कर्तुरभावमावेदयतीति भावः । सिद्धान्ती शङ्कते—अयोग्यत्वात् इति । योग्यानुपलम्भो हि बाधक इति । एवं तर्हि इति । न चासत्त्वादिति शेषः । शशशृङ्गप्रतिबन्दीमुन्मोचयन् सिद्धान्ती शङ्कते— नैतदेवम् इति । शृङ्गस्य रूपवत्त्वमहत्त्वाभ्यां प्रत्यक्षयोग्यत्वेन गवादिस्थशृङ्गे व्याप्तिदर्शनादस्यापि शृङ्गस्य सतो योग्यतया भवितव्यम्—तस्माच्छशशृङ्गस्य योग्यानुपलम्भोऽस्तीति । इतरः पुनरीश्वर- स्यापादयति—चेतनस्य इति । चेतनादियोगिनो हीश्वरस्य शरीराद्युपाधिसंबन्धोऽवश्यंभावी तत्कार- प्रकाशः । तृतीयां विप्रतिपत्तिं दूषयितुमुपन्यस्यति— नन्वेतदपीति । अन्यथासिद्धिनिराकरणमपि कथममीश्वरसाधनाय, तत्र प्रत्यक्षबाधादित्यर्थः । तत्र स्वरूपसदनुपलब्धिसहकृतप्रत्यक्षबाधमाह । तथा हीति । यद्यप्यनुपलम्भेनेश्वान्योन्याभावात्य- न्ताभावसाधने इष्टापत्तिः, प्रागभावप्रध्वंससाधने चापसिद्धान्तः । तथापि क्षित्यादिकं यदि सकर्तृकं, वेदश्च यदि सकर्तृकः स्यात्तदा तद्वत्तयोपलभ्येत इत्यर्थः । अनुपलब्धिमात्रस्य बाधकतायामयोग्यो- च्छेद इति योग्यानुपलब्धिर्वाधिकेति वाच्येत्याह । अयोग्यत्वादिति । एवं शशः शृङ्गी पशुत्वादित्य- त्रापि तद्बाधो न स्यादयोग्यत्वाच्छृङ्गस्येत्याह । एवमिति । शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यतया योग्यव्यक्तिवृत्तित्वनियमाद्योग्यं शृङ्गमित्याह । शृङ्गस्येति । एवं शरीरविशिष्टात्मनि कर्तृत्वेन कर्तृयोग्यता नियमाद्विशेषणबाधेन विशिष्टबाध एवेत्याह । चेतनस्यापीति । न तु कर्तृव्यापकशरी- प्रकाशिका । श्रीगणेशः पातु । अनुपलब्धेः स्वातन्त्र्येण न बाधकत्वमप्रमाणत्वादत आह । तत्रेति । इष्टापत्तिरिति । यद्यपि भावाभावसाधारणपदार्थमात्र ईश्वरान्योन्याभावसाधने नेष्टापत्तिः, एवमीश्वरसत्ता- विरोध्यत्यन्ताभावसाधनेऽपि । तथापि तथासति असत्प्रतियोगिकत्वमेव दोषोऽन्यथा त्विष्टापत्तिरित्यत्र तात्पर्यम् । अनुपलब्धिमात्रस्य बाधकत्वेऽयोग्यत्वाभिधानमफलमत आह । अनुपलब्धिमात्रस्येति । विशेषणबाधेनेति । विशेषणबाधात्मक एव विशिष्टबाध इत्यर्थः । मीमांसकैर्विशेषणाभावादी- मकरन्दः । अनुपलब्धेः स्वातन्त्र्येण प्रामाण्यानभ्युपगमान्न बाधकत्वमत आह तत्रेति । विशेषणबाधेनेति ।