भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 352, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 352

३२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां भवत्येव समूहालम्बनमेकं ज्ञानमिति चेन्न। एकेन्द्रियग्राह्येष्विव नानेन्द्रिय- ग्राह्येष्वपि प्रसङ्गात्। तेष्वपि भवत्येवेति चेन्न। व्यासङ्गकाले ज्ञानक्रमेण विवाद- विषये क्रमानुमानात्। बुभुत्साविशेषेण व्यासङ्गे क्रियाक्रम इति चेन्नैवम्। बोधनी। भवन्ती गीर्वाणशापेनापि वापयाति, तच्चानिष्टमीति। उक्तमर्थं यथावदजानानश्चोदयति—भवत्येव इति। इष्यत एतत्सेना वनादिवदनेकालम्बनमेकं ज्ञानमतो नादिष्टमिति स्वाभिसन्धिमुद्घाटयन्नाह—न इति। अनेकेन्द्रियग्राह्यगन्धरसादिविषयकज्ञानोत्पत्तिरापद्यते, तच्चानिष्टमीति। अत्र सांख्यः शङ्कते—तेष्वपि इति। दीर्घशष्कुलीं भक्षयतः पुरुषस्य तद्गतगन्धरसस्पर्शशब्दादिविषयमेकसमुत्प- द्यत एव ज्ञानं ततो नेदमप्यनिष्टमिति। न तत्राप्यनेकविषयमेकं ज्ञानमुत्पद्यते भिन्नानां क्रमवतामेव ज्ञानानां कालभेदः सूक्ष्मत्वान्नोपलभ्यत इत्येवाङ्गीकर्तव्यमिति। कुत इत्याह—व्यासङ्ग इति। आत्मेन्द्रियविषयसमवधाने सत्यपि यदा कस्मिंश्चिदेव विषये ज्ञानमुत्पद्यते, न सर्वेषु तस्मिन्व्यासङ्ग- काले ज्ञानक्रमदर्शनादन्यदापि मनसः क्रमकरणस्वभावोऽनुमीयत इति तत्रान्यथासिद्धिमाशङ्कते बुभुत्सा-इति। व्यासङ्गकाले ज्ञानक्रमो बुभुत्सातत्क्रमप्रयुक्तो न तु मनसः क्रमकरणस्वभावप्रयुक्त इति। मैवम्-इति। न हि बुभुत्साया एष महिमाऽस्ति यत्स्वव्यतिरेके ज्ञानव्यतिरेक इति, किन्तु प्रकाशः। स्यैव ज्ञानस्य सामग्रीसत्त्वेनोत्पत्त्यापत्तेर्वा। न च तत्र फलबलात्तथा। अत्र फलाभावे हेतोः कल्प्य- त्वापत्तेः। अन्योन्यप्रतिबन्धस्य तत्त्वे वाऽज्ञानमेव स्यान्न त्वेकस्य ज्ञानमित्युक्तम्। वस्तुतः पञ्चसु यदेकं करणं ज्ञानं जनयति नापराणि, तत्र नियामकमास्थेयम्। अन्यथा ज्ञानजनने तेषां कलहं कः समादध्यादिति भावः। आशयमविद्वानाह। भवत्येवेति। एकैकेन्द्रियेण स्वस्वविषये समूहाल- म्बनमेकैकं जन्यत एवेत्यर्थः। आशयमुद्घाटयति। एकेति। तेष्वपीति। दीर्घां शष्कुलीं भक्षयतो गन्धादिज्ञानमेकमनेकेन्द्रियजन्यमुत्पद्यते इत्यर्थः। व्यासङ्गेति। एकेन्द्रियासक्तमनसोऽणुना मनसा युगपदनेकेन्द्रियासन्निकर्षात्तत्र ज्ञानक्रमस्य सर्वसिद्धत्वात् तद्दृष्टान्तेन तत्रापि गन्धादिज्ञानोत्पादः क्रमेण भवतीत्यनुमीयते। कालसौक्ष्म्याच्च क्रमो न लक्ष्यत इत्यर्थः। ननु दृष्टान्ते नानेकेन्द्रियमनः- संयोगाभावः क्रमप्रयोजकः, किन्तु बुभुत्साप्रयुक्त इत्याह। बुभुत्सेति। बुभुत्सा न रूपादिग्रहहेतुर्न प्रकाशिका। पूरणीयम्। अन्यथा कायव्यूहस्थले व्यभिचारात्। न चैकत्रेत्यधिकम्। आलोकादौ कारणे व्यभि- चारवारकत्वात्। ननु रूपादिषु मध्ये रूपमात्रव्यञ्जकत्वं हेतुस्तैजसत्वसाधने चाक्षुष उक्त इति रूपान्य- साक्षात्कारे चक्षुःस्वरुपायोग्यं (संयोगजन्यं) कथं तं जनयेदत आह। वस्तुत इति। नचादृष्टमेवात्र नियामकं गोगोत्वोभयविषयकनिर्विकल्पकानन्तरं गोविशेष्यकज्ञान इवेति वाच्यम्। अणुना मनसा दृष्टेनैवोपपत्तावदृष्टकल्पनानवकाशात्, अन्यथा मनस एवासिद्धेः। अणुना मनसेति। यद्यपि मनो- ऽणुत्व एव विवादः, तथापि व्यासक्तमनसो ज्ञानक्रमस्य सर्वसिद्धत्वादणुत्वं तदुपपादकतया मनसः कल्पनीयमिति भावः। ननु दृष्टान्त इति। आलोकेन्द्रियमनः संयोगास्याभावो ज्ञानजनकत्वाभावः, मकरन्दः। ननु रूपादिषु मध्ये रूपादिमात्रग्राहकत्वेनैव चक्षुरादिसिद्धेस्तदन्यगुणग्रहे तदसामर्थ्याच्चि- त्रज्ञानमसम्भवतीत्यरुचेराह वस्तुत इति। ननु गोगोत्वनिर्विकल्पकानन्तरमन्यतरविशेष्यकज्ञानोत्पत्ता- विवादृष्टमेवात्र नियामकमस्तु, यथा च तत्र नोभयविशेष्यकसमूहालम्बनं तथाऽत्र न युगपज्ज्ञानमिति चेत्। न, अणुना मनसा दृष्टेनैवोपपत्तावदृष्टकल्पनानवकाशात्। अन्यथा स एव न कल्प्येतेति भावः। सर्व्वसिद्धत्वादिति। यद्यपि युगपदनेकेन्द्रियसन्निकर्षो न सर्वसिद्धः, तथापि ज्ञानक्रमस्य तत्र सर्व्वसिद्धत्वात् अत्रापि क्रम इत्यत्रैव तात्पर्यम्। तदस्यः शङ्कते नन्विति। मद्धा, गूढामि-