न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 357, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३२५ संसार्येकस्यैव मनः एकमेवात्मानं गृह्णातीत्यत्र नियामकम् अस्ति । स्वभाव इति चेत्, तर्हि मुक्तौ निःस्वभावत्वप्रसङ्गः । तदेकार्थताया अपायादिति । न । भोजका- दृष्टोपग्रहस्य नियामकत्वात् । यद्धि मनो यच्छरीरं यानीन्द्रियाणि यस्यादृष्टेनाकृ- ष्टानि, तानि तस्यैवेति नियमः । तदुक्तं प्राक्—प्रत्यात्मनियमाद्भुक्तेरिति । एतेन पर- बुद्ध्यादयो व्याख्याताः ॥ तदेवं योग्यानुपलब्धिः परात्मादौ नास्ति, तदितरा तु न बाधिकेति तवापि सम्मतम् । अतः किमधिकृत्य प्रतिबन्धिः । न हि शशशृङ्गमयोग्यानुपलब्ध्या कश्चि- न्निषेधति । न च प्रकृते योग्यानुपलब्धिं कश्चिन्मन्यते । अथायमाशयः । अयोग्य- बोधनी । इति । सर्वेषां मनसां सर्वात्मनः प्रति साधारणत्वादिति । साधारण्यमेवाह—न हि इति । न ह्येक- स्यात्मनः सर्वदैकमेव मन इत्यत्र नियमहेतुरस्तीति । नन्वस्ति मनःस्वभाव एव नियामक इत्याह- स्वभावः इति । यदि तदेकात्मसम्बन्धित्वमस्य स्वभावस्तर्हि मुक्तात्मनां मनःसम्बन्धाभावात् स्वभावहानिः स्यादित्याह-मुक्तौ इति । सिद्धान्ती नियमहेतुमाह—न इति । यस्यात्मनो यद्भोजकमदृष्टमसाधारणं तेनोपनीतं मनस्तस्यैव ज्ञानहेतुर्नान्यस्य शरीरादीनामप्यसाधारणादृष्टा- कृष्टत्वमेवासाधारण्या हेतुः, व्युत्पादितं चैतदन्यत्रेति । एतेन मनसोऽसाधारण्याेन परात्मवत्परदुःखा- दयोऽप्यप्रत्यक्षा इति व्याख्याता इत्याह—एतेन इति । तदेवं "योग्यादृष्टिः कुतोऽयोग्ये" इत्येतद् व्याख्यायोपसंहरति—तदेवम् इति । द्वितीयं पादं व्याचष्टे—तदितरा इति । तृतीयं व्याचष्टे—न हि इति । किन्तु योग्यानुपलब्ध्येति । न च प्रकृते परमात्मनीश्वरे योग्यानुपलब्धिरस्तीत्याह-न च इति । तस्मान्न प्रतिबन्धिरिति परा- शयमाशङ्कते-अथ इति । यद्ययोग्यस्य शशशृङ्गस्यानुपलब्धिर्न बाधिका स्यात् ततो बाधकाभाव- प्रकाशः । स्वाभाविक एव सम्बन्धो, यतो मुक्तावप्यात्मनो नित्यनिरतिशयानन्दसन्दोहाभिव्यक्तिः । एका- त्ममात्रज्ञानजनकत्वं मनसः स्वभाव इत्याह । स्वभाव इतीति । एकस्यात्मन एकमेव मन इति स्वभावः, एकं मन एकमेवात्मानं गृह्णातीति वा, द्वयमपि जीवन्मुक्तौ नास्ति, तत्र कायव्यूहे बहुत- रमनःस्वीकाराद्योगिनामप्यात्मसाक्षात्कारजननादित्याह । मुक्ताविति । जीवन्मुक्तौ । यदीयादृष्टा- कृष्टं यन्मनस्तत्तस्यैव ग्राहकं, योगिनामपि तत एव तदीयं तस्य । अदृष्टस्यापि तदीयत्वं तदीय- मनोनिष्पन्नत्वेन, बीजाङ्कुरवच्च नानवस्थादोष इत्याह । भोजकेति । यथा परात्मनि परमनसो न साक्षात्कारजनकत्वं तथा परबुद्ध्यादावपि, तुल्यत्वादित्याह । एतेनेति । यत्र प्रतिबन्धिः स्यात् तदुभयमपि नेष्यते इत्याह । न हीति । न हि तेन ईश्वरसाधने किञ्चिद् प्रकाशिका । तेषां तथा नियम एवेति भावः । एकात्ममात्रेति । नियामकान्तराभावेऽपि स्वभाव एव नियामक इति भावः । एकस्यात्मन इति । एकमेव मन एकत्रात्मनि ज्ञानादिजनकम् , एकं मन एकात्मगो- चरमेव ज्ञानं जनयतीति वा विकल्पार्थः, निर्वाणमुक्तौ ज्ञानजनकत्वमसम्भवीति व्याचष्टे । जीवन्मुक्ता- विति । वस्तुतो मुक्ताविति मूलं निर्वाणाभिप्रायकमेव तथा च स्वभावो वस्तूनां यावद्द्रव्यभावीति एका- त्मग्राहकत्वरूपस्वभावहानिर्निर्वाणदशायां स्यादिति मूलार्थ इति प्रतिभाति । तस्यैवेति । तत्रैवात्मनि ज्ञानजनकमित्यर्थः । देवदत्तमनसा समस्तात्मसाक्षात्कारविरहेण यथाश्रुतस्यासङ्गतेः । ननु प्रत्यक्षं यो- मकरन्दः । एकात्ममात्रेति । तथा च नियामकान्तराभावेऽपि स्वभाव एव नियामक इति भावः । अयोग्यस्यैव