न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 345, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] : अनुपलब्धेर्बाधकत्वनिराकरणम्। ३१३ त्मा। तथाहि, सुषुप्त्यवस्थायामात्मानमनुपलभमानो नास्तीत्यवधारयेत्। कस्याप- राधेन पुनर्योग्योऽप्यात्मा तदानीं नोपलभ्यते ? । सामग्रीवैगुण्यात् । ज्ञानादिसं- कविशेषगुणोपधानो ह्यात्मा गृह्यते इत्यस्य स्वभावः । ज्ञानमेव कुतो न जायते इति बोधनी। त्राह—तथाहि इति। जाग्रदवस्थायामुपलम्भदर्शनात्सिद्धं स्वात्मनो योग्यत्वमन्यदा नापैतीति भावः। पृच्छति—कस्य इति। स्वरूपायोग्यत्वाभावेऽपि सहकारिविरहादनुपलम्भो युक्त इत्याह— सामग्रीवैगुण्यात् इति। का तर्हि स्वात्मनो ग्रहणसामग्री यद्वैगुण्यात्तदानीमनुपलम्भ इत्यत्राह— ज्ञानादि इति। जानाम्यहमिच्छाम्यहमित्यादिरूपेणैवात्मनो ग्रहणदर्शनाद् ज्ञानादिविशेषगुणोपगृहीत- त्मात्मनो ग्रहणसामग्रीति। सुषुप्तिसमये कस्यापराधेन ज्ञानमेव न जायते, कस्यानुग्रहाच्चान्यदा जायत इत्याह—ज्ञानमेव इति। मनसो बाह्येन्द्रियप्रत्यासत्तिभावाभावाभ्यां जननाजनने इत्याह— प्रकाशः। वन्धिः स्यात्। अथ शृङ्गं योग्यमेव नायोग्यं, तदा यतितरां न प्रतिबन्धिः। व्यापकानुपलब्धिलिङ्ग- कत्वानुमानमीश्वरासिद्धावाश्रयासिद्धम्, तत्सिद्धौ वा धर्मिग्राहकप्रमाणबाधितमित्यर्थः। सामग्रीति। यथा योग्योऽपि घटादिरालोकाभावान्नोपलभ्यते, तथाऽऽत्मा क्षणिकज्ञानादियोग्य- विशेषगुणाद्युपधानसहकार्यभावाद् नोपलभ्यत इत्यर्थः। यद्यप्येवमुपधायकतृतीयलिङ्गपरामर्शसत्त्वादात्म- बुद्धिरेव स्यान्नानुमितिः। न चानुमितिसामग्र्येव प्रतिबन्धिका, कारणमेलकरूपायां सामग्र्यामितर- कारणानां व्यभिचारात् तृतीयलिङ्गपरामर्श एव प्रतिबन्धको वाच्यः,, तस्य च योग्यविशेषगुण- त्वेनात्मोपलम्भकस्यात्तथात्वम्। तथापि रूपवत्प्रत्यक्षविशेषणगुणत्ववाज्ञानेऽप्युद्भूतत्वजातिसत्त्वादनुद्भूत- प्रकाशिका। पीति। व्यभिचारादिति। तेषु सत्स्वप्यात्मप्रत्यक्षोदयात्, प्रतिबन्धकतायामन्वयव्यभिचारा- दित्यर्थः। अतथात्वादिति। एकस्य एकं प्रति कारणत्वप्रतिबन्धकत्वविरोधादित्यर्थः। मकरन्दः। इति तदर्थपरतया प्रथमं तृतीयमेव पादं व्याख्याय द्वितीयपादं व्याचष्टे अथेति। व्यभिचारा- दिति। तेषु सत्स्वप्यात्मप्रत्यक्षप्रतिबन्धाभावादित्यर्थः। अतथात्वमिति। एकस्य कारकत्वप्रति- बन्धकत्वविरोधादित्यर्थः। तथापीति। तथा च परामर्शोऽप्यनुद्भूतवान् तथात्वमिति भावः। ननु, हेत्वन्तरवत् परामर्शोऽपि व्यभिचारी, सत्यपि तस्मिन् बाधादिना अनुमितिप्रतिबन्धे परामर्शोपहिता- त्मप्रत्यक्षसत्त्वात्। अन्यथा वह्निव्याप्यवन्तं जानामीत्यनुव्यवसायानभ्युपगमे अनुभवविरोधात्। तस्मात् प्रत्येकमप्रतिबन्धकत्वेऽप्यनुमितिसामग्रीत्वेन तद्धेतूनां फलबलात् प्रतिबन्धकत्वम्। परामर्शस्य च रूपान्तरेण तदुपलम्भकत्वमिति नोक्तविरोधः। यदि च सकलहेत्वधिकरणक्षणः सामग्री, तदा तस्य परामर्शभिन्नत्वादिरोधशङ्कैव नास्ति। एवञ्चोपपत्तौ न ज्ञानादानुद्भूतत्वं, मानाभावात्। आद्य- शब्दाद्ग्रहश्च श्रोत्रेणासम्बन्धात्। सम्बन्धे वा तद्ग्रहस्येष्टत्वात्। क्षणिकान्तशब्दस्य च स्वसमयवर्त्ति- तया विशिष्य हेतुत्वपक्ष एवाप्रत्यक्षत्वात्। न च कर्तृत्वादिनिर्विकल्पकापेक्षायां पक्षान्तरेऽप्यसम्भवः, टिप्पणी। यद्यप्येवमुपधायकतृतीयेति। एवं=ज्ञानाद्युपधायकविशेषगुणसत्त्वेनैवात्मनः प्रत्यक्षत्वे। इतरकारणानां व्यभिचारादिति। असति परामर्शे परामर्शेतरेषु कारणेषु सत्स्वप्यात्मप्रत्यक्षप्रति- बन्धाभावात् परामर्शतरकारणस्यान्यव्यभिचारात् परामर्शस्यानवयव्यतिरेके दृष्टे सामग्रीत्वेन न प्रति- बन्धत्वं गौरवात्। न च सत्यपि परामर्शे पक्षताया बाधनिश्चयस्य वाऽभावे प्रत्यक्षप्रतिबन्धाभावात्तन्ना- प्यन्वयव्यभिचार इति वाच्यम्। तयोरभावत्वेन तुच्छस्वभावत्वात् तदुभयविशिष्टपरामर्शस्यैव तथा- त्वौचित्यात् परामर्षे स्वरूपघटितसामानाधिकरण्येन तदुभयवैशिष्ट्यस्य निवेशयितुं शक्यत्वात्। पराम- ४० न्या० कु०