न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 353, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुपलब्धेर्र्वाहकत्वनिराकरणम् । ३२१ न ह्येष बुभुत्साया महिमा यद्बुभुत्सिते विषये ज्ञानसामग्र्यां सत्यामपि न ज्ञानमपि तु बोधनी । सामग्रीव्यतिरेकादेव ज्ञानव्यतिरेक इति । कस्तर्हि बुभुत्साया महिमेत्याह - अपि तु इति । प्रकाशः। वा इतरज्ञानप्रतिबन्धिका, किं त्वन्यथा उपयुज्यते इत्याह । न हीति । ननु बुभुत्साया अतन्त्रत्वे कथं मनोऽणुत्वपक्षे मन्दोऽपि बुभुत्सितः शब्दो गृह्यते, नान्यः । तन्त्रत्वेऽपि कथं दशभिः पठ्यमानासु गाथासु तावद्गोचरबुभुत्सायां प्रणिधाने च सर्वेषामज्ञानमेक- ज्ञानञ्च । न च श्रोत्रमनःसंयोगविशेषः कार्योन्नेयोऽस्ति, स एव किञ्चिच्छब्दग्रहहेतुस्तदन्यग्रहप्रति- बन्धक एवेति वाच्यम् । विभुत्वेऽपीन्द्रियमनःसंयोगविशेषस्य तथात्वे व्यासङ्गोपपत्तेः । अथ प्रत्यक्षा- नुकूलेन्द्रियमनःसंयोगद्वारा बुभुत्साप्रणिधानयोः प्रत्यक्षहेतुत्वमिति चाक्षुषादिबुभुत्सितग्रहे कृतत्वात्ताभ्यां श्रोत्रे बुभुत्सितशब्दावच्छेदेन मनःसंयोगः कृत इति स एव गृह्यते, नान्य इति चेन्न ! युगपत्यठ्य- मानासु विंशतिगाथासु तावद्गोचरबुभुत्साप्रणिधानयोः सत्त्वे तावद्गाथावच्छेदेन मनःसंयोगाद् युगपत्तासामुपलम्भप्रसङ्गात् । प्रत्येकसामग्रीसत्त्वात् । उच्यते । यद्यपि बुभुत्साप्रणिधाने न शब्दग्रहमात्रे सहकारिणी, न वेतरग्रहप्रतिबन्धके, तथापि नानाशब्दसमवायदशायां यः शब्दग्रहस्तत्र तयोस्तथाभावः । तथैव तेषामन्वयव्यतिरेकनियमात् । प्रकाशिका । किञ्च बुभुत्साप्रयुक्त इत्यर्थः । गूढाभिसन्धिः पृच्छति । नन्विति । अभिसन्धिमुद्घाटयति विभुत्वेऽ- पीति । तथापीति । यद्यपि नानेन्द्रियनानाविषयसन्निकर्षकालीन्यान्यतरबुभुत्साया रूपादिग्रा- मकरन्दः । स्रन्धिः शङ्कते नन्विति । अत एवाभिसन्धिमुद्घाटयति विभुत्वेऽपीति । तथैव तेषामिति । टिप्पणी । दृष्टेऽनेकज्ञानकारणे सम्भृते सहसैवादृष्टविलम्बेन कारणाभावस्य वक्तुमशक्यत्वात् , कारणधर्मत्वे चा- स्थिते प्रामाणिकतन्निर्वाहाय, तत्कल्पनस्य सम्भवादिति भावः । प्रणिधाने चेति । संयोगविशेषानुकूलो मनःकर्मविशेषः प्रणिधानम् । श्रोत्रमनःसंयोगविशेष इति । विशेषश्च कालदेशेन्द्रियविषयादि- सम्बन्धः । स एव गृह्यते नान्य इति । स एवेत्येकवचनं बुभुत्सितसाकल्यव्यवच्छेदार्थम् । तथा च बुभुत्सितेत्यनन्तरं कियदिति लभ्यते एवञ्च बुभुत्साया अनेकशब्दगोचरत्वेऽपि स्वातन्त्र्येण तस्या अहेतुत्वानमनसोऽणुत्वाद् यद्यच्छब्दावच्छेदेन श्रोत्रमनःसंयोगस्तेषामेव ग्रहणं न बुभुत्सितानां सर्वेषां नाप्यबुभुत्सितानामिति भवति प्रकटित आशयः । एतेन तन्त्रत्वेऽपीत्यन्तेन ग्रन्थेन यः कृतो निरासः स एव न युगपदित्यादावपि प्रतीयते इति कथमयेत्यादिशङ्कोन्मेष इति निरस्तम् । कर्णशष्कुल्यवच्छिन्नमाकाशं श्रोत्रं न तत्सावयवं यत्र तत्तदवयवरूपावच्छेदकभेदेन विद्यमानशब्दस्या- णुमनःसंयोगं प्रत्यवच्छेदकत्वे विशेषः स्यादिति । श्रोत्रशब्देषु विद्यमानेषु तत्र च मनःसंयोगे तत्तत्प्रत्यवच्छेदकत्वतदभावौ तेषु केषुचिद् व्यवस्थितौ न भवत एवेति न प्रसङ्गस्य वारणम् । न च कर्णशष्कुल्यवयवस्य श्रोत्रावच्छेदकत्वम् । न चाकाशे विद्यमानेषु शब्देषु तत्संबन्धाना मवयवानां कस्यचिदवच्छेदकत्वं कस्यचिन्नेत्यपि वक्तुं शक्यमिति भावः ॥ शब्दसमवायदशायामिति । ननु शब्दसमवायस्याविशेषे बुभुत्सायाश्चाविशेषे कस्यचिदेव शब्दस्य ग्रहः, कस्यचिन्नेत्यत्रैव मानाभावात् कथमेतत्संगच्छत इति चेन्न । कस्यचिदेव शब्दग्रहणेऽनुभवसिद्धे हि सर्वेषां ग्रहणप्रसङ्ग- रूपो दोषः, अन्यथेष्टापत्तेः, तदर्थं कस्यचिद् विशेषोऽनुभवगोचरोऽपि शब्दे तद्द्वारा बुभुत्सायाञ्च कल्प्यः, स चानेकभवीयानुस्यूतरागप्रभववासनाविशेषविषयत्वादिरूप्यस्ति सम्भावितः, तथापि कार्यकारणत्वयोर्लाघवेन कार्यकारणवृत्ति तद्व्यक्तित्वयोरेवावच्छेदकत्वं द्व्यक्तीतरप्रतिबन्धकत्वे च कारणतावच्छेदकतद्व्यक्तित्वस्य चावच्छेदकत्वमिति कल्प्यते । न चैवम्मनोविभवेऽप्येवमेवास्तु कल्प- ४१ न्या० क०