भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 349, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 349

[तृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । [३१७]


द्वयणुकादिपरमाणुपर्यन्तोपाधिकल्पनायां कल्पनागौरवप्रसङ्गो नियमानुपपत्तिश्चेति ततोऽन्यदेवेकं सूक्ष्ममुपाधित्वेनातीन्द्रियं कल्पनीयम् । तथा च तस्यैवेन्द्रियत्वे स्वाभाविकेऽधिककल्पनायां प्रमाणाभावाद्धर्मिग्राहकप्रमाणबाधः । अथ ज्ञानक्रमेणो-

बोधनी।

सुखाद्युत्पत्त्युपलम्भयोः प्रसङ्गादित्याह—नियमानुपपत्तिश्च इति । यतो नियतस्य शरीरावयव- स्योपाधित्वे सुखादीनामपि नियतत्वप्रतीतिविरोधः, शरीरमात्रस्योपाधित्वे च व्याप्यवृत्तित्वप्रतीतिवि- रोधः, शरीरतदवयवानामनियमेनोपाधित्वे कल्पनागौरवप्रसङ्गो नियमानुपपत्तिश्चेत्येते दोषाः प्रादुष्युः तस्मादेवमङ्गीकार्यमित्याह—ततोऽन्यत् इति । आशुतरसंचारीत्युपसंख्यानं कार्यं, तेन शिरःपाद- योर्युगपदुपलम्भाभिमानः सिध्यतीति । अस्तु तादृश उपाधिः, ततः किमित्यत आह—तथा च इति । तस्यैवोपाधित्वेनाङ्गीकृतस्य शरीरसंयुक्तत्वे सति साक्षात्प्रतिसाधनत्वेनेन्द्रियलक्षणलक्षितत्वादि- न्द्रियत्वे स्वभावतः सिद्धे तदेवास्तु मन इति । तथा चाणुत्वेनैव मनःसिद्धेर्धर्मिग्राहकप्रमाणबाधो वैभवहेतूनामिति । तदेवं सुखादिसाक्षात्कारसाधनत्वेन मन इन्द्रियकल्पनायां धर्मिग्राहकप्रमाणबाध उक्तः । यदा बाह्येन्द्रियेषु युगपद्विषयेषु संयुक्तेष्वपि यत्संनिधानक्रमाज्ज्ञानोत्पत्तिक्रमः प्रक्रमते, तेनेन्द्रि- यसहकारिणा केनचिद्भवितव्यमिति युगपज्ज्ञानानुत्पत्तिलिङ्गेन मनोऽनुमीयते, तदा स्फुट एव धर्मिग्रा- हकप्रमाणबाध इत्याह—अथ इति । व्यापकत्वे हि तस्य युगपत्सर्वेन्द्रियैः युगपज्ज्ञानोदयप्रसङ्गात्,

प्रकाशः ।

चाणुमनः संयोगोऽपि स्वावच्छिन्नेऽधिकदेशे च जनयेत्, नियामकाभावात् । अन्त्ये, तवापि सुखा- देरणुदेशतापत्तिः, मनोवैभवेऽपि तद्विरोधश्च । अथ निमित्तचन्दनाद्यनुरोधेन सुखादौ न्यूनाधिक- देशता निमित्तवायुसंयोगादिव शब्दे, न त्वसमवाय्यनुरोधात् । तर्हि मनोवैभवेऽपि तथाऽस्तु । न च विभुकार्यासमवायिकारणं स्वावच्छिन्ने करोत्येव, भेर्याकाशसंयोग इव शब्दमिति चन्दनाद्यनवच्छि- न्नेऽपि सुखादि स्यादिति वाच्यम् । तद्देशावच्छिन्नचन्दनसुखे हि तद्देशचन्दनसापेक्षोऽसमवायीति कथं तन्निरपेक्षस्तत् कुर्यात् । तथा च शरीरमात्रस्योपाधित्वेऽपि निमित्तवशात् सुखादेर्नियतदेशत्वं स्यात् । अत्राहुः । विभुकार्यविशेषगुणस्य न स्वासमवायिकारणन्यूनदेशत्वमिति नियमः । मनोवैभवे च शरीरं व्याप्यैव मनःसंयोगोऽसमवायीति तदवच्छेदं व्याप्यैव सुखादेरुत्पत्त्यापत्तिः । ततः पादावच्छिन्नं सुखं यदि शरीरावच्छिन्नासमवायिकारणकं स्यात्, शरीरव्यापकं स्यात् । निमित्तकारणस्य चाधिकदे- शत्वमात्रप्रयोजकत्वात् । अत एव निदाघतप्तस्य अम्भसि मग्नस्य सर्वाङ्गीणसुखधीरुपपन्नेति भावः । नियमेति । सर्वेषामेव शरीरादीनामुपाधित्वे कुतो नियतदेशसुखाद्युत्पत्तिरित्यर्थः । धर्मिग्राहकेति।

टिप्पणी ।

भवतैवेति कार्यस्य स्वानवच्छिन्नता व्यावृत्तिः । द्वितीये स्वव्याप्यव्यक्तिद्विद्देशासम्बन्धव्यावृत्त्या स्वाव- च्छिन्नसकलदेशसम्बन्धः, तृतीये चातिरिक्तदेशावच्छिन्नव्यावृत्तिः प्रतीयते, एवञ्च नियमस्थाने यावता विना नियमस्यानुपपत्तिर्भवेत्, तावदेव कल्पितं भवति, तेनैव चान्यप्रसक्तप्रसक्ती व्यवस्थाप्येते । तथा च सति प्रथमे पक्षे हस्तादिशरीरावयवावच्छिन्नकार्यस्य शरीरानवच्छिन्नत्वविरहेण नियमस्य सकलशरीरावयवावच्छिन्नत्वं विनानुपपत्तेरभावात्, तयोरुपपादकस्याकल्पनाद् हस्तावावच्छिन्नस्य पादा- द्यधिकदेशावच्छिन्नत्वे को ममापि पक्षे प्रसञ्जक इति पूर्वपक्षिणोऽभिप्रायः । द्वितीये च यथा मम पक्षे हस्तावच्छिन्नस्य पादानवच्छिन्नत्वे नियमभङ्गः स्यादित्युपपादकमहिम्ना सकलावयवावच्छिन्नत्वेऽधि- कदेशतापत्तिस्तथा तवापि मतेऽणुरूपमनोदेशाधिकहस्तादिदेशावच्छिन्नत्वस्यापि नियमानुपपत्त्य- भावमात्रादेव स्वीकरणीयतया तस्य हस्ताद्यधिकपादादिदेशावच्छिन्नत्वेऽपि नियमानुपपत्तेरभावात् तदपि स्यात्, अणुदेशाधिकहस्तावच्छिन्नत्वस्वीकर्त्रा अधिकदेशताविघटकनियामकस्य वक्तु- मशक्यत्वादित्यभिप्रायः । अन्त्ये स्पष्टः । तवापि=तवैवेत्यर्थः । यद्वा हस्ताद्यवच्छिन्नस्यापि