न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 354, कुल 608 में से
संदर्भ में पढ़ें३२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां न तत्र संस्कारातिशयाधायकः प्रत्ययः स्यात्। यदि त्वबुभुत्सिते विषये साम- ग्रीमेव सा निरुन्ध्यात्, घटायोन्मीलितं चक्षुः पटं नैव दर्शयेत् तस्माद् बुभुत्सापी- न्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपज्ज्ञानानुत्पत्ता- वुपयुज्यते, न तु स्वरूपतः। विभुनोऽपि मनसो व्यापारक्रमात् क्रम इति चेन्न। बोधनी। स्वसामग्र्या जायमानः प्रत्ययो बुभुत्सया दृढतरसंस्काराधानसमर्थो भवतीति। ज्ञानमात्रोत्पत्तावपि बुभुत्सोपयोगेऽनिष्टमाह-यदि तु इति। यदि बुभुत्सा न कारणं तर्हि बुभुत्सिताबुभुत्सितयोर- विशेषेण ज्ञानं जायेत। न च मधुरतरसङ्गीतमादरेणाकर्णयतः सन्निहितेष्वपि विषयान्तरेषु युगपदेव ज्ञानोत्पत्तिर्दृश्यत इत्याशङ्क्याह-तस्मात् इति। यतो ज्ञानोत्पत्तौ बुभुत्सायाः साक्षादनुपयोगस्त- स्मात्तत्रापि मनःसंयोगक्रमादेव ज्ञानक्रमस्तत्संयोगक्रम एवं बुभुत्साया उपयोग इत्यर्थः। पुनरपि ज्ञानक्रमवादी शङ्कते-विभुनोऽपि इति। न इति। तस्य व्यापारस्य संयोगरूपत्वे तावन्न क्रमः संभवति विभुत्वान्मनसः, तदतिरेकेण तु कल्प्यमानस्य कर्मत्वेऽपि विभुत्वव्याघातः, गुणत्वेऽपि प्रकाशः। न चाणावपि मनसि रसनसंयुक्ते त्वक्संयोगस्यापि सत्त्वाद् रसगुडद्रव्यज्ञानयौगपद्यापत्तिः। रसनसंयोग- काले मनस्त्वक्संयोगे मानाभावात्। तस्माच्चाक्षुषज्ञानवतो मैत्रस्य स्वविषयसंबद्धानि त्वगादीनि स्वविषयसाक्षात्कारहेतुसंयोगशून्यानि, तदा स्वविषयसाक्षात्कारजनकत्वात्, पटवत्, अन्यथा सामग्रीसत्त्वे युगपज्ज्ञानोत्पादप्रसङ्गः। प्रकाशिका। णुकत्वमिति समः समाधिः। तथाप्यणुनेव मनसोपपत्तौ नैवं हेतुता गौरवादित्यभिसन्धिः। मिश्रास्तु तादृशबुभुत्सापि न प्रयोजिका, असत्यामपि तस्यामुत्कटसूचीसर्पादिव्यथाऽनुभवेन व्यभिचारादित्याहुः। तच्चिन्त्यम्। शब्देऽपि, सत्यामपि तादृशबुभुत्सायां निकट आहन्यमानढक्कादिशब्दस्य तारतम्यस्या बुभुत्सितस्यापि ग्रहेण तस्या व्यभिचारात्। वस्तुतो विभुत्वे मनस आत्मसंयोग एव कारणाभावा- न्न स्यादित्येव बाधकम्। न च नित्य एव स संयोगः। संयोगत्वस्यैव लाघवेन द्रव्यजन्यतावच्छेदकत्वा- दिति दिक्। रसनसंयोगेति। न च त्वङ्मनस्संयोगस्य ज्ञानमात्रजनकत्वादिदमयुक्तमिति वाच्यम्। त्वचस्तथात्वेऽपि त्वङ्मनःसंयोगस्य तथात्वे मानाभावात्। न च सुषुप्त्यनुपपत्तिरेव मानम्। शरीर- मनःसंयोगेनैव तदुपपत्तेः। न चैवं "मनसोऽनिन्द्रियप्रत्यासन्नतये"त्यादि मूलविरोध इति वाच्यम्। इन्द्रियपदस्येन्द्रियाश्रयपरत्वात्। चाक्षुषेति। सामान्यतः साक्षात्कारजनकत्वं स्वरूपासिद्धमत उक्तं चाक्षुषज्ञानवत इति। तेन तदानीमित्यनेन चाक्षुषज्ञानकालपरामर्शन्नासिद्धिरिति भावः। विषय सम्बन्धव्यतिरेकमादायार्थान्तरमिति संवद्धानीत्यन्तं पक्षविशेषणम्। साध्ये संयोगेति पक्षधर्म- मकरन्दः। नन्वेवं वैभवेऽपि रूपादिसकलगोचरबुभुत्साया अहेतुत्वेऽपि तदन्यतमबुभुत्सा तद्ग्राहिका अन्य- ग्रहप्रतिबन्धिका चास्तामिति तुल्यः समाधिः। न च तादृशबुभुत्सायामपि सूचीसर्गादिवेधाद्यनुभवेन तादृश्या अपि व्यभिचारान्नैवमिति वाच्यम्। शब्देऽपि तादृशबुभुत्सायां निकठाहन्यमानढक्का शब्दा- नुभवेन तुल्यत्वात्। अत्रापि यदि विशेषकल्पनं, तदा तदपि तुल्यमिति। मैवम्। अणुना मनसैवोत्तौ तादृशबुभुत्साहेतुत्वादिकल्पनायामेव गौरवात्। रसनसंयोगकाल इति। न च त्वङ्मनोयोगस्य ज्ञानमात्रहेतुत्वे तदवश्यकमिति वाच्यम्। त्वचस्तथात्वमतेऽपि तत्तन्मनोयोगस्य तथा- त्वे मानाभावात्। न च सुषुप्तौ ज्ञानानुत्पत्तिरेव मानं, शरीरमनःसंयोगाभावात्तदुपपत्तेः। चाक्षुषेति। टिप्पणी। नेति वाच्यम्। अणुत्वपक्षेऽल्पतरप्रतिबन्धकत्वस्य कल्पनीयत्वात्। इन्द्रियान्तरजन्यानन्त- ज्ञानस्य मनःसम्बन्धाभावेनैवोपपत्तेः, वैभवे चानन्तप्रतिबन्धकत्वस्यैव कल्पनीयत्वादिति भावः॥