न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 344, कुल 608 में से
संदर्भ में पढ़ें३१२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां पाधिमत्तयैव व्याप्तत्वात् तद्बाधे सोऽपि बाधित एवेति तुल्यम्। व्यापकस्वार्थाद्य- नुपलम्भेन बाध्यनुमीयते नास्तीति। को हि प्रयोजनमन्तरेण किञ्चित् कुर्यादिति। उच्यते— योग्यादृष्टिः कुतोऽयोग्ये प्रतिबन्धिः कुतस्तराम् ॥ क्कायोग्यं बाध्यते शृङ्गं कानुमानमनाश्रयम् ॥ १ ॥ स्वात्मैव तावद् योग्यानुपलब्ध्या प्रतिषेद्धुं न शक्यते, कुतस्त्वयोग्यः परमा- बोधनी। णकत्वाच्चेतनादेर्योग्यं च शरीरादि, तथा च तस्यानुपलम्भेन बाधात् तद्गतोऽपि बाधः स्यादिति न केवलं प्रत्यक्षमन्मानमपि बाधकमित्याह—व्यापक इति। कर्तृव्यापकत्वेन स्वप्रयोजनसिद्धिः कुला- लादिषूपलब्धा, न च साऽनवाप्तावाप्तकामविरहिणि जगत्कर्त्तरि संभवति। तस्माद्व्यापकानुपलब्ध्या जगत्कर्तुरभावोऽनुमीयत इति। स्वार्थस्य कर्तृव्यापकत्वमेवाह—को हि इति। प्रयोजनमनुद्दिश्य- न मन्दोऽपि प्रवर्त्तत इति न्यायादिति। तदेवं प्रत्यक्षातुमानवाधितविषयमीश्वरानुमानमिति पूर्वपक्षेते सिद्धान्तमाह—उच्यत इति। अयोग्यत्वात्परमात्मनस्तस्मिन् योग्यानुपलब्धिः कुतो भवेत्, न कुतश्चिदित्यर्थः। यद्वा, योग्येऽपि स्वात्मन्यनुपलब्धिर्नाभावं गमयितुमलं, कुतोऽयोग्ये परमात्मनि। ततश्चोन्मोचिता शशशृङ्गप्रतिबन्दिर्न हि शृङ्गमयोग्यमनुपलब्ध्या बाध्यते, किन्तु योग्यमेव। न च परमात्मा योग्य इति। न तावत्प्रत्यक्षबाधः, न च व्यापकानुपलब्धिलक्षणमन्यद्वाऽनुमानं बाधकमेश्वर- स्यानभ्युपगमेनाश्रयासिद्धेरिति व्याचष्टे—स्वात्मैव इति। स्वात्मनः प्रत्यक्षयोग्यत्वं सुल्यहं दुःख्य- हमित्यादिप्रतीतिसाक्षिकमेवेति। किमिति स्वात्मा योग्योऽप्यनुपलब्ध्या न प्रतिषेद्धुं शक्यत इत्य- प्रकाशः। र्थाद्याधपर्यापकर्तृवाधपरोऽयं ग्रन्थः प्रत्यक्षबाधस्योपक्रान्तत्वात्। व्यापकानुपलब्धिलिङ्गिकानुमानं बाधकमाह। व्यापकेति। व्यापकश्चासौ स्वार्थादिश्चेति कर्मधारयः। आदिपदाच्छरीरादि। चेतन- प्रवृत्तेः स्वेष्टसाधनताज्ञानव्याप्तत्वात् तद्बाधनेन सापि बाधितेवेत्यर्थः। योग्यादृष्टिरिति। योग्यानुपलब्धिः क्कायोग्ये = परमात्मनि बाधिका, शृङ्गस्यापि तथात्वे तत्रापि योग्यानुपलब्धिर्न बाधिका। न हि शशशृङ्गमयोग्यं योग्यानुपलब्ध्या निषिद्ध्यते येन प्रति प्रकाशिका। नामेव विशिष्टाभावतास्वीकारात्प्रत्यक्षबाधस्येति। इदमुपलक्षणं, व्यापकेत्याद्यग्रिमग्रन्थेन पौनरु क्त्यापत्तिश्चेत्यपि द्रष्टव्यम्। न च शरीरातिरिक्तमेव व्यापकं तत्र व्यापकपदार्थो गोवलीवर्दवदिति वाच्यम्। तत्रानन्यगतेः, इह तु प्रकारान्तरसम्भवादिति। न च प्रत्यक्षबाधपरत्वे चास्य तदनुद्धारेण सिद्धा- न्तकारिकायां न्यूनतेति वाच्यम्। शरीरविशिष्टस्य कर्तृतायां गौरवमिति शङ्कायां एवं तुच्छतया सिद्धान्ते तदुद्धारोपेक्षणात्। षष्ठीतत्पुरुषभ्रमं निवारयति। व्यापकश्चासाविति। स्वेष्टेति। यद्यपि जगद्देवे- श्वरेच्छाविषयः, तथापि स्वसुखदुःखाभावान्यतरप्रयोजकताज्ञानव्याप्तत्वादित्यत्र तात्पर्य्यम्। प्रतिवन्दि- सामान्यनिषेधे कृतेऽतिशयेन प्रतिवन्ध्यभावो युज्यत इति तृतीयमेव पादं प्रथमतौ व्याचष्टे । शृङ्गस्या- मकरन्दः। शरीरवाघेन कर्तुर्बाध एवेत्यर्थः । प्रत्यक्षबाधस्येत्युपलक्षणम्, अग्रिमेण पौनरुक्त्यापाता- दित्यपि द्रष्टव्यम्। स्वेष्टेति। यद्यपि जगत एव तदिच्छाविषयत्वात् स्वेष्टसाधनताज्ञानं तस्यापि, तथापि स्वप्रयोजनव्याप्यत्वादिति मूलोक्त एव तात्पर्य्यम्। स्वप्रयोजनप्रयोजकताज्ञानव्याप्यत्वा- दित्यर्थः। तथात्वे=अयोग्यत्वे। प्रतिवन्धिसामान्यनिषेधे कृते अतितरां न प्रतिवन्धिरिति युज्यते