भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

श्रीगणेशाय नमः ॥ न्यायकुसुमाञ्जलौ तृतीयस्तवकः । नन्वेतदपि कथं, तत्र बाधकसंभवात् । तथा हि । यदि स्यादुपलभ्येत । अयो- ग्यत्वात् सन्नपि नोपलभ्यते इति चेदेवं तर्हि शशशृङ्गमप्ययोग्यत्वान्नोपलभ्यते इति स्यात् । नैतदेवम् । शृङ्गस्य योग्यतयैव व्याप्तत्वादिति चेत् । चेतनस्यापि योग्यो- बोधनी । तदेवमीश्वरविषयस्योपदेशलिङ्गानुमानस्य़ान्यथासिद्धिर्निराकृता । अयेदानीं तदभाववेदक- प्रमाणसद्भावादित्याशङ्कितं, तस्य कालात्ययापदिष्टत्वं निराचिकीर्षुः स्मारयति तावत्—नन्वेतदपि इति । मा भून्नित्यवेदद्वारा वा कपिलादिद्वारा वा धर्मसंप्रदायसंस्थाप्येतदीश्वरद्वारकत्वमपि कथं सिध्यति, तत्रेश्वरे बाधकसंभवात् । यद्वा, यद्यप्यन्यथासिद्धिर्निराकृता, तथाप्येतत्परोक्तं कालात्ययापदिष्टत्वं कथं निरसनीयम् । यद्वानन्यत्प्रत्यक्षं सिद्धमप्येतत्कथं साधकं तत्रानुमाने बाधक सद्भावादिति । बाधकमेवोपपादयितुमुपक्रमते—तथा हि इति । तत्र प्रत्यक्षानुपलम्भेन बाधकं तावदाह—यदि स्यात् इति । न चोपलभ्यत इति शेषः । तर्केणानेनानुगृहीतं प्रत्यक्षं जग- त्कर्तुरभावमावेदयतीति भावः । सिद्धान्ती शङ्कते—अयोग्यत्वात् इति । योग्यानुपलम्भो हि बाधक इति । एवं तर्हि इति । न चासत्त्वादिति शेषः । शशशृङ्गप्रतिबन्दीमुन्मोचयन् सिद्धान्ती शङ्कते— नैतदेवम् इति । शृङ्गस्य रूपवत्त्वमहत्त्वाभ्यां प्रत्यक्षयोग्यत्वेन गवादिस्थशृङ्गे व्याप्तिदर्शनादस्यापि शृङ्गस्य सतो योग्यतया भवितव्यम्—तस्माच्छशशृङ्गस्य योग्यानुपलम्भोऽस्तीति । इतरः पुनरीश्वर- स्यापादयति—चेतनस्य इति । चेतनादियोगिनो हीश्वरस्य शरीराद्युपाधिसंबन्धोऽवश्यंभावी तत्कार- प्रकाशः । तृतीयां विप्रतिपत्तिं दूषयितुमुपन्यस्यति— नन्वेतदपीति । अन्यथासिद्धिनिराकरणमपि कथममीश्वरसाधनाय, तत्र प्रत्यक्षबाधादित्यर्थः । तत्र स्वरूपसदनुपलब्धिसहकृतप्रत्यक्षबाधमाह । तथा हीति । यद्यप्यनुपलम्भेनेश्वान्योन्याभावात्य- न्ताभावसाधने इष्टापत्तिः, प्रागभावप्रध्वंससाधने चापसिद्धान्तः । तथापि क्षित्यादिकं यदि सकर्तृकं, वेदश्च यदि सकर्तृकः स्यात्तदा तद्वत्तयोपलभ्येत इत्यर्थः । अनुपलब्धिमात्रस्य बाधकतायामयोग्यो- च्छेद इति योग्यानुपलब्धिर्वाधिकेति वाच्येत्याह । अयोग्यत्वादिति । एवं शशः शृङ्गी पशुत्वादित्य- त्रापि तद्बाधो न स्यादयोग्यत्वाच्छृङ्गस्येत्याह । एवमिति । शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यतया योग्यव्यक्तिवृत्तित्वनियमाद्योग्यं शृङ्गमित्याह । शृङ्गस्येति । एवं शरीरविशिष्टात्मनि कर्तृत्वेन कर्तृयोग्यता नियमाद्विशेषणबाधेन विशिष्टबाध एवेत्याह । चेतनस्यापीति । न तु कर्तृव्यापकशरी- प्रकाशिका । श्रीगणेशः पातु । अनुपलब्धेः स्वातन्त्र्येण न बाधकत्वमप्रमाणत्वादत आह । तत्रेति । इष्टापत्तिरिति । यद्यपि भावाभावसाधारणपदार्थमात्र ईश्वरान्योन्याभावसाधने नेष्टापत्तिः, एवमीश्वरसत्ता- विरोध्यत्यन्ताभावसाधनेऽपि । तथापि तथासति असत्प्रतियोगिकत्वमेव दोषोऽन्यथा त्विष्टापत्तिरित्यत्र तात्पर्यम् । अनुपलब्धिमात्रस्य बाधकत्वेऽयोग्यत्वाभिधानमफलमत आह । अनुपलब्धिमात्रस्येति । विशेषणबाधेनेति । विशेषणबाधात्मक एव विशिष्टबाध इत्यर्थः । मीमांसकैर्विशेषणाभावादी- मकरन्दः । अनुपलब्धेः स्वातन्त्र्येण प्रामाण्यानभ्युपगमान्न बाधकत्वमत आह तत्रेति । विशेषणबाधेनेति ।

३१२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां पाधिमत्तयैव व्याप्तत्वात् तद्बाधे सोऽपि बाधित एवेति तुल्यम्। व्यापकस्वार्थाद्य- नुपलम्भेन बाध्यनुमीयते नास्तीति। को हि प्रयोजनमन्तरेण किञ्चित् कुर्यादिति। उच्यते— योग्यादृष्टिः कुतोऽयोग्ये प्रतिबन्धिः कुतस्तराम् ॥ क्कायोग्यं बाध्यते शृङ्गं कानुमानमनाश्रयम् ॥ १ ॥ स्वात्मैव तावद् योग्यानुपलब्ध्या प्रतिषेद्धुं न शक्यते, कुतस्त्वयोग्यः परमा- बोधनी। णकत्वाच्चेतनादेर्योग्यं च शरीरादि, तथा च तस्यानुपलम्भेन बाधात् तद्गतोऽपि बाधः स्यादिति न केवलं प्रत्यक्षमन्मानमपि बाधकमित्याह—व्यापक इति। कर्तृव्यापकत्वेन स्वप्रयोजनसिद्धिः कुला- लादिषूपलब्धा, न च साऽनवाप्तावाप्तकामविरहिणि जगत्कर्त्तरि संभवति। तस्माद्व्यापकानुपलब्ध्या जगत्कर्तुरभावोऽनुमीयत इति। स्वार्थस्य कर्तृव्यापकत्वमेवाह—को हि इति। प्रयोजनमनुद्दिश्य- न मन्दोऽपि प्रवर्त्तत इति न्यायादिति। तदेवं प्रत्यक्षातुमानवाधितविषयमीश्वरानुमानमिति पूर्वपक्षेते सिद्धान्तमाह—उच्यत इति। अयोग्यत्वात्परमात्मनस्तस्मिन् योग्यानुपलब्धिः कुतो भवेत्, न कुतश्चिदित्यर्थः। यद्वा, योग्येऽपि स्वात्मन्यनुपलब्धिर्नाभावं गमयितुमलं, कुतोऽयोग्ये परमात्मनि। ततश्चोन्मोचिता शशशृङ्गप्रतिबन्दिर्न हि शृङ्गमयोग्यमनुपलब्ध्या बाध्यते, किन्तु योग्यमेव। न च परमात्मा योग्य इति। न तावत्प्रत्यक्षबाधः, न च व्यापकानुपलब्धिलक्षणमन्यद्वाऽनुमानं बाधकमेश्वर- स्यानभ्युपगमेनाश्रयासिद्धेरिति व्याचष्टे—स्वात्मैव इति। स्वात्मनः प्रत्यक्षयोग्यत्वं सुल्यहं दुःख्य- हमित्यादिप्रतीतिसाक्षिकमेवेति। किमिति स्वात्मा योग्योऽप्यनुपलब्ध्या न प्रतिषेद्धुं शक्यत इत्य- प्रकाशः। र्थाद्याधपर्यापकर्तृवाधपरोऽयं ग्रन्थः प्रत्यक्षबाधस्योपक्रान्तत्वात्। व्यापकानुपलब्धिलिङ्गिकानुमानं बाधकमाह। व्यापकेति। व्यापकश्चासौ स्वार्थादिश्चेति कर्मधारयः। आदिपदाच्छरीरादि। चेतन- प्रवृत्तेः स्वेष्टसाधनताज्ञानव्याप्तत्वात् तद्बाधनेन सापि बाधितेवेत्यर्थः। योग्यादृष्टिरिति। योग्यानुपलब्धिः क्कायोग्ये = परमात्मनि बाधिका, शृङ्गस्यापि तथात्वे तत्रापि योग्यानुपलब्धिर्न बाधिका। न हि शशशृङ्गमयोग्यं योग्यानुपलब्ध्या निषिद्ध्यते येन प्रति प्रकाशिका। नामेव विशिष्टाभावतास्वीकारात्प्रत्यक्षबाधस्येति। इदमुपलक्षणं, व्यापकेत्याद्यग्रिमग्रन्थेन पौनरु क्त्यापत्तिश्चेत्यपि द्रष्टव्यम्। न च शरीरातिरिक्तमेव व्यापकं तत्र व्यापकपदार्थो गोवलीवर्दवदिति वाच्यम्। तत्रानन्यगतेः, इह तु प्रकारान्तरसम्भवादिति। न च प्रत्यक्षबाधपरत्वे चास्य तदनुद्धारेण सिद्धा- न्तकारिकायां न्यूनतेति वाच्यम्। शरीरविशिष्टस्य कर्तृतायां गौरवमिति शङ्कायां एवं तुच्छतया सिद्धान्ते तदुद्धारोपेक्षणात्। षष्ठीतत्पुरुषभ्रमं निवारयति। व्यापकश्चासाविति। स्वेष्टेति। यद्यपि जगद्देवे- श्वरेच्छाविषयः, तथापि स्वसुखदुःखाभावान्यतरप्रयोजकताज्ञानव्याप्तत्वादित्यत्र तात्पर्य्यम्। प्रतिवन्दि- सामान्यनिषेधे कृतेऽतिशयेन प्रतिवन्ध्यभावो युज्यत इति तृतीयमेव पादं प्रथमतौ व्याचष्टे । शृङ्गस्या- मकरन्दः। शरीरवाघेन कर्तुर्बाध एवेत्यर्थः । प्रत्यक्षबाधस्येत्युपलक्षणम्, अग्रिमेण पौनरुक्त्यापाता- दित्यपि द्रष्टव्यम्। स्वेष्टेति। यद्यपि जगत एव तदिच्छाविषयत्वात् स्वेष्टसाधनताज्ञानं तस्यापि, तथापि स्वप्रयोजनव्याप्यत्वादिति मूलोक्त एव तात्पर्य्यम्। स्वप्रयोजनप्रयोजकताज्ञानव्याप्यत्वा- दित्यर्थः। तथात्वे=अयोग्यत्वे। प्रतिवन्धिसामान्यनिषेधे कृते अतितरां न प्रतिवन्धिरिति युज्यते

तृतीयस्तबके ] : अनुपलब्धेर्बाधकत्वनिराकरणम्। ३१३ त्मा। तथाहि, सुषुप्त्यवस्थायामात्मानमनुपलभमानो नास्तीत्यवधारयेत्। कस्याप- राधेन पुनर्योग्योऽप्यात्मा तदानीं नोपलभ्यते ? । सामग्रीवैगुण्यात् । ज्ञानादिसं- कविशेषगुणोपधानो ह्यात्मा गृह्यते इत्यस्य स्वभावः । ज्ञानमेव कुतो न जायते इति बोधनी। त्राह—तथाहि इति। जाग्रदवस्थायामुपलम्भदर्शनात्सिद्धं स्वात्मनो योग्यत्वमन्यदा नापैतीति भावः। पृच्छति—कस्य इति। स्वरूपायोग्यत्वाभावेऽपि सहकारिविरहादनुपलम्भो युक्त इत्याह— सामग्रीवैगुण्यात् इति। का तर्हि स्वात्मनो ग्रहणसामग्री यद्वैगुण्यात्तदानीमनुपलम्भ इत्यत्राह— ज्ञानादि इति। जानाम्यहमिच्छाम्यहमित्यादिरूपेणैवात्मनो ग्रहणदर्शनाद् ज्ञानादिविशेषगुणोपगृहीत- त्मात्मनो ग्रहणसामग्रीति। सुषुप्तिसमये कस्यापराधेन ज्ञानमेव न जायते, कस्यानुग्रहाच्चान्यदा जायत इत्याह—ज्ञानमेव इति। मनसो बाह्येन्द्रियप्रत्यासत्तिभावाभावाभ्यां जननाजनने इत्याह— प्रकाशः। वन्धिः स्यात्। अथ शृङ्गं योग्यमेव नायोग्यं, तदा यतितरां न प्रतिबन्धिः। व्यापकानुपलब्धिलिङ्ग- कत्वानुमानमीश्वरासिद्धावाश्रयासिद्धम्, तत्सिद्धौ वा धर्मिग्राहकप्रमाणबाधितमित्यर्थः। सामग्रीति। यथा योग्योऽपि घटादिरालोकाभावान्नोपलभ्यते, तथाऽऽत्मा क्षणिकज्ञानादियोग्य- विशेषगुणाद्युपधानसहकार्यभावाद् नोपलभ्यत इत्यर्थः। यद्यप्येवमुपधायकतृतीयलिङ्गपरामर्शसत्त्वादात्म- बुद्धिरेव स्यान्नानुमितिः। न चानुमितिसामग्र्येव प्रतिबन्धिका, कारणमेलकरूपायां सामग्र्यामितर- कारणानां व्यभिचारात् तृतीयलिङ्गपरामर्श एव प्रतिबन्धको वाच्यः,, तस्य च योग्यविशेषगुण- त्वेनात्मोपलम्भकस्यात्तथात्वम्। तथापि रूपवत्प्रत्यक्षविशेषणगुणत्ववाज्ञानेऽप्युद्भूतत्वजातिसत्त्वादनुद्भूत- प्रकाशिका। पीति। व्यभिचारादिति। तेषु सत्स्वप्यात्मप्रत्यक्षोदयात्, प्रतिबन्धकतायामन्वयव्यभिचारा- दित्यर्थः। अतथात्वादिति। एकस्य एकं प्रति कारणत्वप्रतिबन्धकत्वविरोधादित्यर्थः। मकरन्दः। इति तदर्थपरतया प्रथमं तृतीयमेव पादं व्याख्याय द्वितीयपादं व्याचष्टे अथेति। व्यभिचारा- दिति। तेषु सत्स्वप्यात्मप्रत्यक्षप्रतिबन्धाभावादित्यर्थः। अतथात्वमिति। एकस्य कारकत्वप्रति- बन्धकत्वविरोधादित्यर्थः। तथापीति। तथा च परामर्शोऽप्यनुद्भूतवान् तथात्वमिति भावः। ननु, हेत्वन्तरवत् परामर्शोऽपि व्यभिचारी, सत्यपि तस्मिन् बाधादिना अनुमितिप्रतिबन्धे परामर्शोपहिता- त्मप्रत्यक्षसत्त्वात्। अन्यथा वह्निव्याप्यवन्तं जानामीत्यनुव्यवसायानभ्युपगमे अनुभवविरोधात्। तस्मात् प्रत्येकमप्रतिबन्धकत्वेऽप्यनुमितिसामग्रीत्वेन तद्धेतूनां फलबलात् प्रतिबन्धकत्वम्। परामर्शस्य च रूपान्तरेण तदुपलम्भकत्वमिति नोक्तविरोधः। यदि च सकलहेत्वधिकरणक्षणः सामग्री, तदा तस्य परामर्शभिन्नत्वादिरोधशङ्कैव नास्ति। एवञ्चोपपत्तौ न ज्ञानादानुद्भूतत्वं, मानाभावात्। आद्य- शब्दाद्ग्रहश्च श्रोत्रेणासम्बन्धात्। सम्बन्धे वा तद्ग्रहस्येष्टत्वात्। क्षणिकान्तशब्दस्य च स्वसमयवर्त्ति- तया विशिष्य हेतुत्वपक्ष एवाप्रत्यक्षत्वात्। न च कर्तृत्वादिनिर्विकल्पकापेक्षायां पक्षान्तरेऽप्यसम्भवः, टिप्पणी। यद्यप्येवमुपधायकतृतीयेति। एवं=ज्ञानाद्युपधायकविशेषगुणसत्त्वेनैवात्मनः प्रत्यक्षत्वे। इतरकारणानां व्यभिचारादिति। असति परामर्शे परामर्शेतरेषु कारणेषु सत्स्वप्यात्मप्रत्यक्षप्रति- बन्धाभावात् परामर्शतरकारणस्यान्यव्यभिचारात् परामर्शस्यानवयव्यतिरेके दृष्टे सामग्रीत्वेन न प्रति- बन्धत्वं गौरवात्। न च सत्यपि परामर्शे पक्षताया बाधनिश्चयस्य वाऽभावे प्रत्यक्षप्रतिबन्धाभावात्तन्ना- प्यन्वयव्यभिचार इति वाच्यम्। तयोरभावत्वेन तुच्छस्वभावत्वात् तदुभयविशिष्टपरामर्शस्यैव तथा- त्वौचित्यात् परामर्षे स्वरूपघटितसामानाधिकरण्येन तदुभयवैशिष्ट्यस्य निवेशयितुं शक्यत्वात्। पराम- ४० न्या० कु०

३१४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां चिन्त्यते । पश्चाद्वा कथमुत्पत्स्यते इति चेत् , मनसोऽनिन्द्रियप्रत्यासन्नतयाऽजन- नात्तत्प्रत्यासत्तौ च पश्चाज्जननात् । मनोवैभववादिनामिदमसंमतम् । तथाहि । मनो विभु, सर्वदा स्पर्शरहित- द्रव्यत्वात्, सर्वदा विशेषगुणशून्यद्रव्यत्वात्, नित्यत्वे सत्यनारम्भकद्रव्यत्वात्, बोधनी । मनसः इति । तदेतन्मनसोऽनिन्द्रियप्रत्यासन्नत्वं कौमारिला न सहन्ते विभुत्वान्मनस इत्याह— मनोवैभववादिनाम् इति । तेषां मनोवैभवहेतूनुपन्यस्यति—तथाहि इति । न हि द्रव्यसम- कालं तत्समवेतानां स्पर्शादीनाम् उत्पत्तिः कार्यकारणयोः पौर्वापर्यनियमात्, तेनानुत्पन्नस्पर्शैः प्रथमक्षणावस्थितैर्घटादिद्रव्यैरनैकान्तिकत्वमाशङ्क्योक्तं—सर्वदा इति । आकाशादिरत्र दृष्टान्तः । विशेषगुणशून्यद्रव्यत्वात् इति । अत्रापि सर्वदेत्यनुषज्यते । दिक्कालावत्र दृष्टान्तः । अनार- म्भकद्रव्यत्वमन्त्यावयविनोऽप्यस्तीति तद्व्यावृत्त्यर्थमुक्तं—नित्यत्वे सति इति । अनारम्भकत्वमिति प्रकाशः । ज्ञानस्य नात्मोपलम्भकत्वमिति तदुपधानेऽपि नात्मग्रहः । अत एवाद्यन्तशब्दयोरुद्भूतत्वाभावान्न प्रत्यक्षत्वमित्येकै । आत्ममनःसंयोगविशेषस्यात्मग्राहकत्वमनेनोक्तमित्यन्ये । मनस इति । यद्यपि सुषुप्तौ यत एव न ज्ञानं तत एवात्माऽग्रहोपपत्तौ योग्यविशेषगुणोपधानमतन्त्रं, तथापि द्रव्यसाक्षा- त्कारे सामान्यत एवं योग्यविशेषगुणस्य प्रयोजकत्वावधारणादेतदुक्तम् । असंमतमिति । विभुनो मनस इन्द्रियाप्रत्यासत्तेरभावादित्यर्थः । सर्वदेति । द्रव्यत्वं परमाणुभिः, स्पर्शरहितत्वं च गुणा- दिभिर्व्यभिचारीति विशिष्टं लिङ्गम् । तस्याप्युत्पत्तिक्षणे घटे सत्त्वाद् व्यभिचार इत्यत उक्तं, सर्वदेति । अनारम्भकद्रव्यत्वं = द्रव्यानाारम्भकद्रव्यत्वमत्र विवक्षितम् , अतो न कर्मसंयोगाद्यार- म्भके मनसि स्वरूपासिद्धिः । तथापि घटेऽनैकान्तिकं इत्यत उक्तं, नित्यत्व इति । कालादिर्ह- प्रकाशिका । एके इत्यरुचौ । तद्बीजन्तु प्रत्येकं परामर्शादपि प्रतिबन्धकतायां व्यभिचार्येव उद्भूतपरामर्शे सत्यपि बाधद- शायामात्मप्रत्यक्षोदयात् । तथा च परामर्शस्यापि अनुमितिसामग्रीत्वेन प्रतिबन्धकत्वं वाच्यमेवं च रूपान्त- रेण जनकत्वे रूपान्तरेण प्रतिबन्धकत्वमविरुद्धमेवेति अनुमितिसामग्र्या एव प्रतिबन्धकत्वान्नात्मप्रत्यक्षमिति किमर्थं ज्ञानेऽप्युद्भवकल्पना । आद्यन्तशब्दयोरपीन्द्रियप्रत्यासत्तिविरहात् प्रत्यक्षसमये नाशाच्च न प्रत्य- क्षतेति न तत्राप्युद्भवकल्पना, न च कर्णशष्कुल्यवच्छेदेनैव यत्राद्यशब्दोत्पत्तिः, तत्र स गृह्येतेति वाच्यम्, इष्टापत्तेः । न च तदा कत्वादिनिर्विकल्पकाभावान्नैवमिति वाच्यम् । तथा सति सुतरां नोद्भूतत्व- कल्पना । आद्यशब्दाप्रत्यक्षत्वस्याप्रामाणिकत्वात् , स्मरणात्मकविशेषणज्ञानेन तत्सम्भवाच्च । केचितु स्वभिन्नज्ञानसामग्रीत्वानापन्नस्यैव ज्ञानस्यात्मोपधायकत्वम् । अत एव विशेषणज्ञानानन्तरं बाह्यविशिष्टज्ञानं पदार्थस्मृत्यनन्तरं शाब्दज्ञानं विशेषदर्शनोत्तरं पुरुषप्रत्यक्षमिति नानुमितिसामग्री- त्वापन्नपरामर्शकाले आत्मज्ञानमिति न ज्ञानं उद्भूतत्वं प्रामाणिकमिति वदन्ति । अन्य इत्यरुचौ । तद्बीजन्तु संयोगविशेषकल्पनमप्रामाणिकमुक्तनैवोपपत्तेरिति द्रष्टव्यम् । कर्मेति न्यायमते, संयो- मकरन्दः । सुतरां तर्हि नोद्भूतत्वम् । स्मरणरूपविशेषणज्ञानमादाय तत्सम्भवाच्चेत्यनुशयमाविष्करोति इत्येके इति । उक्तेनैवोपपत्तौ मनःसंयोगविशेषत्वेन हेतुत्वे गौरवं, संयोगे विशेषश्च जातिरूपः प्रत्यक्षखण्डो- क्तसङ्करान्नत्या निरस्तः, अन्यश्च दुर्वच इत्यस्वरसमाविष्करोति इत्यन्ये इति । कर्मेति न्यायमते । टिप्पणी । र्शघटितोभयवैशिष्ट्यस्य निवेशासम्भवात् उभयोरेकसम्बन्धाभावात् प्रत्येकवैशिष्ट्यनिवेशे सम्बन्धद्वयप्र- वेशे गौरवाच्च तस्यापि तदुपलम्भकारणत्वेन प्रतिवन्धकत्वासम्भवः। वस्तुतस्तु इत्येक इत्यनेन प्रत्येकप्र-

तृतीयस्तवके ] अनुपलब्धेरर्थापत्त्वनिराकरणम् । ३१५ ज्ञानासमवायिकारणसंयोगाधारत्वादित्यादेरिति चेन्न । सर्वेषामापातः स्वरूपा- सिद्धत्वात् । तथाहि । यदि रूपाद्युपलब्धीनां क्रियात्वेन करणतया मनोऽ- नुमितिर्न तदा द्रव्यत्वसिद्धिः । अद्रव्यस्यापि करणत्वात् । बोधनी । च द्रव्यानारम्भकत्वमिह विवक्षितम् । आकाशादय एव दृष्टान्तः । ज्ञानस्यासमवायिकारणमात्ममन- सोः संयोगः, तदाश्रयत्वान्मनसो वैभवमनुमीयते । आत्मवत्सर्वोपलभ्यमानकार्यत्वादात्मवदित्यादि- शब्दार्थः । न इति । द्रव्यत्वासिद्ध्या चतुर्णां हेतूनामापातः स्वरूपासिद्धिः, निरूपणदशायां तु धर्मिग्राहकप्रमाणवाध इति भावः । स्वरूपासिद्धिं तावदाह—तथाहि इति । अद्रव्यमपि हृष्टप्रय- त्नसंयोगादिक्रियाकरणं दृष्टमिति । यद्यासां सुखाद्युपलब्धीनां साक्षात्काररूपत्वादिन्द्रियस्यैव तत्साधनत्वाच्चेन्द्रियतया मनोऽनुमीयते, तथा च द्रव्यत्वं सिध्यति द्रव्यस्यैवेन्द्रियत्वादित्युच्येत तथापि व्यापकत्वे तस्योपाध्यवच्छेदेनैवेन्द्रियत्वं प्रकाशः । ष्टान्तः । चतुर्थहेतावात्मा दृष्टान्तः । न च महत्त्वमुपाधिः, साधनाव्यापकत्वात् । न च सुखादिकं मूर्तसंयोगासमवायिकारणगुणवृत्तिमद्गुणत्वव्याप्यजातिमत्, नित्यवृत्त्यनित्यविशेषगुणत्वाच्छब्दवत् पागजवच्चेति प्रतिरोधः । मूर्तत्वस्याप्रयोजकत्वात्, अनात्मवृत्तित्वस्योपाधित्वाच्चेति भावः । आपातत इति । यावन्मनो न सिद्धयतीत्यर्थः । स्वरूपासिद्धिमेवाह । तथाहीति ! अद्रव्यस्यापीति । लिङ्गज्ञानादेरित्यर्थः । द्रव्यत्वविनाकृतञ्च रूपादिभिर्व्यभिचारीति भावः । प्रकाशिका । गादीति साधारणम् । साधनेति । स्वमतावष्टम्मेनेदमुक्तम् । न च सुखादिकमिति । अत्र संयोग- मादाय सिद्धसाधनमिति मूर्त्तेति । सुखकारणचन्दनसंयोगमादाय सिद्धसाधनमिति असमवायीति । कालिकव्याप्त्या गुणत्वव्याप्यत्वं सत्ताया अपीति तामादाय सिद्धसाधनमिति गुणवृत्तीति । तथा च गुणवृत्त्या समवायेन गुणत्वव्याप्यत्वमर्थो लभ्यत इति न सत्तामादाय प्रसङ्गः । शब्दजशब्दे व्यभिचार इति जातिगर्भता अनुसुखान्यतरत्त्वमादाय सिद्धसाधनमिति जातीति । न च समवायेन गुणत्वव्या- प्यत्वस्य पूर्वं विवक्षितत्वानेकासिद्धसाधनमिति वाच्यम् । समवायेनेत्यस्य दैशिकव्याप्तिमात्रतात्प- र्यात् । हेतौ जलायवयविस्नेहे व्यभिचार इति नित्येति । जलपरमाणुस्नेहे व्यभिचार इत्यनित्येति । परमाणुद्वित्वे व्यभिचार इति विशेपेति । भट्टमते शब्दस्य द्रव्यतयोभयसिद्धं दृष्टान्तरमाह । पाकजवच्चेति । अनात्मवृत्तित्वस्येति । विशेषगुणत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकोऽयमुपा- धिरन्यथा प्रच्रयजन्यपरिमाणवृत्तिजातिमादायात्मपरिमाणे साध्याव्यापकतापत्तेः । यावन्मन इति । मकरन्दः । संयोगादीति भट्टमते । स्वमतावष्टम्मेनाह साधनेति । अन्यथा पक्ष एव साधनाव्यापकत्वात् । अजसंयोगेन सिद्धसाधनादाह मूर्त्तेति । चन्दनसंयोगेन सिद्धसाधनादाह असमवायीति । शब्दज- शब्दे व्यभिचारवारणाय जातिगर्भत्वम् । तत्र च गुणपदं स्पष्टार्थम् । गुणत्वावान्तरपदं तादृशशब्दवृ- त्तिसत्तायोगित्वेनार्थान्तरवारणाय । शब्दसुखान्यतरत्वादिकमादायार्थान्तरादाह जातिपदम् । जला- वयविस्नेहे व्यभिचारादाह नित्यवृत्तीति । परमाणुस्नेहे व्यभिचारादाह अनित्येति । आत्मवृ- त्तिद्वित्वे व्यभिचारादाह विशेषेति । भट्टमते शब्दस्य द्रव्यत्वादुभयसिद्धं दृष्टान्तरमाह पाकजव- च्चेति । अनात्मेति । साधनावच्छिन्नसाध्यव्यापकोऽयमुपाधिः, अन्यथा प्रच्रयजन्यपरिमाणवृत्तिजा- टिप्पणी । तिवन्धकतायामुक्तरीत्या व्यभिचारादभावस्यापि सिद्धान्तेऽनुच्छलत्वात् सामग्रीत्वेनैव प्रतिबन्धकत्वम्, रूपमेदाच्चैकस्यापि कारणत्वप्रतिबन्धकत्वे क्षत्यभावाज् ज्ञाने उद्भूतत्वकल्पनमप्रामाणिकमित्येवास्वरसः

३१६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां अथासामेव साक्षात्कारितयेन्द्रियत्वेन तदनुमातव्यम्, तथापि व्यापकस्य निरूपाधेर्नन्द्रियत्वमित्युपाधिर्वक्तव्यः । तत्र यदि कर्ण- शष्कुलीवन्नियतशरीरावयवस्योपाधित्वं, तदा तावन्मात्रे वृत्तिलाभः । तद्लोपे च वृत्तिनिरोधः श्रोत्रवत् प्रसज्येत । ततः शरीरमात्रमुपाधिरवसेयः । तथा च तद- वच्छेदेन वृत्तिलाभे शिरसि मे वेदना, पादे मे सुखमित्याद्यव्याप्यवृत्तिप्रतीतिवि- रोधः । असमवायिकारणानुरोधेन विभुकार्याणां प्रादेशिकत्वनियमात् । शरीरत- बोधनी । वक्तव्यम् ; न हि कर्णशष्कुल्यनुपहितमाकाशं श्रोत्रं भवतीत्याह—अथ इति । अस्तु तर्हि शरीरा- वयवः कश्चिदत्रोपाधिरित्यत्राह—तत्र यदि इति । दृश्यते चावयवान्तरे शरीरमात्रेऽपि मनसो वृत्तिरिति भावः । ततः किमित्यत आह—ततः इति । ततोऽपि किमित्यत आह-तथा च इति । नेतु न कर्णशष्कुलीवन्नियतः शरीरावयवः कश्चिदुपाधिः, किन्तु शरीरं तदवयवाश्चानियमेनोपाधयः सन्तु, तेन व्याप्यवृत्तिरवयवान्तरवृत्तिश्चोपपत्स्यत इत्याह—शरीरतदवयव इति । किंच सर्वेषा- मप्यवयवानामुपाधित्वे शिरसि सुखमित्ययं नियमो नोपपद्येत, अवयवान्तराणामप्युपाधित्त्वेन तत्रापि प्रकाशः । अथेति । ज्ञानकरणजन्यः सुखायनुभव इन्द्रियजन्यः जन्यप्रत्यक्षत्वात्, रूपप्रत्यक्षवत् । स्पर्शाद्यविषयत्वेन विशेषणान्न त्वगादिना अर्थान्तरम् । गन्धादिष्वेकैकमात्रप्रत्यक्षजनकत्वेन पृथिव्या- दिभेदसिद्धौ निःस्पर्श, लाघवाच्च निरवयवमित्यर्थः । तथापीति । यथा श्रोत्रस्य विभ्विन्द्रियतया कर्णशष्कुल्यवच्छिन्नस्यैवेन्द्रियत्वात्तदनवच्छेदेनोत्पन्नोऽपि शब्दो न गृह्यते, तदवच्छेदेनोत्पन्नस्यापि तस्य तदुपघातान्न ग्रहः । तथा मनोऽनवच्छेदकशरीरावयवावच्छेदेनोत्पन्नं सुखाद्यपि तदवच्छेदेनो- त्पन्नश्च तदुपघातान्न गृह्येतेत्यर्थः । असमवायीति । कार्यविभुविशेषगुणे चायन्नियमोऽतो न व्याप्यवृत्तिकर्मजन्यविभुपरमाणुसंयोगेन व्यभिचारः । ननु किमससमवायिकारणं स्वावच्छिन्ने विभुकार्यं जनयतीति नियमः, स्वावच्छिन्ने जनयत्ये- वेति वा, स्वावच्छिन्न एव जनयतीति वा ? आद्ये सुखादेरधिकदेशतायामापादकाभावः । द्वितीये प्रकाशिका । द्रव्यतयेति शेषः । ज्ञानकरणेति । जन्यत्वमपि पक्षविशेषणं, तेन नेश्वरप्रत्यक्षे भागबाधः, इन्द्रियज- न्यत्वं च विषयप्रत्यासन्नसंयोगिकरणसाध्यत्वमन्यथा इन्द्रियत्वस्य मनोगर्भतया साध्याप्रसिद्धेः, अत- एव च ज्ञानकरणाजन्यत्वादिकमंशतो बाधवारणाय पक्षविशेषणमन्यथा मनोजन्‍यत्वमादायानुमित्यादावपि साध्यसत्त्वेनांशतो बाधप्रसङ्गात, निःस्पर्शमिति । अतः इति पूरणीयन्तेन च कारणसङ्गतिः मकरन्दः । तियोगिन्यात्मपरिमाणे साध्याव्यापकत्वात् । ज्ञानेति । जन्यत्वमपि पक्षविशेषणमतो नेश्वरप्रत्यक्षभागे बाधः । इन्द्रियजन्यः = विषयप्रत्यासन्नसंयोगिकरणजन्य इत्यर्थः । तेनेन्द्रियत्वस्य मनोगर्भत्वादिक्षौ न साध्याप्रसिद्धिः । यथेति । यद्यप्यतिप्रसङ्गभिया श्रोत्रस्योपाधिकल्पनेऽप्यत्र तदभावान्न तत्क- टिप्पणी । सूचितस्तथा च नासङ्गतिः । आद्यन्तशब्दयोरप्युद्धवत्फलमप्रामाणिकम् । श्रोत्रप्रत्यासत्तिप्रत्यक्ष- कालस्थित्यभावेनैवाप्रत्यक्षोपपत्तेरिति । कार्यविभुविशेषगुणे चेति । मूलानुवादो न विशेषणम्, तेन विशेषगुणस्याकार्यत्वेऽपि न क्षतिः । स्वावच्छिन्न विभु कार्यं जनयतीति नियम इति । अथ प्रथमपक्ष एवकारार्थप्रत्ययात् कथं नियम इति चेन्न । न हि परिसंख्यावन्नियमे- ऽपीतरव्यावृत्तिमुखेनैव प्रतीतिनियमः, किन्तु प्राप्तांशपरिपूरणमुखेन पश्चात्प्रतीतिरिति प्रथमच्चे, पक्षप्राप्तस्वावच्छिन्नांशपूरणेन तद्विशेषणदानलब्धेन यद्यद् विभुकार्यं तदसमवायिकारणावच्छिन्नं

[तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । [३१७]


द्वयणुकादिपरमाणुपर्यन्तोपाधिकल्पनायां कल्पनागौरवप्रसङ्गो नियमानुपपत्तिश्चेति ततोऽन्यदेवेकं सूक्ष्ममुपाधित्वेनातीन्द्रियं कल्पनीयम् । तथा च तस्यैवेन्द्रियत्वे स्वाभाविकेऽधिककल्पनायां प्रमाणाभावाद्धर्मिग्राहकप्रमाणबाधः । अथ ज्ञानक्रमेणो-

बोधनी।

सुखाद्युत्पत्त्युपलम्भयोः प्रसङ्गादित्याह—नियमानुपपत्तिश्च इति । यतो नियतस्य शरीरावयव- स्योपाधित्वे सुखादीनामपि नियतत्वप्रतीतिविरोधः, शरीरमात्रस्योपाधित्वे च व्याप्यवृत्तित्वप्रतीतिवि- रोधः, शरीरतदवयवानामनियमेनोपाधित्वे कल्पनागौरवप्रसङ्गो नियमानुपपत्तिश्चेत्येते दोषाः प्रादुष्युः तस्मादेवमङ्गीकार्यमित्याह—ततोऽन्यत् इति । आशुतरसंचारीत्युपसंख्यानं कार्यं, तेन शिरःपाद- योर्युगपदुपलम्भाभिमानः सिध्यतीति । अस्तु तादृश उपाधिः, ततः किमित्यत आह—तथा च इति । तस्यैवोपाधित्वेनाङ्गीकृतस्य शरीरसंयुक्तत्वे सति साक्षात्प्रतिसाधनत्वेनेन्द्रियलक्षणलक्षितत्वादि- न्द्रियत्वे स्वभावतः सिद्धे तदेवास्तु मन इति । तथा चाणुत्वेनैव मनःसिद्धेर्धर्मिग्राहकप्रमाणबाधो वैभवहेतूनामिति । तदेवं सुखादिसाक्षात्कारसाधनत्वेन मन इन्द्रियकल्पनायां धर्मिग्राहकप्रमाणबाध उक्तः । यदा बाह्येन्द्रियेषु युगपद्विषयेषु संयुक्तेष्वपि यत्संनिधानक्रमाज्ज्ञानोत्पत्तिक्रमः प्रक्रमते, तेनेन्द्रि- यसहकारिणा केनचिद्भवितव्यमिति युगपज्ज्ञानानुत्पत्तिलिङ्गेन मनोऽनुमीयते, तदा स्फुट एव धर्मिग्रा- हकप्रमाणबाध इत्याह—अथ इति । व्यापकत्वे हि तस्य युगपत्सर्वेन्द्रियैः युगपज्ज्ञानोदयप्रसङ्गात्,

प्रकाशः ।

चाणुमनः संयोगोऽपि स्वावच्छिन्नेऽधिकदेशे च जनयेत्, नियामकाभावात् । अन्त्ये, तवापि सुखा- देरणुदेशतापत्तिः, मनोवैभवेऽपि तद्विरोधश्च । अथ निमित्तचन्दनाद्यनुरोधेन सुखादौ न्यूनाधिक- देशता निमित्तवायुसंयोगादिव शब्दे, न त्वसमवाय्यनुरोधात् । तर्हि मनोवैभवेऽपि तथाऽस्तु । न च विभुकार्यासमवायिकारणं स्वावच्छिन्ने करोत्येव, भेर्याकाशसंयोग इव शब्दमिति चन्दनाद्यनवच्छि- न्नेऽपि सुखादि स्यादिति वाच्यम् । तद्देशावच्छिन्नचन्दनसुखे हि तद्देशचन्दनसापेक्षोऽसमवायीति कथं तन्निरपेक्षस्तत् कुर्यात् । तथा च शरीरमात्रस्योपाधित्वेऽपि निमित्तवशात् सुखादेर्नियतदेशत्वं स्यात् । अत्राहुः । विभुकार्यविशेषगुणस्य न स्वासमवायिकारणन्यूनदेशत्वमिति नियमः । मनोवैभवे च शरीरं व्याप्यैव मनःसंयोगोऽसमवायीति तदवच्छेदं व्याप्यैव सुखादेरुत्पत्त्यापत्तिः । ततः पादावच्छिन्नं सुखं यदि शरीरावच्छिन्नासमवायिकारणकं स्यात्, शरीरव्यापकं स्यात् । निमित्तकारणस्य चाधिकदे- शत्वमात्रप्रयोजकत्वात् । अत एव निदाघतप्तस्य अम्भसि मग्नस्य सर्वाङ्गीणसुखधीरुपपन्नेति भावः । नियमेति । सर्वेषामेव शरीरादीनामुपाधित्वे कुतो नियतदेशसुखाद्युत्पत्तिरित्यर्थः । धर्मिग्राहकेति।

टिप्पणी ।

भवतैवेति कार्यस्य स्वानवच्छिन्नता व्यावृत्तिः । द्वितीये स्वव्याप्यव्यक्तिद्विद्देशासम्बन्धव्यावृत्त्या स्वाव- च्छिन्नसकलदेशसम्बन्धः, तृतीये चातिरिक्तदेशावच्छिन्नव्यावृत्तिः प्रतीयते, एवञ्च नियमस्थाने यावता विना नियमस्यानुपपत्तिर्भवेत्, तावदेव कल्पितं भवति, तेनैव चान्यप्रसक्तप्रसक्ती व्यवस्थाप्येते । तथा च सति प्रथमे पक्षे हस्तादिशरीरावयवावच्छिन्नकार्यस्य शरीरानवच्छिन्नत्वविरहेण नियमस्य सकलशरीरावयवावच्छिन्नत्वं विनानुपपत्तेरभावात्, तयोरुपपादकस्याकल्पनाद् हस्तावावच्छिन्नस्य पादा- द्यधिकदेशावच्छिन्नत्वे को ममापि पक्षे प्रसञ्जक इति पूर्वपक्षिणोऽभिप्रायः । द्वितीये च यथा मम पक्षे हस्तावच्छिन्नस्य पादानवच्छिन्नत्वे नियमभङ्गः स्यादित्युपपादकमहिम्ना सकलावयवावच्छिन्नत्वेऽधि- कदेशतापत्तिस्तथा तवापि मतेऽणुरूपमनोदेशाधिकहस्तादिदेशावच्छिन्नत्वस्यापि नियमानुपपत्त्य- भावमात्रादेव स्वीकरणीयतया तस्य हस्ताद्यधिकपादादिदेशावच्छिन्नत्वेऽपि नियमानुपपत्तेरभावात् तदपि स्यात्, अणुदेशाधिकहस्तावच्छिन्नत्वस्वीकर्त्रा अधिकदेशताविघटकनियामकस्य वक्तु- मशक्यत्वादित्यभिप्रायः । अन्त्ये स्पष्टः । तवापि=तवैवेत्यर्थः । यद्वा हस्ताद्यवच्छिन्नस्यापि

यहाँ पृष्ठ का देवनागरी में पंक्तिशः लिप्यन्तरण प्रस्तुत है:

३५८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां न्द्रियसहकारितया तदनुमानं, ततः सुतरां प्रागुक्तदोषः । यदि च मनसो वैभवॆऽ- प्यदृष्टवशात् क्रम उपपाद्येत, तदा मनसोऽसिद्धेराश्रयासिद्धिरेव वैभवहेतूनामिति । अथ यत्रादृष्टस्य दृष्टकारणोपहारेणोपयोगः, तत्र तत्पूर्णतायां कार्य्यमुत्पद्यत एव । अन्यथा अन्त्यतन्तुसंयोगेभ्योऽपि कदाचित् पटो न जायेत, जातोऽपि वा कदाचिन्निर्गुणः स्यात्, बलवता कुलालेन दृढदण्डनुन्नमपि चक्रं न भ्राम्येत । यत्र तु दृष्टानुपहारेणादृष्टव्यापारस्तत्र तद्वैगुण्यात् कार्य्यानुदयः । यथा परमाणुकर्मणः । तदिहापि यदि विषयेन्द्रियात्मनां समवधानमेव ज्ञानहेतुः, तदा तत्सद्भावे सदैव कार्य्यं स्यात्, न ह्येतदतिरिक्तमप्यदृष्टस्योपहरणीयमस्ति, न च सदैव ज्ञानोदयः, ततोऽतिरिक्तमपेक्षितव्यम् । तच्च यद्यपि सर्वाण्येवेन्द्रियाणि व्याप्नोति, तथापि बोधनी । ज्ञानक्रमार्थं कल्प्यमानस्याणुत्वेनैव सिद्धिरिति ! न च विभुत्वेऽपि मनसोऽदृष्टस्यापि ज्ञानोत्पत्तिहेतु- त्वात् तत्क्रमवशादेव ज्ञानक्रम उपपद्यत इति वाच्यम्, युगपज्ज्ञानानुत्पत्तेरन्यथासिद्धत्वेन प्रमाणाभा- वात् मनस एवासिद्धिप्रसङ्ग इत्याह—यदि च इति । अत्र शङ्कते—अथेत्यादिना चेदित्यन्तेन । द्वेधा ह्यदृष्टस्य कारणत्वं दृष्टकारणोपहारमात्रेण, तदनपेक्षं स्वयमेव चेति । तत्र पूर्वत्र दृष्टकारणसाकल्ये कार्यमुत्पद्यत एव न पुनस्तस्मिन्सत्येवादृष्ट- वैकल्यादेव कार्याद्युत्पत्तिरिति । अन्यथा द्रव्यगुणकर्मणां सत्स्वेव दृष्टकारणेषु कदाचिददृष्टवैकल्या- दनुत्पादः स्यात् न चैतदस्ति । यत्र तु साक्षाददृष्टस्यैव कारणत्वं यथा परमाणोराद्यकर्मणि-तदुक्तम्- “अग्नेरूर्ध्वज्वलनं वायोस्तिर्य्यक्पवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि” इति (वै. सू. ५. २. २३ )—तत्रादृष्टवैकल्यादेव कार्यानुत्पत्तिरिति । अस्त्वेवं, प्रकृते किमायातमित्यत आह-तदिहापि इति । विषयेन्द्रियात्मनां साहित्येऽपि सुखापादौ ज्ञानानुदयात्तदतिरिक्तं किमप्यदृष्टोपहरणीयं दृष्टं कारणमस्ति तन्मन इति मनःसिद्धेर्नाश्रयासिद्धिरिति । तथापि तस्य विभुत्वाङ्गीकारे युगपज्ज्ञानोत्प- त्तिप्रसङ्गस्तदवस्थ इत्याह—तच्च इति । विभुत्वेऽपि तस्य करणत्वेन कल्प्यमानत्वात्, प्रकाशः । सुखाद्युपलब्धीनामिन्द्रियजत्वानुमाने मनोऽणुत्वानङ्गीखेऽपि अनुपपत्तिवशादणुत्वं विषय इति धर्मि- ग्राहकतुत्यतया तद्बाध उक्तः । प्रागुक्तेति । धर्मिग्राहकमानबाध इत्यर्थः । युगपद्नेक- विषयसम्बद्धानानेन्द्रियसंयोगे सति ज्ञानक्रमानुपपत्तेरणुत्वेनैव तदुपपत्तेरिति भावः । यदि चादृष्टवशा- ञ्चोक्तदोषावकाशस्तदा तत एव ज्ञानक्रमोऽपि स्यादिति मनःसिद्धौ न मानमस्तीत्यार्थ्यासिद्धा हेतव इत्याह । यदि चेति । तथापीति । एकं करणमेकत्रैकदा एकावच्छेदे नैकजातीयमेकामेव क्रियां प्रकाशिका । एकं करणमिति । एकेनापि कालेनानेकक्रियोत्पादने, एकावच्छेदेनेति । करणमिति विशेषणं करणत्वचासाधारणकारणत्वम् । एकत्रेत्यादीति । एकत्रैकदापदयोः कुठार एव व्यभिचारवारक- त्वम् । एकेनैव कुठारेण पङ्किभूतनानापत्राच्छिदाजननात् कालभेदेनेकत्रैव नानाच्छिदाजननाच्च । एकदेति पाठो यत्र नास्ति तत्रापि तत्पूरणीयम् । अन्यथोक्तव्यभिचारापत्तेः । नानारूपादिजनकेऽ- भिसंयोगे व्यभिचारवारणाय एकजातीयामिति। नानादिगवच्छिन्ननानाशब्दजनके शब्दे व्यभिचारं- वारणाय एकावच्छेदेनेति । नचैकावच्छेदेनेति दत्ते एकत्रेति व्यर्थम् । चरणावच्छेदेन शाखावृक्ष- मकरन्दः । ल्पनमहं बहिरिन्द्रियत्वञ्चाप्रयोजकं, तथाप्यापातत इदं, व्यासङ्गानुपपत्तावेव तात्पर्यम् । एकं करणमिति टिप्पणी । पादाद्यवच्छिन्नत्वे नियमक्षतेरभावान्नियमकाभावादापत्तिः, तथा तवाप्यणु देशतापत्तिरित्यपि कथंचिद् व्याख्या सम्भवतीति । धर्मिग्राहकतुत्यतयेति । मनोवैभवानुमानेन मनोरूपधर्मिप्रसिद्ध्यर्थं

तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३१६ करणधर्मत्वेन क्रियाक्रमः सङ्गच्छते । अकल्पिते तु तस्मिन्नयं न्यायः । प्रतिपत्तुर्- करणात्वाच्चक्षुरादीनामनेकत्वादिति चेत् । नन्वेवमपि युगपज्ज्ञानानि मा भूवन्, युगपज्ज्ञानं तु केन वार्यते । बोधनी । करणानां च क्रमेण क्रियाकरणस्वभावत्वात् ज्ञानक्रम उपपद्यत इति । ननु कल्पितेऽपि मनसि यदि करणधर्मत्वादेव ज्ञानक्रमः तर्हि क्लृप्तस्यैवात्मनो बाह्येन्द्रियाणां चानेन न्यायेन क्रियाक्रमोऽस्तु किं मनःकल्पनेत्यत्राह—अकल्पिते तु इति । कुत इत्यत आह—प्रतिपत्तुः इति । करणधर्मोऽयं न तु कर्तृधर्मः कर्ता चात्मा करणत्वेऽपि चक्षुरादीनामनेकत्वादेकस्य चैकैकज्ञानो- त्पादनाविरोधात् पञ्चभिरपीन्द्रियैर्युगपच्च ज्ञानान्युत्पद्येरन् । कल्पिते तु मनसि तस्यैकत्वात्करणत्वाच्च न युगपज्ज्ञानानुत्पत्तिरुपपन्नेति निराकरोति—नन्वेवम् इति । मा नाम भूत् पञ्चानां ज्ञानानां युगपदुत्पत्तिस्तथापि गन्धादिसंयुक्तघ्राणादिपञ्चेन्द्रियव्यापिना मनसा गन्धादिपञ्चकविषयैकज्ञानोत्पत्ति- प्रकाशः । जनयति, न त्वनेकाम् । एकत्रेत्यादिविशेषणात् कुठाराग्निशब्देषु युगपदनेकच्छिद्दारूपादिनानादिगव- च्छिन्नानेकशब्दजनकेषु न व्यभिचार इति करणधर्मत्वेन क्रियाक्रमः स्यादित्यर्थः । न च तथापि चक्षुराद्यवच्छेदेन शब्दवद्भिन्नादेशां परमाण्वाविव विजातीयमग्निसंयोगवदनेकां क्रियां कुर्यादेवेति वाच्यम् । ज्ञानकरणमेकत्रात्मनि एकदैकमेव ज्ञानं जनयति । समूहालम्बनकरण- वत् । कथमम्यथा सामग्रीसत्त्वे समूहालम्बनमेकज्ञानम् । नन्वन्यज्ञानसामग्रीसत्त्वे कार्य्यावश्यम्भावः, तदसत्त्वे किं करणधर्मत्वेन । तस्य सहकार्यन्तरमात्रपर्यवसायित्वात् । न । ज्ञानकरणस्यैकत्रैकदैकज्ञा- नमात्रजनकतया तत्र नानाज्ञानकारणाभावेनैव सामञ्जस्यत्वात् । प्रतिपत्तुरिति । तस्यानेककरणो- पेतस्यानेककार्यकर्तृत्वादिति भावः । चक्षुरादीनामिति । एषां यौगपद्यात् पुनः स एव ज्ञानयौग- पद्यप्रसङ्गः । करणधर्मत्वेनापि प्रत्येकमविशेषादिति भावः । नन्वेवमिति । एवमप्येकदा बहूनां ज्ञानानामनुत्पत्तावप्येकदा नानेन्द्रियकरणकं रूपादिज्ञान- मेकं स्यादेव, एकेन्द्रियजन्यसमूहालम्बनज्ञानवदित्यर्थः । न च चाक्षुषत्वादिसङ्करापत्तेर्नैकं ज्ञान- मिति वाच्यम् । तथा सति फलविरोध्येनैकस्यापि ज्ञानस्याजननापत्तेः, चित्ररूपवच्चाक्षुपादिविजातीय प्रकाशिका । संयोगजनके श्येनकर्मणि व्यभिचारवारकत्वात् । एकत्वं चाधिकरणस्य सर्वस्य विवक्षितमन्यथोक्तव्य- भिचारावारणात् । नचावच्छेदक एव यावत्त्वविवक्षास्त्वितिवाच्यम् । प्रकृतव्यासौ वैयर्थ्याभावात् । नानेति । यत्र नानादिगवच्छिन्नेति पाठो युज्यते अन्यथानन्वयात् । ज्ञानकरणमिति । अत्राप्येकमिति मकरन्दः । प्रत्यक्षप्रकाशे द्रष्टव्यम् । नानेति । यत्र नानादिगवच्छिन्नेति पाठो युज्यते, अन्यथानन्वयात् । टिप्पणी । यदि उपलब्ध्रिक्रियासकरणकत्वानुमानमुपजीव्यमङ्गीकरणीयं तदापि द्रव्यत्वरूपहेतुघटकसिद्धयर्थत्वेने- न्द्रियजन्यत्वानुमानमप्युपजीव्यमित्येतदप्युपजीव्यत्वेन तत्तुल्यमित्येतद्दोषोऽपि दोष इति भावः । कुठाराग्निशब्देष्विति । पङ्क्तिवृत्तानेकपत्रेष्वेक्रेन कुठारेण युगपच्छिदाजननाद् व्यभिचारवारणाय एकत्रापि कालभेदेनानेकच्छिदोत्पत्त्या व्यभिचारवारणाय एकदेति । अग्निसंयोगेनैकदैकधर्मिणि विजातीयरूपरसादिजननाद् व्यभिचारवारणायैकजातीयामिति । शब्दे व्यभिचारवारणाय एकावच्छेदेनेति विवेकः । ज्ञानकरणमेकत्रेति । कायव्यूहस्थले युगपदेकत्रात्मनि नाना- ज्ञानकल्पनाद् व्यभिचारः स्यादित्येकमिति पूरणीयम् । ज्ञानकारणस्यानेकस्यानेकात्मन्येकदानेकज्ञानज- नकत्वाद् व्यभिचारवारणायैकत्रेति । ज्ञानकरणस्यैकत्रैकदेति । अदृष्टस्य दृष्टमात्रोपहारकत्वाद्

३२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां भवत्येव समूहालम्बनमेकं ज्ञानमिति चेन्न। एकेन्द्रियग्राह्येष्विव नानेन्द्रिय- ग्राह्येष्वपि प्रसङ्गात्। तेष्वपि भवत्येवेति चेन्न। व्यासङ्गकाले ज्ञानक्रमेण विवाद- विषये क्रमानुमानात्। बुभुत्साविशेषेण व्यासङ्गे क्रियाक्रम इति चेन्नैवम्। बोधनी। भवन्ती गीर्वाणशापेनापि वापयाति, तच्चानिष्टमीति। उक्तमर्थं यथावदजानानश्चोदयति—भवत्येव इति। इष्यत एतत्सेना वनादिवदनेकालम्बनमेकं ज्ञानमतो नादिष्टमिति स्वाभिसन्धिमुद्घाटयन्नाह—न इति। अनेकेन्द्रियग्राह्यगन्धरसादिविषयकज्ञानोत्पत्तिरापद्यते, तच्चानिष्टमीति। अत्र सांख्यः शङ्कते—तेष्वपि इति। दीर्घशष्कुलीं भक्षयतः पुरुषस्य तद्गतगन्धरसस्पर्शशब्दादिविषयमेकसमुत्प- द्यत एव ज्ञानं ततो नेदमप्यनिष्टमिति। न तत्राप्यनेकविषयमेकं ज्ञानमुत्पद्यते भिन्नानां क्रमवतामेव ज्ञानानां कालभेदः सूक्ष्मत्वान्नोपलभ्यत इत्येवाङ्गीकर्तव्यमिति। कुत इत्याह—व्यासङ्ग इति। आत्मेन्द्रियविषयसमवधाने सत्यपि यदा कस्मिंश्चिदेव विषये ज्ञानमुत्पद्यते, न सर्वेषु तस्मिन्व्यासङ्ग- काले ज्ञानक्रमदर्शनादन्यदापि मनसः क्रमकरणस्वभावोऽनुमीयत इति तत्रान्यथासिद्धिमाशङ्कते बुभुत्सा-इति। व्यासङ्गकाले ज्ञानक्रमो बुभुत्सातत्क्रमप्रयुक्तो न तु मनसः क्रमकरणस्वभावप्रयुक्त इति। मैवम्-इति। न हि बुभुत्साया एष महिमाऽस्ति यत्स्वव्यतिरेके ज्ञानव्यतिरेक इति, किन्तु प्रकाशः। स्यैव ज्ञानस्य सामग्रीसत्त्वेनोत्पत्त्यापत्तेर्वा। न च तत्र फलबलात्तथा। अत्र फलाभावे हेतोः कल्प्य- त्वापत्तेः। अन्योन्यप्रतिबन्धस्य तत्त्वे वाऽज्ञानमेव स्यान्न त्वेकस्य ज्ञानमित्युक्तम्। वस्तुतः पञ्चसु यदेकं करणं ज्ञानं जनयति नापराणि, तत्र नियामकमास्थेयम्। अन्यथा ज्ञानजनने तेषां कलहं कः समादध्यादिति भावः। आशयमविद्वानाह। भवत्येवेति। एकैकेन्द्रियेण स्वस्वविषये समूहाल- म्बनमेकैकं जन्यत एवेत्यर्थः। आशयमुद्घाटयति। एकेति। तेष्वपीति। दीर्घां शष्कुलीं भक्षयतो गन्धादिज्ञानमेकमनेकेन्द्रियजन्यमुत्पद्यते इत्यर्थः। व्यासङ्गेति। एकेन्द्रियासक्तमनसोऽणुना मनसा युगपदनेकेन्द्रियासन्निकर्षात्तत्र ज्ञानक्रमस्य सर्वसिद्धत्वात् तद्दृष्टान्तेन तत्रापि गन्धादिज्ञानोत्पादः क्रमेण भवतीत्यनुमीयते। कालसौक्ष्म्याच्च क्रमो न लक्ष्यत इत्यर्थः। ननु दृष्टान्ते नानेकेन्द्रियमनः- संयोगाभावः क्रमप्रयोजकः, किन्तु बुभुत्साप्रयुक्त इत्याह। बुभुत्सेति। बुभुत्सा न रूपादिग्रहहेतुर्न प्रकाशिका। पूरणीयम्। अन्यथा कायव्यूहस्थले व्यभिचारात्। न चैकत्रेत्यधिकम्। आलोकादौ कारणे व्यभि- चारवारकत्वात्। ननु रूपादिषु मध्ये रूपमात्रव्यञ्जकत्वं हेतुस्तैजसत्वसाधने चाक्षुष उक्त इति रूपान्य- साक्षात्कारे चक्षुःस्वरुपायोग्यं (संयोगजन्यं) कथं तं जनयेदत आह। वस्तुत इति। नचादृष्टमेवात्र नियामकं गोगोत्वोभयविषयकनिर्विकल्पकानन्तरं गोविशेष्यकज्ञान इवेति वाच्यम्। अणुना मनसा दृष्टेनैवोपपत्तावदृष्टकल्पनानवकाशात्, अन्यथा मनस एवासिद्धेः। अणुना मनसेति। यद्यपि मनो- ऽणुत्व एव विवादः, तथापि व्यासक्तमनसो ज्ञानक्रमस्य सर्वसिद्धत्वादणुत्वं तदुपपादकतया मनसः कल्पनीयमिति भावः। ननु दृष्टान्त इति। आलोकेन्द्रियमनः संयोगास्याभावो ज्ञानजनकत्वाभावः, मकरन्दः। ननु रूपादिषु मध्ये रूपादिमात्रग्राहकत्वेनैव चक्षुरादिसिद्धेस्तदन्यगुणग्रहे तदसामर्थ्याच्चि- त्रज्ञानमसम्भवतीत्यरुचेराह वस्तुत इति। ननु गोगोत्वनिर्विकल्पकानन्तरमन्यतरविशेष्यकज्ञानोत्पत्ता- विवादृष्टमेवात्र नियामकमस्तु, यथा च तत्र नोभयविशेष्यकसमूहालम्बनं तथाऽत्र न युगपज्ज्ञानमिति चेत्। न, अणुना मनसा दृष्टेनैवोपपत्तावदृष्टकल्पनानवकाशात्। अन्यथा स एव न कल्प्येतेति भावः। सर्व्वसिद्धत्वादिति। यद्यपि युगपदनेकेन्द्रियसन्निकर्षो न सर्वसिद्धः, तथापि ज्ञानक्रमस्य तत्र सर्व्वसिद्धत्वात् अत्रापि क्रम इत्यत्रैव तात्पर्यम्। तदस्यः शङ्कते नन्विति। मद्धा, गूढामि-

तृतीयस्तवके ] अनुपलब्धेर्र्वाहकत्वनिराकरणम् । ३२१ न ह्येष बुभुत्साया महिमा यद्बुभुत्सिते विषये ज्ञानसामग्र्यां सत्यामपि न ज्ञानमपि तु बोधनी । सामग्रीव्यतिरेकादेव ज्ञानव्यतिरेक इति । कस्तर्हि बुभुत्साया महिमेत्याह - अपि तु इति । प्रकाशः। वा इतरज्ञानप्रतिबन्धिका, किं त्वन्यथा उपयुज्यते इत्याह । न हीति । ननु बुभुत्साया अतन्त्रत्वे कथं मनोऽणुत्वपक्षे मन्दोऽपि बुभुत्सितः शब्दो गृह्यते, नान्यः । तन्त्रत्वेऽपि कथं दशभिः पठ्यमानासु गाथासु तावद्गोचरबुभुत्सायां प्रणिधाने च सर्वेषामज्ञानमेक- ज्ञानञ्च । न च श्रोत्रमनःसंयोगविशेषः कार्योन्नेयोऽस्ति, स एव किञ्चिच्छब्दग्रहहेतुस्तदन्यग्रहप्रति- बन्धक एवेति वाच्यम् । विभुत्वेऽपीन्द्रियमनःसंयोगविशेषस्य तथात्वे व्यासङ्गोपपत्तेः । अथ प्रत्यक्षा- नुकूलेन्द्रियमनःसंयोगद्वारा बुभुत्साप्रणिधानयोः प्रत्यक्षहेतुत्वमिति चाक्षुषादिबुभुत्सितग्रहे कृतत्वात्ताभ्यां श्रोत्रे बुभुत्सितशब्दावच्छेदेन मनःसंयोगः कृत इति स एव गृह्यते, नान्य इति चेन्न ! युगपत्यठ्य- मानासु विंशतिगाथासु तावद्गोचरबुभुत्साप्रणिधानयोः सत्त्वे तावद्गाथावच्छेदेन मनःसंयोगाद् युगपत्तासामुपलम्भप्रसङ्गात् । प्रत्येकसामग्रीसत्त्वात् । उच्यते । यद्यपि बुभुत्साप्रणिधाने न शब्दग्रहमात्रे सहकारिणी, न वेतरग्रहप्रतिबन्धके, तथापि नानाशब्दसमवायदशायां यः शब्दग्रहस्तत्र तयोस्तथाभावः । तथैव तेषामन्वयव्यतिरेकनियमात् । प्रकाशिका । किञ्च बुभुत्साप्रयुक्त इत्यर्थः । गूढाभिसन्धिः पृच्छति । नन्विति । अभिसन्धिमुद्घाटयति विभुत्वेऽ- पीति । तथापीति । यद्यपि नानेन्द्रियनानाविषयसन्निकर्षकालीन्यान्यतरबुभुत्साया रूपादिग्रा- मकरन्दः । स्रन्धिः शङ्कते नन्विति । अत एवाभिसन्धिमुद्घाटयति विभुत्वेऽपीति । तथैव तेषामिति । टिप्पणी । दृष्टेऽनेकज्ञानकारणे सम्भृते सहसैवादृष्टविलम्बेन कारणाभावस्य वक्तुमशक्यत्वात् , कारणधर्मत्वे चा- स्थिते प्रामाणिकतन्निर्वाहाय, तत्कल्पनस्य सम्भवादिति भावः । प्रणिधाने चेति । संयोगविशेषानुकूलो मनःकर्मविशेषः प्रणिधानम् । श्रोत्रमनःसंयोगविशेष इति । विशेषश्च कालदेशेन्द्रियविषयादि- सम्बन्धः । स एव गृह्यते नान्य इति । स एवेत्येकवचनं बुभुत्सितसाकल्यव्यवच्छेदार्थम् । तथा च बुभुत्सितेत्यनन्तरं कियदिति लभ्यते एवञ्च बुभुत्साया अनेकशब्दगोचरत्वेऽपि स्वातन्त्र्येण तस्या अहेतुत्वानमनसोऽणुत्वाद् यद्यच्छब्दावच्छेदेन श्रोत्रमनःसंयोगस्तेषामेव ग्रहणं न बुभुत्सितानां सर्वेषां नाप्यबुभुत्सितानामिति भवति प्रकटित आशयः । एतेन तन्त्रत्वेऽपीत्यन्तेन ग्रन्थेन यः कृतो निरासः स एव न युगपदित्यादावपि प्रतीयते इति कथमयेत्यादिशङ्कोन्मेष इति निरस्तम् । कर्णशष्कुल्यवच्छिन्नमाकाशं श्रोत्रं न तत्सावयवं यत्र तत्तदवयवरूपावच्छेदकभेदेन विद्यमानशब्दस्या- णुमनःसंयोगं प्रत्यवच्छेदकत्वे विशेषः स्यादिति । श्रोत्रशब्देषु विद्यमानेषु तत्र च मनःसंयोगे तत्तत्प्रत्यवच्छेदकत्वतदभावौ तेषु केषुचिद् व्यवस्थितौ न भवत एवेति न प्रसङ्गस्य वारणम् । न च कर्णशष्कुल्यवयवस्य श्रोत्रावच्छेदकत्वम् । न चाकाशे विद्यमानेषु शब्देषु तत्संबन्धाना मवयवानां कस्यचिदवच्छेदकत्वं कस्यचिन्नेत्यपि वक्तुं शक्यमिति भावः ॥ शब्दसमवायदशायामिति । ननु शब्दसमवायस्याविशेषे बुभुत्सायाश्चाविशेषे कस्यचिदेव शब्दस्य ग्रहः, कस्यचिन्नेत्यत्रैव मानाभावात् कथमेतत्संगच्छत इति चेन्न । कस्यचिदेव शब्दग्रहणेऽनुभवसिद्धे हि सर्वेषां ग्रहणप्रसङ्ग- रूपो दोषः, अन्यथेष्टापत्तेः, तदर्थं कस्यचिद् विशेषोऽनुभवगोचरोऽपि शब्दे तद्द्वारा बुभुत्सायाञ्च कल्प्यः, स चानेकभवीयानुस्यूतरागप्रभववासनाविशेषविषयत्वादिरूप्यस्ति सम्भावितः, तथापि कार्यकारणत्वयोर्लाघवेन कार्यकारणवृत्ति तद्व्यक्तित्वयोरेवावच्छेदकत्वं द्व्यक्तीतरप्रतिबन्धकत्वे च कारणतावच्छेदकतद्व्यक्तित्वस्य चावच्छेदकत्वमिति कल्प्यते । न चैवम्मनोविभवेऽप्येवमेवास्तु कल्प- ४१ न्या० क०

३२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां न तत्र संस्कारातिशयाधायकः प्रत्ययः स्यात्। यदि त्वबुभुत्सिते विषये साम- ग्रीमेव सा निरुन्ध्यात्, घटायोन्मीलितं चक्षुः पटं नैव दर्शयेत् तस्माद् बुभुत्सापी- न्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपज्ज्ञानानुत्पत्ता- वुपयुज्यते, न तु स्वरूपतः। विभुनोऽपि मनसो व्यापारक्रमात् क्रम इति चेन्न। बोधनी। स्वसामग्र्या जायमानः प्रत्ययो बुभुत्सया दृढतरसंस्काराधानसमर्थो भवतीति। ज्ञानमात्रोत्पत्तावपि बुभुत्सोपयोगेऽनिष्टमाह-यदि तु इति। यदि बुभुत्सा न कारणं तर्हि बुभुत्सिताबुभुत्सितयोर- विशेषेण ज्ञानं जायेत। न च मधुरतरसङ्गीतमादरेणाकर्णयतः सन्निहितेष्वपि विषयान्तरेषु युगपदेव ज्ञानोत्पत्तिर्दृश्यत इत्याशङ्क्याह-तस्मात् इति। यतो ज्ञानोत्पत्तौ बुभुत्सायाः साक्षादनुपयोगस्त- स्मात्तत्रापि मनःसंयोगक्रमादेव ज्ञानक्रमस्तत्संयोगक्रम एवं बुभुत्साया उपयोग इत्यर्थः। पुनरपि ज्ञानक्रमवादी शङ्कते-विभुनोऽपि इति। न इति। तस्य व्यापारस्य संयोगरूपत्वे तावन्न क्रमः संभवति विभुत्वान्मनसः, तदतिरेकेण तु कल्प्यमानस्य कर्मत्वेऽपि विभुत्वव्याघातः, गुणत्वेऽपि प्रकाशः। न चाणावपि मनसि रसनसंयुक्ते त्वक्संयोगस्यापि सत्त्वाद् रसगुडद्रव्यज्ञानयौगपद्यापत्तिः। रसनसंयोग- काले मनस्त्वक्संयोगे मानाभावात्। तस्माच्चाक्षुषज्ञानवतो मैत्रस्य स्वविषयसंबद्धानि त्वगादीनि स्वविषयसाक्षात्कारहेतुसंयोगशून्यानि, तदा स्वविषयसाक्षात्कारजनकत्वात्, पटवत्, अन्यथा सामग्रीसत्त्वे युगपज्ज्ञानोत्पादप्रसङ्गः। प्रकाशिका। णुकत्वमिति समः समाधिः। तथाप्यणुनेव मनसोपपत्तौ नैवं हेतुता गौरवादित्यभिसन्धिः। मिश्रास्तु तादृशबुभुत्सापि न प्रयोजिका, असत्यामपि तस्यामुत्कटसूचीसर्पादिव्यथाऽनुभवेन व्यभिचारादित्याहुः। तच्चिन्त्यम्। शब्देऽपि, सत्यामपि तादृशबुभुत्सायां निकट आहन्यमानढक्कादिशब्दस्य तारतम्यस्या बुभुत्सितस्यापि ग्रहेण तस्या व्यभिचारात्। वस्तुतो विभुत्वे मनस आत्मसंयोग एव कारणाभावा- न्न स्यादित्येव बाधकम्। न च नित्य एव स संयोगः। संयोगत्वस्यैव लाघवेन द्रव्यजन्यतावच्छेदकत्वा- दिति दिक्। रसनसंयोगेति। न च त्वङ्मनस्संयोगस्य ज्ञानमात्रजनकत्वादिदमयुक्तमिति वाच्यम्। त्वचस्तथात्वेऽपि त्वङ्मनःसंयोगस्य तथात्वे मानाभावात्। न च सुषुप्त्यनुपपत्तिरेव मानम्। शरीर- मनःसंयोगेनैव तदुपपत्तेः। न चैवं "मनसोऽनिन्द्रियप्रत्यासन्नतये"त्यादि मूलविरोध इति वाच्यम्। इन्द्रियपदस्येन्द्रियाश्रयपरत्वात्। चाक्षुषेति। सामान्यतः साक्षात्कारजनकत्वं स्वरूपासिद्धमत उक्तं चाक्षुषज्ञानवत इति। तेन तदानीमित्यनेन चाक्षुषज्ञानकालपरामर्शन्नासिद्धिरिति भावः। विषय सम्बन्धव्यतिरेकमादायार्थान्तरमिति संवद्धानीत्यन्तं पक्षविशेषणम्। साध्ये संयोगेति पक्षधर्म- मकरन्दः। नन्वेवं वैभवेऽपि रूपादिसकलगोचरबुभुत्साया अहेतुत्वेऽपि तदन्यतमबुभुत्सा तद्ग्राहिका अन्य- ग्रहप्रतिबन्धिका चास्तामिति तुल्यः समाधिः। न च तादृशबुभुत्सायामपि सूचीसर्गादिवेधाद्यनुभवेन तादृश्या अपि व्यभिचारान्नैवमिति वाच्यम्। शब्देऽपि तादृशबुभुत्सायां निकठाहन्यमानढक्का शब्दा- नुभवेन तुल्यत्वात्। अत्रापि यदि विशेषकल्पनं, तदा तदपि तुल्यमिति। मैवम्। अणुना मनसैवोत्तौ तादृशबुभुत्साहेतुत्वादिकल्पनायामेव गौरवात्। रसनसंयोगकाल इति। न च त्वङ्मनोयोगस्य ज्ञानमात्रहेतुत्वे तदवश्यकमिति वाच्यम्। त्वचस्तथात्वमतेऽपि तत्तन्मनोयोगस्य तथा- त्वे मानाभावात्। न च सुषुप्तौ ज्ञानानुत्पत्तिरेव मानं, शरीरमनःसंयोगाभावात्तदुपपत्तेः। चाक्षुषेति। टिप्पणी। नेति वाच्यम्। अणुत्वपक्षेऽल्पतरप्रतिबन्धकत्वस्य कल्पनीयत्वात्। इन्द्रियान्तरजन्यानन्त- ज्ञानस्य मनःसम्बन्धाभावेनैवोपपत्तेः, वैभवे चानन्तप्रतिबन्धकत्वस्यैव कल्पनीयत्वादिति भावः॥

तृतीयस्तवके ] अनुपलब्धेरधिकत्वनिराकरणम्। ३२३ तस्य संयोगातिरिक्तस्य कर्मरूपत्वे वैभवविरोधात्। गुणरूपत्वे नित्यस्य क्रमानुपपत्तेः। अनित्यस्य च नित्यैकगुणस्याविभुद्रव्यसंयोगासमवायिकारणकत्वेन तदन्तरेणानुपपत्तेः। तदपि कल्पयिष्यते इति चेत्, तदेव तर्हि मनःस्थाने निवेश्यतां लाघवाय। तस्मादण्वेव मन इति॥ तथा च, तस्मिन्ननिन्द्रियप्रत्यासन्ने निरुपाधानत्वादात्मनः सुषुप्त्यवस्थायामस- नुपलम्भः। एतदेव मनसः शीलमिति कुतो निर्णीतमिति चेत्, अन्वयव्यतिरेका- भ्याम्। न केवलं तस्य, किन्तु सर्वेषामेवेन्द्रियाणाम्। न हि विशेषगुणमनपेक्ष्य चक्षुराद्यपि द्रव्ये प्रवर्त्तते। स्वापावस्थायां कथं ज्ञानमिति चेत्, तत्तत्संस्कारोद्बोधे


बोधनी। तस्य नित्यत्वाभ्युपगमे क्रमोत्पत्तिरीति न संभवति अनित्यत्वे तु विभुद्रव्यैकगुणस्याप्यविभुद्रव्य- संयोगासमवायिकारणकत्वेन व्याप्तेराकाशैकगुणे शब्दे भेर्याद्यविभुद्रव्यसंयोगासमवायिकारणकत्व- दर्शनेनावधारणाद्विभुद्रव्यमन्तरेण तदनुपपत्तेरससमवायिसंयोगाधिकरणं किञ्चिदविभुद्रव्यं कल्प- नीयम्। यदि तदपि कल्प्येत तर्हि कल्पनालाघवाय तदेवाऽस्तु मन इत्युपसंहरति-तस्मात् इति। उपपादितमर्थमुपजीव्य पूर्वप्रकृतमेवोपक्रम्याह-तथा च इति। यथोक्तमार्गेणाणुनि मनसि तस्यानिरिन्द्रियप्रदेशावस्थानापत्तौ मनःसहकारिविधुरैरिन्द्रियैः ज्ञानादिविशेषगुणानुत्पादादात्मनो निरुपाधानत्वात् सुषुप्तावस्थायामनुपलम्भः सिध्यतीति। एतत् इति। विशेषगुणोपहितमेवात्मानं गृह्णातीत्येतदेवेति। विशेषगुणोपधानानुपधानायोरात्मनो ग्रहणाग्रहणाभ्यां तन्निश्चितमित्याह-अन्वय इति। न केवलं मनस एवेदं शीलं किन्तु सर्वेन्द्रियाणामपीत्याह-केवलम् इति। एतदेवोप- पादयति-न हि इति। अन्यथा वाय्वादिकमपि चक्षुः प्रवर्त्तेतेति भावः। स्वप्ने वा कथं सुषुप्तिवन्मनसो


प्रकाशः। नित्यैकगुणस्येति। नित्यपदं स्नेहे, एकपदञ्च द्वित्वादौ व्यभिचारवारणाय। नित्यवृत्त्येक- वृत्त्यनित्यगुणत्वेन मूर्त्तसंयोगासमवायिकारणगुणवृत्तित्तिगुणत्वव्याप्यजातिमत्त्वं साध्यमित्यर्थः। ननु मनोऽवयव्यस्तु तस्य संकोचविस्ताराभ्यां ज्ञानक्रमयौगपद्ययोरुपपत्तेः। शष्कुलीभक्षणानन्तरं गन्धादीन् युगपद् प्रत्येमीत्यनुव्यवसायस्य बाधकं विना प्रमात्वात्। मैवम्। यदि संकोचविस्तारहेतु- रदृष्टं, तदा तत एव तदुभयमस्तु, किं मनसा। नाप्येकपञ्चबुभुत्सा तौ भवतः। बुभुत्साया अहेतु- त्वात्, हेतुत्वे वा लाघवादिषु मनोऽस्तु। एतेनाणुमनःपञ्चकमस्तु अवयविनो लघूत्वाद् बुभुत्सा- वशात्तेषामेकपञ्चेन्द्रियसम्बन्धादुभयोपपत्तेरित्यपास्तम्। पञ्चबुभुत्सायां पञ्चेन्द्रियसम्बन्धे व्यासङ्गा- नुपपत्तेरित्यभिप्रेत्याह। तस्मादिति॥ एवमौपोद्घातिकं मनोवैभवनिराकरणं समाप्य प्रकृते योजयति। तथा चेति। एतदेवेति। विशेषगुणोपहितात्मग्राहकत्वमित्यर्थः। अनिन्द्रियप्रत्यासन्नतवा- न्मनसः स्वप्नप्रत्यया अपि न स्युरित्याह। स्वापेति। सर्वेन्द्रियप्रत्यासत्तिविरहे मनसो ज्ञानाजनकत्वं, न तु त्वगादिप्रत्यासत्तिमतोऽपीत्याह। **तत्तदिति। उद्बोधः=**सहकारिसाकल्यम्। विषयस्मृति- दोषादृष्टादिसाचिव्यान्मनसा स्वप्नानुभवो जन्यत इत्यर्थः। सदृशदर्शनाद्युद्बोधकस्याभावात् संस्कारा-


प्रकाशिका। तावदत्यन्तोत्कीर्त्तनं व्यारकता तु तदनन्तर्भावेनैव। अन्यथाऽनुद्भूतरूपतया साक्षात्काराजनके ऊष्मादौ व्यभिचारापत्तेः। यद्विषयसाक्षात्कारजनकत्वं तद्विषयसाक्षात्कारहेतुसंयोगशून्य- त्वमिति व्याप्तिलाभाय साध्यहेत्वोः स्वविषयपदमिति दिक्। शब्दजशब्दे व्यभिचारवा- रणाय साध्यं जातिगर्भतया व्याचष्टे मूर्त्तेति। गुणपदं पूर्ववद्दैशिकव्याप्तिलाभाय।


मकरन्दः। प्रत्यक्षप्रकाशो विप्रञ्चितम्। शब्दजशब्दे व्यभिचारवारणाय साध्यं व्याचष्टे मूर्त्तेति। गुणपदं स्पष्टार्थम्।

विषयस्मरणेन स्वप्नविभ्रमाणामुत्पत्तेः । उद्बोध एव कथमिति चेत् । मन्दतर- तमादिन्यायेन वाह्यानामेव शब्दादीनामुपलम्भाद् , अन्ततः शरीरस्यैवोष्मादेः प्रतिपत्तेः, यदा च मनस्त्वचमपि परिहृत्य पुरीतति वर्त्तते, तदा सुषुप्तिः । स्यादेतत् । परमात्मा तु कथं परस्यायोग्यः । न हि साक्षात्कारिज्ञानविषय- तामेवार्थं न प्राप्नोति। स्वयमप्यदर्शनप्रसङ्गात् । नापि ग्रहीतुरेवायमपराधः । तस्या- पि हि ज्ञानसमवायिकारणतयैव तद्योग्यता। नापि करणस्य। साधारणत्वात् । न ह्या- बोधनी । व्याप्रीयमाणेन्द्रियसंयोगाभावात् ज्ञानोत्पत्तिरित्याह—स्वप्न इति । तत्तद्विषयेन्द्रियव्यापाराभावेऽपि पूर्वानुभवजनितसंस्कारोद्बोधप्रभाविततत्तद्विषयस्मरणसहकृतं मनः स्वप्नभ्रमानुत्पादयतीत्याह—तत्तत् इति । तदानीं बाह्यविषयानुपलम्भे संस्कारोद्बोध एव कुत इत्याह—तदुद्बोधः इति। मन्द इति । तदापि बाह्येन्द्रियाणां मन्दतरतमादिभावेन व्यापाराऽनुवृत्तेः शब्दाद्युपलम्भात्तदनुपलम्भेऽप्यन्ततो गत्वा शरीरोष्मादेस्त्वगिन्द्रियेणोपलम्भासंभवात् संस्कारोद्बोधोपपत्तिरित्याह—अन्त इति । यदा तु मनस्त्वगिन्द्रियेणाप्यसंयुक्तं पुरीतति, तदा स्वप्नस्याप्यभावात् सुषुप्तिरेव स्यादित्याह—यदा तु इति । एवं तावद्योग्यस्यापि स्वात्मनोऽनुपलब्धिकारणमुक्तम् । इदानीं तु कुतस्त्वयोग्यः परमात्मेत्यत्र शङ्कते—स्यादेतदिति । न कथञ्चिदयोग्य इत्यर्थः । न तावत्स्वरूपयोग्यता नास्तीत्याह—न हि इति । अयं परमात्मा, स्वयं स्वेन परमात्मनाऽपीति । न च प्रमातृत्वरूपसहकारियोग्यता नास्तीत्याह— नापि इति । तद्योग्यता = गृहीतत्वयोग्यतेति । न च करणरूपसहकारियोग्यताविरह इत्याह— नापि इति । न चास्ति एकाकीयस्य मनसः परमात्मानं प्रत्ययोग्यत्येत्याशङ्कथाह—साधारणत्वात् प्रकाशः । रोद्बोधो न स्यादित्याह । उद्बोध एवेति । न तदेवोद्बोधकं, किं त्वदृष्टादिकमपि यथासम्भव- मित्याह । मन्देति । मन्दत्वं = गत्वादिव्याप्यजातिः । ऊष्मादेरिति । अनुद्भूतरूपोद्भूतस्पर्श- तेजसः स्पर्शादेरित्यर्थः । स्वापमुक्त्वा सुषुप्तिमाह । यदा चेति । आत्मनो निरिन्द्रियप्रदेशः = पुरीतत् । किञ्चिन्मनः कश्चिदेवात्मानं गृहातीत्यपि नास्तीत्याह । नापीति । एकस्यापि मनसोऽने- कात्मग्राहकत्वादित्यर्थः । न हीति । नैयायिकमत इति शेषः । भट्टानां तु ज्ञानार्थयोरिवात्ममनसोरपि प्रकाशिका । न तदेवेति । न सदृशदर्शनमेवेत्यर्थः । अदृष्टादिकमिति । आदिपदेन शब्दादिज्ञानसंग्रहः । मन्दत्वं तारधीनिरूप्यमिति कथं ताराग्रहे मन्दत्वविशिष्टग्रह इत्यत आह मन्दत्वमिति । तथा च जातेर्न सा- वधित्वमपितु तन्निष्ठधर्मस्येति भावः । यद्यपि बाह्यानामेव शब्दादीनामुपलम्भादिति मूलानुरोधेनादि- पदग्राह्यः प्रकाशे शब्दोपलम्भ एव वाच्यः स च न मानसो बहिरर्थे मनसोऽस्वातन्त्र्यात्, नापि श्रौत्रः मनसस्तदा स्वप्नवहननाडीप्रविष्टतया श्रोत्रसंयोगाभावात् । तथापि स्वप्नवहननाड्याः शरीरव्यापक- तया श्रोत्रावच्छिन्नदेशेऽपि सत्त्वेन स्वप्नकाले श्रोत्रमनःसंयोगो न विरुद्ध इत्यत्र तात्पर्यम् । यदि च नैवं तदा तत एवास्वरसादान्ततः शारीरस्यैवोष्मादेरिति मूलं स्वप्नकाले च शरीरमनःसंयोगस्यावश्य- कतया त्वङ्मनः संयोगोऽपि न विरुद्ध इति तस्याशयः । ऊष्मणोऽप्रत्यक्षतया ऊष्मादेरित्यत्रातद्गुण- संविज्ञानबहुव्रीहिणा स्पर्शादिकमेवोक्तमित्याह । अनुद्भूतरूपेत्यादि । भट्टानामिति । तथा च मकरन्दः । न तदेवेति । न सदृशदर्शनमेवेत्यर्थः । अदृष्टादिकमपीति । अपि पदात्तद्वि- ज्ञशब्दाद्युपलम्भपरिग्रहः । तथा च क्व चिददृष्टं क्व चिज् ज्ञानान्तरमुद्बोधकमिति भावः । ननु- मन्दत्वं तारत्वनिरूप्यमिति तदज्ञाने तदसम्भवीत्यत आह मन्दत्वमिति । जातिज्ञाने च नेतरज्ञाना- पेक्षेति भावः । ननूष्मा तेजस्तच्चातीन्द्रियमित्युत आह अनुद्भूतरूपेति । ऊष्मादेरित्यतद्गुण- संविज्ञानबहुव्रीह्याश्रयणादिति भावः । भट्टानामिति । तथा च तेषां तथा नियम एवेत्यर्थः ।

तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३२५ संसार्येकस्यैव मनः एकमेवात्मानं गृह्णातीत्यत्र नियामकम् अस्ति । स्वभाव इति चेत्, तर्हि मुक्तौ निःस्वभावत्वप्रसङ्गः । तदेकार्थताया अपायादिति । न । भोजका- दृष्टोपग्रहस्य नियामकत्वात् । यद्धि मनो यच्छरीरं यानीन्द्रियाणि यस्यादृष्टेनाकृ- ष्टानि, तानि तस्यैवेति नियमः । तदुक्तं प्राक्—प्रत्यात्मनियमाद्भुक्तेरिति । एतेन पर- बुद्ध्यादयो व्याख्याताः ॥ तदेवं योग्यानुपलब्धिः परात्मादौ नास्ति, तदितरा तु न बाधिकेति तवापि सम्मतम् । अतः किमधिकृत्य प्रतिबन्धिः । न हि शशशृङ्गमयोग्यानुपलब्ध्या कश्चि- न्निषेधति । न च प्रकृते योग्यानुपलब्धिं कश्चिन्मन्यते । अथायमाशयः । अयोग्य- बोधनी । इति । सर्वेषां मनसां सर्वात्मनः प्रति साधारणत्वादिति । साधारण्यमेवाह—न हि इति । न ह्येक- स्यात्मनः सर्वदैकमेव मन इत्यत्र नियमहेतुरस्तीति । नन्वस्ति मनःस्वभाव एव नियामक इत्याह- स्वभावः इति । यदि तदेकात्मसम्बन्धित्वमस्य स्वभावस्तर्हि मुक्तात्मनां मनःसम्बन्धाभावात् स्वभावहानिः स्यादित्याह-मुक्तौ इति । सिद्धान्ती नियमहेतुमाह—न इति । यस्यात्मनो यद्भोजकमदृष्टमसाधारणं तेनोपनीतं मनस्तस्यैव ज्ञानहेतुर्नान्यस्य शरीरादीनामप्यसाधारणादृष्टा- कृष्टत्वमेवासाधारण्या हेतुः, व्युत्पादितं चैतदन्यत्रेति । एतेन मनसोऽसाधारण्याेन परात्मवत्परदुःखा- दयोऽप्यप्रत्यक्षा इति व्याख्याता इत्याह—एतेन इति । तदेवं "योग्यादृष्टिः कुतोऽयोग्ये" इत्येतद् व्याख्यायोपसंहरति—तदेवम् इति । द्वितीयं पादं व्याचष्टे—तदितरा इति । तृतीयं व्याचष्टे—न हि इति । किन्तु योग्यानुपलब्ध्येति । न च प्रकृते परमात्मनीश्वरे योग्यानुपलब्धिरस्तीत्याह-न च इति । तस्मान्न प्रतिबन्धिरिति परा- शयमाशङ्कते-अथ इति । यद्ययोग्यस्य शशशृङ्गस्यानुपलब्धिर्न बाधिका स्यात् ततो बाधकाभाव- प्रकाशः । स्वाभाविक एव सम्बन्धो, यतो मुक्तावप्यात्मनो नित्यनिरतिशयानन्दसन्दोहाभिव्यक्तिः । एका- त्ममात्रज्ञानजनकत्वं मनसः स्वभाव इत्याह । स्वभाव इतीति । एकस्यात्मन एकमेव मन इति स्वभावः, एकं मन एकमेवात्मानं गृह्णातीति वा, द्वयमपि जीवन्मुक्तौ नास्ति, तत्र कायव्यूहे बहुत- रमनःस्वीकाराद्योगिनामप्यात्मसाक्षात्कारजननादित्याह । मुक्ताविति । जीवन्मुक्तौ । यदीयादृष्टा- कृष्टं यन्मनस्तत्तस्यैव ग्राहकं, योगिनामपि तत एव तदीयं तस्य । अदृष्टस्यापि तदीयत्वं तदीय- मनोनिष्पन्नत्वेन, बीजाङ्कुरवच्च नानवस्थादोष इत्याह । भोजकेति । यथा परात्मनि परमनसो न साक्षात्कारजनकत्वं तथा परबुद्ध्यादावपि, तुल्यत्वादित्याह । एतेनेति । यत्र प्रतिबन्धिः स्यात् तदुभयमपि नेष्यते इत्याह । न हीति । न हि तेन ईश्वरसाधने किञ्चिद् प्रकाशिका । तेषां तथा नियम एवेति भावः । एकात्ममात्रेति । नियामकान्तराभावेऽपि स्वभाव एव नियामक इति भावः । एकस्यात्मन इति । एकमेव मन एकत्रात्मनि ज्ञानादिजनकम् , एकं मन एकात्मगो- चरमेव ज्ञानं जनयतीति वा विकल्पार्थः, निर्वाणमुक्तौ ज्ञानजनकत्वमसम्भवीति व्याचष्टे । जीवन्मुक्ता- विति । वस्तुतो मुक्ताविति मूलं निर्वाणाभिप्रायकमेव तथा च स्वभावो वस्तूनां यावद्द्रव्यभावीति एका- त्मग्राहकत्वरूपस्वभावहानिर्निर्वाणदशायां स्यादिति मूलार्थ इति प्रतिभाति । तस्यैवेति । तत्रैवात्मनि ज्ञानजनकमित्यर्थः । देवदत्तमनसा समस्तात्मसाक्षात्कारविरहेण यथाश्रुतस्यासङ्गतेः । ननु प्रत्यक्षं यो- मकरन्दः । एकात्ममात्रेति । तथा च नियामकान्तराभावेऽपि स्वभाव एव नियामक इति भावः । अयोग्यस्यैव

३२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकान्याख्यायां शशशृङ्गादावनुपलब्धिर्न बाधिका स्यादिति । ततः किं? तत् सिद्ध्येदिति चेत् । एव मस्तु यदि प्रमाणमस्ति । पशुत्वादिकमिति चेत् । परसाधने प्रतिवन्धिस्तर्हि न तद्- बाधने । तत्रैव भविष्यतीति चेत् । तत् किं तत्र प्रतिबन्धिरेव दूषणम् । अथ कथ- ञ्चित्तुल्यन्यायतया योग्या एव परात्मबुद्ध्यादयस्ते च बाधिता एवेत्यपहृतविषय- त्वम् ? । न प्रथमः । अव्याप्तेः । न हि पशुत्वादेः शशशृङ्गसाधकत्वेन कार्यत्वादेः कर्तृमत्त्वादिसाधकत्वं व्याप्तं, येन तस्मिन्नसति तत्प्रतिषिध्येत । न द्वितीयः । मिथोऽनुपलभ्यमानत्वस्य वादिप्रतिवादिस्वीकारात् । तथापि पशुत्वादौ को दोष इति चेत् । न जानीमस्तावत्तद्विचारावसरे चिन्तयिष्यामः । बोधनी । मात्रात् किं तच्छृङ्गं सिध्यति । अयमत्राभिसन्धिः-अयोग्यानुपलब्धिप्रतिपादनेन बाधकाभावमी- श्वरस्य सिध्यति न तु सद्भाव इति । केचित्तु व्याचक्षते यदि शशशृङ्गमप्ययोग्यं तदा तस्यानुप- लब्धिर्न बाधिका स्यादिति ! उत्तरं-ततः किम् इति । बाधकाभावात्किमायातं शशशृङ्गस्येति शङ्कितुर्भावाविष्करणं तत्सिद्ध्येदिति । बाधकाभावादीश्वरवन्न शशशृङ्गं सिद्ध्येदिति । निराकरोति- एवमस्तु इति । स्यादेवं यदि शशशृङ्गस्यास्तित्वे प्रमाणं स्यात्, तत्तु नास्ति । न हि वयं बाधका- भावमात्रेणेश्वरमभ्युपगच्छामः किन्तु साधकसद्भावादेवेति भावः । शृङ्गेऽपि प्रमाणमाशङ्कते-पशु- त्वादिकम् इति । शशः शृङ्गवान् पशुत्वात् गवादिवदिति । हन्तैवमश्वारूढोऽश्वस्यैवास्मार्षीरित्याह- परसाधने इति । प्रथममीश्वरस्यानुपलब्ध्या बाधकमभिधाय तद्बाधे शृङ्गस्याप्यबाधः तद्बाधे तस्यापि बाध इति बाधने प्रतिबन्धिमुद्भावयितुमुपक्रान्तः संप्रति परसाधने प्रतिबन्धिमुद्भावयसि परेण हीश्वरसाधने कार्यत्वादिति हेतौ प्रयुक्ते शशोऽपि शृङ्गवान् पशुत्वादित्यादि वक्तु संगच्छत इति । तर्हि परसाधन एतत्प्रतिबन्धिर्भविष्यतीत्यत्राह-तत्र इति । तदेतद्विकल्प्य निराकरोति-किं तत्र इति । यदि कार्यत्वं कर्त्तारं साधयेत् पशुत्वमपि शृङ्गं साधयेदिति किं प्रतिबन्धिरेव दूषणं किं वा योग्या- नुपलब्ध्या पशुत्वस्येव कार्यत्वादेरपि बाधितविषयत्वमिति । तस्मिन् व्यापके पशुत्वादेः शृङ्गादि- साधनत्वेऽसति तत्कार्यत्वादेः कर्तृत्वसाधनं व्याप्यभूतं प्रतिषिध्येतेति । मिथोऽनुपलभ्य इति । यदि परात्मादेर्योग्यानुपलब्धिर्वाधिका स्यात् तदा परस्परमनुपलभ्यमानयोरेव वादिप्रतिवादिनोः परस्पराङ्गीकारो न स्यादिति । ननु मा भूदिदं परसाधने दूषणं, तथापि शृङ्गसाधनतया प्रयुक्ते पशु- त्वादौ को दोष इत्याह-तथापि इति । पृच्छतोऽयमाशयः-य एवात्र दोषः स एवेश्वरानुमाने भविष्यतीति । अनवसरत्वान्नेदमिह वक्तव्यमित्याह-न जानीमस्तावत् इति । तदेवं प्रत्यक्षस्य बाधकत्वं निराकृतम्, इदानीं तु व्यापक्यानुपलब्धिलक्षणमनुमानमङ्कुरादिषु ; प्रकाशः । दूष्यत इत्यर्थान्तरं निग्रहस्थानमित्याह । तत इति । आशयमविद्वानाह । तदिति । तत्सिद्धावपि न प्रकृते दूषणमित्याह । एवमिति । मानमाह । पशुत्वादिकमिति । पक्षसत्त्वादेव नाश्वादौ व्यभिचार इति भावः । आशयं स्फुटयति । परेति । यदीश्वरः सिद्धयेत, तदा शशशृङ्गमपि सिद्धयेदितीश्वरसाधने प्रतिबन्धिस्तथा चार्थान्तरमित्युक्तम् । नन्वनुपलब्धिमात्रेण यथा शशे शृङ्गा- भावस्तथा क्षित्यादौ कर्तुरप्यभाव इति बाधनेऽपि प्रतिबन्धिः स्यात्, इष्टापत्तेरभावादित्याह । तत्रैवेति । मिथ इति । परात्मादेः परायोग्यत्वस्योभयवादिस्वीकारात् प्रत्यक्षानुपलम्भमात्रं, नायोग्ये बाधकमित्यर्थः । अर्थान्तरं हि पुरुषदोषो, न तु साधनदोष इत्याशयेन पृच्छति । तथा- पीति । शशे शृङ्गस्यात्यन्ताभाव इति सर्वैणसवाधितप्रत्यक्षबाधः ।

तृतीयस्तबके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३२७

स्यादेतत् । यत्प्रमाणगम्यं हि यत्, तद्भाव एव तस्याभावमावेदयति । यथा रूपादिप्रतिपत्तेरभावश्चक्षुरादेरभावम् । कायवाग्व्यापारैकप्रमाणकश्च पराऽऽत्मा, तदभाव एव तस्याभावे प्रमाणमङ्कुरादिषु । तन्न । तदेकप्रमाणकत्वासिद्धेः । अन्यथा सुप्तोऽपि न स्यात् । श्वाससन्तानोऽपि तत्र प्रमाणमिति चेन्न । निरुद्धपवनोऽपि न स्यात् । कायसंस्थानविशेषोऽपि तत्र प्रमाणमिति चेन्न, विषमूच्छितोऽपि न स्यात् । शरीरोष्मापि तत्र प्रमाणमिति चेन्न। जलावसिक्तविषमूर्च्छितोऽपि न स्यात्। तस्माद् यद्यत् कार्यमुपलभ्यते तत्तदनुगुणश्चेतनस्तत्र तत्र सिद्ध्यति । न च कार्यमात्रस्य क्वचिद् व्यावृत्तिरिति । न च त्वदभ्युपगतेनैव प्रमाणेन भवितव्यं नान्येनेति नियमोऽस्ति । न च प्रमेयस्य प्रमाणेन व्याप्तिः । सा हि कात्स्न्र्येन

बोधनी । कर्तृबाधकमाशङ्कते—स्यादेतत् इति । तन्नेति । परमात्मन इति शेषः । कायवाग्व्यवहारैकप्रमाण- कत्वेऽनिष्टमाह-अन्यथा इति । न हि तस्य कायिको वाचिको वा व्यापारोऽस्तीति । निरुद्धपवनः प्राणानायम्य तूष्णीमासीनः । शेषं सुगमम् । यस्मान्न कायवाग्व्यापारैकप्रमाणकः परमात्मा तस्मा- देवमङ्गीकर्त्तव्यमित्याह-तस्मात् इति । तथापि विश्वकर्त्तुः कथं सिद्धिरित्यत्राह-न च कार्यमात्रस्य इति । न वयं कार्यप्रमाणकत्वं चेतनस्याभ्युपगच्छाम इत्याह-न च इति । किं चास्तु त्वदभ्युपगमे तदेव प्रमाणं तथापि तदभावान्नाभावश्चेतनस्येत्याह-न च प्रमेयस्य इति । व्याप्त्यभावमेव विक- ल्प्याह— सा हि इति । प्रमेयस्य प्रमाणव्याप्तिः सर्वैः प्रमाणैरिति प्रमाणकात्स्न्र्येनाभ्युपगम्येत किं वा येन केनचित्प्रमाणैकदेशेन ? तत्र कृत्स्नप्रमाणव्याप्तौ प्रत्यक्षाद्यन्यतमन्निवृत्तावपि प्रमेयं निवर्त्तेत, न चैतदस्ति । द्वितीयेऽपि यदि नियतस्यैकस्य पुरुषस्य तर्ह्येकस्य सर्वप्रमाणनिवृत्तावपि प्रमेयं निव- र्त्तेत, अथानियमेन सर्वेषां न हि तदा सर्वपुरुषाणां यत्किञ्चिदपि प्रमाणं नास्तीति निश्चेतुं शक्यत

प्रकाशः । शृङ्गत्वस्य जातेर्योग्यसंस्थानव्यङ्ग्यत्वेनायोग्येष्वङ्कितुमप्यशक्यत्वात् अन्यथा तद्व्यतिरेकाप्र- सिद्ध्या अनुमानानवकाशात्, अन्वयिनश्चानङ्गीकारात् । परात्मनश्चायोग्यस्यापि कर्तृत्वान्न कर्तृत्वं योग्यत्वनियतमित्याशयवत उत्तरं, नेति । यत्प्रमाणेति । यदेकप्रमाणगम्यमित्यर्थः । अतो न धूमाभावेऽपि अग्निसत्त्वाद् व्यभिचारः । अत एव "तदेकप्रमाणत्वासिद्धेरिति वक्ष्यति । कार्यमात्रप्रमाणो ज्ञेयस्तद्विशेषनिवृत्तिमात्रेण न निव- र्त्तते । कार्यमात्रस्य च न व्यावृत्तिरित्युपसंहरति । तस्मादिति । तथा च, प्रमाणविशेषनिवृत्तावपि प्रमाणसामान्यसत्त्वात्तदेकप्रमाणगम्यत्वमसिद्धमित्यर्थः । न च प्रमाणप्रमेययोर्व्याप्तिर्यतः प्रमाणविशेषाभावे

प्रकाशिका । व्यङ्ग्याभावविषयकमिति कथं तेन लाभ इत्यरुचेराह शृङ्गत्वस्येति । अत्राप्रयोजकत्वमाशङ्कयाह अन्यथेति । अन्वयिनश्चेति । केवलान्वयिनश्चेत्यर्थः । ननु कार्यत्वावच्छिन्नं प्रति कर्तृत्वेनेव पशुत्वेनैव शृङ्गजन्कत्वमिति तुल्यमित्यत आह । परात्मनश्चेति । तथा च कर्तृत्वेनायोग्य- तानियतमतियोग्येश्वरसिद्धौ न किञ्चिद्बाधकम् शृङ्गत्वं तु योग्यसंस्थाननियतमिति नायोग्यशृङ्गसिद्धि- रिति भावः ।

मकरन्दः । बाध इत्याशङ्कयाह शृङ्गत्वस्येति । अप्रयोजकत्वमाशङ्कयाह अन्यथेति । अन्वयिनः = केवलान्वयिनः ॥ १ ॥

टिप्पणी । अन्यथा तद्व्यतिरेकेति । सर्वत्राप्ययोग्यस्य शृङ्गसम्भावनया अभावस्यानिश्चयात् ॥ १ ॥

३२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां वा स्यादेकदेशेन वा स्यात् ? । न प्रथमः । प्रत्यक्षाद्यन्यतमासद्भावेऽपि तत्प्रमेयाव- स्थितेः । न द्वितीयः । पुरुषनियमेन सर्वप्रमाणव्यावृत्तावपि प्रमेयावस्थितेः । अनि- यमेनासिद्धेः । न हि सर्वस्य सर्वदा सर्वथाऽत्र प्रमाणं नास्तीति निश्चयः शक्य इति । कथन्तर्हि चक्षुरादेरभावो निश्चयः ? । व्यापकानुपलब्धेः । चरमसामग्री- निवेशिनो हि कार्यमेव व्यापकं, तन्निवृत्तौ तथाभूतस्यापि निवृत्तिः । योग्यतामा- त्रस्य कदाचित् कार्यं, तन्निवृत्तौ तथाभूतस्याऽपि निवृत्तिः । अन्यथा, तत्रापि सन्देहः। प्रकृतेऽपि व्यापकानुपलब्ध्या तत्प्रतिषेधोऽस्तु, न । आश्रयासिद्धत्वात् । न ही- बोधनी । इति । ननु यदि न प्रमेयस्य प्रमाणव्याप्तिः कथं तर्हि रूपादिज्ञानाभावात्तदेकप्रमाणकस्य चक्षुरादेर- भावनिश्चय इत्याह-कथं तर्हि इति । उत्तरं-व्यापक इति । न हि तत्रापि प्रमाणाभावान्निश्चयः । किं तर्हि ? व्यापकानुपलब्धेरिति । कथं रूपादिज्ञानं चक्षुरादेर्व्यापकं, न हि कार्यं कारणस्य व्यापकं वैपरीत्यादित्यत्राह-चरमं इति । चरमसामग्रीत्वेन निविशमानस्य हि कारणस्य कार्यमेव व्यापकं यथा अन्त्यतन्तुसंयोगस्य पटस्तेन तस्य व्यापकस्य कार्यस्य निवृत्तौ व्याप्यभूतस्यैव कारणस्य निवृ- त्तिरवसीयते, न तु प्रमाणनिवृत्त्या प्रमेयनिवृत्तिरित्यर्थः । किञ्चित्तु कारणमस्मिन्सत्येव भवति नास- तीति कार्यं प्रति योग्यतया निविशते यथा तन्त्वादयस्तस्यापि कदाचिद्भवत्कार्यं व्यापकं न हि सर्वदा कार्यानन्वितं कारणमिति शक्यं वक्तुम् । तस्मात्तस्य कादाचित्कस्यापि कार्यस्य निवृत्तौ तथाभूतस्य योग्यतामात्रेणाविष्टस्यापि निवृत्तिः । अन्यथा इति । यदि विधाद्वयमपि चक्षुरादौ नास्ति तदा रूपादि- ज्ञानाभावान्न तत्राप्यभावनिश्चयः किंतु संदेह एव स्यादिति । यद्वा, योग्यतामात्रस्य कदाचित् कार्यं न तु व्यापकं तेन कारणस्य निवृत्तौ कादाचित्कस्यापि कार्यस्य निवृत्तिस्तद्व्यतिरेकेणास्य निवृत्तिर- न्यथा कार्यनिवृत्तौ तत्रापि कारणेऽपि संदेहो नाभावनिश्चय इति । केचित्तु न तन्निवृत्तौ तथाभूत- स्यापि निवृत्तिरिति नञ्प्रश्लेषेण पठन्ति । तत्रायमर्थः । ननु चरमसामग्रीनिवेशिन इति विशे- षणं योग्यस्यैवोच्यतामित्यत्राह-योग्यतामात्रस्य इति । तस्य कार्यं न व्यापकं । तस्मात्कार्य- निवृत्तौ योग्यतामात्रस्य निवृत्तिः । अन्यथा इति । चक्षुरादेश्चरमसामग्रीनिवेशाभावे तत्रापि नाभा- वनिश्चयः, संदेह एवेति । चक्षुरादिवत्प्रकृतेऽपीश्वरे व्यापकस्य प्रयोजनादेरनुपलब्ध्या व्याप्यस्य कर्तुः प्रतिषेधोऽस्तु न प्रमाणाभावेनेत्याह-प्रकृतेऽपि इति । न इति । प्रतिषेधाधिकरणस्य सिद्धिमेवाह-न हि इति । न प्रकाशः । प्रमेयासत्त्वं स्यादित्याह । न चेति । अनियमेनेति । सर्वपुरुषापेक्षयेत्यर्थः । व्यापकेति । तत्तद्व्या- पकनिवृत्तौ तत्तद्व्याप्यनिवृत्तेरित्यर्थः । कार्यविशेषस्य कारणविशेषव्यापकत्वमाह । चरमेति । कार्यरूप- ज्ञानादि । योग्यतामात्रस्येति । व्यापकमित्यनुषज्ज्यते । न च भक्षितविनष्टबीजे व्यभिचारः । यत्सामान्यं यत्कारणावच्छेदकं तदवश्यं तज्जनकवृत्तीत्यर्थात्, नित्ययोग्याभिप्रायकत्वाद्वा । अन्यथेति । कदाचित्कार्यव्यतिरेके योग्यतायामपि सन्देह इत्यर्थः । प्रकृतेऽपीति । ईश्वरो न कर्ता तद्व्यापकस्वार्थादिशून्यत्वाद् व्योमवदिति व्यापकाभावलिङ्गकमनुमानमित्यर्थः । प्रकाशिका ! रूपज्ञानादीति । तथा च सामग्र्यन्तरसमवधानदशायां रूपानुपलब्ध्येव चक्षुरभावोऽनु- मीयत इत्यर्थः । यत्सामान्यमिति । कस्य चिदुद्भूतरूपस्य विषयसाक्षात्कारकारणतावच्छेदकस्य न फलोपहितवृत्तित्वमिति सामान्यपदम् । तेन तत्रापि परम्परासम्बन्धेनावच्छेदकस्य सामान्यस्य तेनैव सम्बन्धेन फलोपहितवृत्तितया न व्यभिचार इति भावः ॥ १ ॥

तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम्। ३२६ श्वरस्तज्ज्ञानं वा क्वचित् सिद्धम्। आभासप्रतिपन्नमिति चेन्न। तस्याश्रयत्वानु- पपत्तेः। प्रतिषेध्यत्वानुपपत्तेश्च ॥ १ ॥ व्यावत्र्त्याभाववत्तैव भाविकी हि विशेष्यता ॥ अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ २ ॥ न चैतदाभासप्रतिपन्नस्यास्तीति कुतस्तस्य निषेधाधिकरणत्वं निषेध्यता वेति । कथं तर्हि शशशृङ्गस्य निषेधः । न कथञ्चित् । बोधनी । ज्ञानाश्रय एव सर्वकर्त्तृत्वस्य विषयत्वस्य वा प्रतिषेधः संभवतीति । आभास इति ॥ तेनाश्रयत्वोपप- त्तिरिति । न इति । न परस्माभासप्रतिपन्नाश्रयत्वानुपपत्तिः । प्रतिषेधप्रतियोगित्वं च नोपपद्यत इति ॥१॥ उभयमप्यनुपपत्तिमपपादयति व्यावत्र्त्ये-इति । व्यावत्र्त्यस्य=निषेधस्य । अभाववत्ता=तत्संबन्धिता । भाविकी=पारमार्थिकी । विशेष्यता नामाभावाधिकरणतेति । यावत्पारमार्थिकी चाभाववत्ता पारमार्थिक- स्यैव भावस्य न चाभासप्रतिपन्नस्येति भावः । निषेध्यस्य प्रतियोगिनः परमार्थतोऽभावविरुद्धात्मत्वं हि प्रतियोगिता निषेध्यत्वमिति यावत्, न चैतदप्याभासप्रतिपन्नस्यास्तीति । यथाहुः "लब्धरूपे क्वचि- त्किञ्चित्तादृगेव निषिद्ध्यते" इति । न चैतत् इति ॥ विशेष्यप्रतियोगिनोर्दर्शितं रूपमिति । कथं तर्हि-इति । यद्यसद्वस्त्वैतन्नास्तीति । उत्तरं न कथञ्चित्-इति । शशशृङ्गप्रतियोगिको निषेधो न . प्रकाशः । आभासेति । असत्ख्यात्युपस्थितमित्यर्थः । यदीश्वरे कर्त्तृत्वनिषेधः साध्यते तदाऽऽश्रयत्वमीश्वरस्य, यदा तस्यैवाभावः, तदेश्वरस्य प्रतियोगितात्वम्, उभयमपि नास्तीत्याह । तस्येति । ॥ १ ॥ कुत इत्याह । व्यावत्र्त्येति । व्यावत्र्त्यः = प्रतियोगी, तदभाववत्ता भाविकी पारमार्थिकी विशेष्यता आश्रयता, वस्तुनः प्रामाणिकस्य, स्वाभावविरहरूपत्वं च प्रतियोगितात्वम् । असत्ख्यातेः कारणाभावेन निरासादित्यर्थः । नन्वनुमितिरैव पक्षः । तथा हि इयमनुमितिरयथार्था, अशरीरे कर्तृत्वज्ञानत्वात्, ज्ञाने नित्यत्वज्ञानत्वाद्वा । घटः कर्त्ता, चैत्रज्ञानं नित्यमिति ज्ञानवदित्यस्तु । न चोपजीव्यविरोधः । अनु- मितिर्हि उपजीव्या, न तु तन्मथार्थत्वमपि । न । अप्रयोजकत्वात् । अन्यथा, पर्वते वह्न्यनुमि- तिरयथार्था उभयसिद्धाग्निमद्भिन्नोऽग्निमत्त्वज्ञानत्वात्, ह्रदोऽग्निमानितिवदित्यापत्तेः । अपि चानु- मितेरयथार्थत्वं दोषादुत्पन्नमनेन ज्ञाप्यं, न त्वनेनोत्पाद्यम् । तत्र चायमेव दोषो दोषान्तरं वा ? नाद्यः, अन्योन्याश्रयात् । नान्त्यः, तदभावात् । न चेति । आभासानाभाससङ्करापत्तेरिति भावः । कथमिति । यदि नासतो निषेध्यत्वमिति शेषः । न कथञ्चिदिति । नात्रापि कल्पितस्य निषेध्यत्वं, शशेऽधिकरणे शृङ्गस्यैव निषेधा- प्रकाशिका । अयमेवेति । प्रकृतानुमानरूप एवेत्यर्थः । आभासेति । आभासप्रतिपन्नस्यापि वस्तुत्वे वास्तवव- स्तुनोरभेदापत्तिरित्यर्थः । तर्हीत्यस्य तदेत्यर्थः । तत्त्व च यदीतिशब्दसापेक्षतया शेषं पूरयति । यदीति । मकरन्दः । अयमेवेति । प्रकृतानुमानमेवेत्यर्थः । आभासेति । आभासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे वस्तुत्वावस्तुत्वसङ्करापत्तिरित्यर्थः । यदीति । यद्यपि तर्हीत्यस्य तदेत्यर्थः, तस्य च नित्यसापे- क्षतया शेषदानं विनाऽपि तदर्थलाभः, तथापि नित्यसापेक्षतया अध्याहारात् तदपेक्षया शेषस्य टिप्पणी । अप्रयोजकत्वादिति । कृतिं प्रति शरीरस्य कारणत्वे सिद्धे सप्रयोजकत्वं स्यात्, नित्यकृत्यभ्युपग मेन तदभावादिति भावः । आभासानाभाससङ्करेति । आभासप्रतिपन्नस्यापि वस्तुत्वाभ्युपगमे ४१ न्या० कु०

३३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां स ह्यभावप्रत्यय एव। न चायमपारमार्थिकप्रतियोगिकः परमार्थाभावो नाम। न चापारमार्थिकविषयं प्रमाणं नामेति(१) ॥ २ ॥ अपि च— दुष्टोपलम्भसामग्री शशशृङ्गादियोग्यता ॥ न तस्यां नोपलम्भोऽस्ति नास्ति साऽनुपलम्भने ॥ ३ ॥ केन च शशशृङ्गं प्रतिषिध्यते। सर्वथाऽनुपलब्धस्य योग्यत्वासिद्धेः। तदि- तरसामग्रीसाकल्यं हि तत्। ननूक्ताभासोपलब्धं हि तत्। अत एवाशक्यनिषे- बोधनी। कथञ्चित्संभवतीति। कुत इत्याह स हि इति। स हि निषेधोऽभावप्रत्यय एव प्रतीयते। न-इति। प्रत्ययः प्रमाणं प्रमाणत्वेनैव,स हि निषेधोऽभ्युपगम्यत इत्यर्थः। ततः किमित्याह न च-इति। मा भूदभावः पारमार्थिकः, ततोऽपि किमित्यत आह तथा-इति। न चेत्यनुषञ्जनीयमिति ॥ २ ॥ न केवलमाभासप्रतिपन्नस्य पारमार्थिकप्रतिषेधप्रतियोगित्वमेव नास्ति प्रतिषेधमात्रविषयत्वमपि न संभवतीत्याह अपि च-इति। यद्यपि तदतिरिक्तसामग्रीसाकल्यमेव योग्यता, तथापि कल्पितस्य शशशृङ्गस्य दुष्टैव सामग्री योग्यता, अन्यथोपलम्भस्याप्यदुष्टत्वेनोपलम्भस्यापि तात्त्विकस्य प्रसङ्गात्। ततः किम् ? तस्यां तादृश्यां योग्यतायां सत्यां शशशृङ्गादेर्नोपलम्भोऽस्ति, अपि तूपलम्भ एव स्यात्तस्या आभासोपलम्भव्याप्तेः, अत एवानुपलम्भकाले योग्यता नास्ति। तस्माद्योग्यतानुपलम्भयोरेकतरसंनिधानेऽन्यतरस्याभावात् समुदायसाध्यमभावावधारणं दुष्कर- मिति व्याख्यातुमुपक्रमते केन-इति। योग्यानुपलम्भेनेति चेत्तत्राह सर्वथा-इति। कदाचिदुपलम्भे ह्यन्वयव्यतिरेकाभ्यां शक्यज्ञाना सामग्रीति। आभास-इति। तेन सर्वथानुपलब्धिरसिद्धेति। प्रकाशः। दित्यर्थः। स हीति। पारमार्थिकाभावप्रत्यय एवेत्यर्थः। प्रतियोग्यधिकरणयोर्वस्तुत्वादिति भावः। न चेति। प्रामाणिकनिषेधव्यवहारे प्रामाणिकस्यैव निषेध्यत्वादित्यर्थः ॥ २ ॥ किञ्चानुपलब्धिमात्रान्निषेधसिद्धेऽतीन्द्रियोच्छेदाद् योग्यानुपलम्भात् स वाच्यः। योग्यता च प्रतियोगितावच्छेदकेतरप्रमापकसांकल्यरूप्रा अलीके नास्तीति दोषसचिवतज्ज्ञानसामग्रीरूपा सा वाच्या तस्यां च सत्यां नालीकस्थानुपलम्भः उपलम्भस्यैव सत्त्वात् अनुपलब्भदशायाञ्च तज्ज्ञानसाम- ग्रीरूपा योग्यतैव नास्तीत्याह— अपि चेति। केन चेति। न केनापीत्यर्थः। सर्वथेति। प्रमाणत इति शेषः। नन्वा- भासोपलब्धस्यापि नेदं रजतमिति निषेधादुपलब्धमात्रस्य निषेधो, न तु प्रमितस्यैवेत्यत आह। तदितरेति। रजतादेः प्रामाणिकत्वेन योग्यस्यैवानुपलम्भात्प्रतिषेधो, न त्वाभासोपलब्धस्येत्यर्थः। तथैव किं न स्यादित्याह। नन्विति। आभाससामग्रीकालेऽनुपलम्भाभावार्दनुपलम्भकाले च तद्रू- पयोग्यताया असत्त्वादित्याह। अत एवेति। प्रकाशिका। शश इति। कार्यकारणभावेन सम्बन्धेनायमभावो वोद्धव्यः, अन्यथा संयोगेन शृङ्गस्य सत्त्वादभा- वासम्भवः, समवायेन गव्यपि शृङ्गाभाव इति तद्वैलक्षण्यं न स्यादिति ॥ २ ॥ मकरन्दः। त्वरितप्रतिपत्तिकरत्वमिति भावः। शशे इति। यद्यपि शशे गवादिश्टङ्गस्य संयोगवृत्त्या सत्त्वात् कथं शृङ्गाभावः, समवायवृत्त्या च तदभावो गवादावपि शृङ्गस्य संयोगित्वात्, तथापि जन्यजनक- भावसंबन्धेन तदभावो बोध्यः ॥ २ ॥ टिप्पणी। वस्तुत्वावस्तुत्वसङ्करापत्तेरित्यर्थः ॥ २ ॥ (१) अपारमार्थिकविषयं प्रमाणं तथा नामेति बोधनीकारसम्मतः पाठः।