न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 355, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुपलब्धेरधिकत्वनिराकरणम्। ३२३ तस्य संयोगातिरिक्तस्य कर्मरूपत्वे वैभवविरोधात्। गुणरूपत्वे नित्यस्य क्रमानुपपत्तेः। अनित्यस्य च नित्यैकगुणस्याविभुद्रव्यसंयोगासमवायिकारणकत्वेन तदन्तरेणानुपपत्तेः। तदपि कल्पयिष्यते इति चेत्, तदेव तर्हि मनःस्थाने निवेश्यतां लाघवाय। तस्मादण्वेव मन इति॥ तथा च, तस्मिन्ननिन्द्रियप्रत्यासन्ने निरुपाधानत्वादात्मनः सुषुप्त्यवस्थायामस- नुपलम्भः। एतदेव मनसः शीलमिति कुतो निर्णीतमिति चेत्, अन्वयव्यतिरेका- भ्याम्। न केवलं तस्य, किन्तु सर्वेषामेवेन्द्रियाणाम्। न हि विशेषगुणमनपेक्ष्य चक्षुराद्यपि द्रव्ये प्रवर्त्तते। स्वापावस्थायां कथं ज्ञानमिति चेत्, तत्तत्संस्कारोद्बोधे
बोधनी। तस्य नित्यत्वाभ्युपगमे क्रमोत्पत्तिरीति न संभवति अनित्यत्वे तु विभुद्रव्यैकगुणस्याप्यविभुद्रव्य- संयोगासमवायिकारणकत्वेन व्याप्तेराकाशैकगुणे शब्दे भेर्याद्यविभुद्रव्यसंयोगासमवायिकारणकत्व- दर्शनेनावधारणाद्विभुद्रव्यमन्तरेण तदनुपपत्तेरससमवायिसंयोगाधिकरणं किञ्चिदविभुद्रव्यं कल्प- नीयम्। यदि तदपि कल्प्येत तर्हि कल्पनालाघवाय तदेवाऽस्तु मन इत्युपसंहरति-तस्मात् इति। उपपादितमर्थमुपजीव्य पूर्वप्रकृतमेवोपक्रम्याह-तथा च इति। यथोक्तमार्गेणाणुनि मनसि तस्यानिरिन्द्रियप्रदेशावस्थानापत्तौ मनःसहकारिविधुरैरिन्द्रियैः ज्ञानादिविशेषगुणानुत्पादादात्मनो निरुपाधानत्वात् सुषुप्तावस्थायामनुपलम्भः सिध्यतीति। एतत् इति। विशेषगुणोपहितमेवात्मानं गृह्णातीत्येतदेवेति। विशेषगुणोपधानानुपधानायोरात्मनो ग्रहणाग्रहणाभ्यां तन्निश्चितमित्याह-अन्वय इति। न केवलं मनस एवेदं शीलं किन्तु सर्वेन्द्रियाणामपीत्याह-केवलम् इति। एतदेवोप- पादयति-न हि इति। अन्यथा वाय्वादिकमपि चक्षुः प्रवर्त्तेतेति भावः। स्वप्ने वा कथं सुषुप्तिवन्मनसो
प्रकाशः। नित्यैकगुणस्येति। नित्यपदं स्नेहे, एकपदञ्च द्वित्वादौ व्यभिचारवारणाय। नित्यवृत्त्येक- वृत्त्यनित्यगुणत्वेन मूर्त्तसंयोगासमवायिकारणगुणवृत्तित्तिगुणत्वव्याप्यजातिमत्त्वं साध्यमित्यर्थः। ननु मनोऽवयव्यस्तु तस्य संकोचविस्ताराभ्यां ज्ञानक्रमयौगपद्ययोरुपपत्तेः। शष्कुलीभक्षणानन्तरं गन्धादीन् युगपद् प्रत्येमीत्यनुव्यवसायस्य बाधकं विना प्रमात्वात्। मैवम्। यदि संकोचविस्तारहेतु- रदृष्टं, तदा तत एव तदुभयमस्तु, किं मनसा। नाप्येकपञ्चबुभुत्सा तौ भवतः। बुभुत्साया अहेतु- त्वात्, हेतुत्वे वा लाघवादिषु मनोऽस्तु। एतेनाणुमनःपञ्चकमस्तु अवयविनो लघूत्वाद् बुभुत्सा- वशात्तेषामेकपञ्चेन्द्रियसम्बन्धादुभयोपपत्तेरित्यपास्तम्। पञ्चबुभुत्सायां पञ्चेन्द्रियसम्बन्धे व्यासङ्गा- नुपपत्तेरित्यभिप्रेत्याह। तस्मादिति॥ एवमौपोद्घातिकं मनोवैभवनिराकरणं समाप्य प्रकृते योजयति। तथा चेति। एतदेवेति। विशेषगुणोपहितात्मग्राहकत्वमित्यर्थः। अनिन्द्रियप्रत्यासन्नतवा- न्मनसः स्वप्नप्रत्यया अपि न स्युरित्याह। स्वापेति। सर्वेन्द्रियप्रत्यासत्तिविरहे मनसो ज्ञानाजनकत्वं, न तु त्वगादिप्रत्यासत्तिमतोऽपीत्याह। **तत्तदिति। उद्बोधः=**सहकारिसाकल्यम्। विषयस्मृति- दोषादृष्टादिसाचिव्यान्मनसा स्वप्नानुभवो जन्यत इत्यर्थः। सदृशदर्शनाद्युद्बोधकस्याभावात् संस्कारा-
प्रकाशिका। तावदत्यन्तोत्कीर्त्तनं व्यारकता तु तदनन्तर्भावेनैव। अन्यथाऽनुद्भूतरूपतया साक्षात्काराजनके ऊष्मादौ व्यभिचारापत्तेः। यद्विषयसाक्षात्कारजनकत्वं तद्विषयसाक्षात्कारहेतुसंयोगशून्य- त्वमिति व्याप्तिलाभाय साध्यहेत्वोः स्वविषयपदमिति दिक्। शब्दजशब्दे व्यभिचारवा- रणाय साध्यं जातिगर्भतया व्याचष्टे मूर्त्तेति। गुणपदं पूर्ववद्दैशिकव्याप्तिलाभाय।
मकरन्दः। प्रत्यक्षप्रकाशो विप्रञ्चितम्। शब्दजशब्दे व्यभिचारवारणाय साध्यं व्याचष्टे मूर्त्तेति। गुणपदं स्पष्टार्थम्।