न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 333, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तबके ] . प्रलयोपपादनम् । २६६ मिति । अथायमाशयः । वैदिका अप्याचारा राजसूयाश्वमेधादयः समुच्छिद्यमाना दृश्यन्ते, यत इदानीं नानुष्ठीयन्ते, न चैते प्रागपि नानुष्ठिता एव, तदर्थस्य वेदरा- शेरप्रामाण्यप्रसङ्गात्, समुद्रतरणोपदेशवत् । न चैवमेवास्तु, दर्शाद्युपदेशेन तुल्य- योगक्षेमत्वात् । एवं, पुनः स कश्चित् कालो भविता यत्रैते अनुष्ठास्यन्ते, तथाऽन्ये- ऽप्याचाराः समुच्छेत्स्यन्ते अनुष्ठास्यन्ते चेति न विच्छेदः । ततस्तद्वदागममूलते- तिचेत् । एवं तर्हि प्रवाहादौ लिङ्गाभावे कर्त्तव्यत्वागमयोरनुमानादसत्यां प्रत्यक्ष- श्रुतौ आचारसङ्कथाऽपि कथमिति सर्वविप्लवः । तस्मात् प्रत्यक्षश्रुतिरेव मूलमाचा- रस्य सा चेदानीं नास्तीति शाखोच्छेदः । अधुनाप्यस्ति सान्यत्रेति चेदत्र कथं नास्ति ? । किमुपाध्यायवंशानामन्यत्र बोधनी। मेयवेदवादिनामेवाशयमाशङ्कते-अथायम् इति । प्रत्यक्षवेदमूलानामपि न तावदाचरितपूर्वाणा- माचाराणामुच्छेदो दृश्यते, न हि ते पूर्वमप्यनाचरिता वक्तुं युक्तं तद्विषयस्य वेदस्यानुष्ठानलक्षणां- प्रामाण्यप्रसङ्गात् । न च तस्याप्रामाण्यमेवास्त्विति युक्तम्, अनुष्ठीयानार्थदर्शपौर्णमासादिवाक्यैर- श्वमेधादिवाक्यानां प्रामाण्यहेत्वविशेषात् । पूर्वकालवदुत्तरकालमनुष्ठास्यन्ते च कदाचिदश्वमेधाद- यस्तद्वदन्येऽप्यप्रत्यक्षवेदमूला आचारत्वादेवोच्छेत्स्यन्ते पुनरनुष्ठास्यन्ते चेति तेषामपि विच्छेदेन भवितव्यम् । अतोऽनादित्वाभावादाचारपरम्परामूलत्वासंभवेनाश्वमेधादीनामिव्राष्टकादीनामप्या- चारस्यागमो मूलं, स चानुमेय इति भावः । विवादपदाचारा वेदमूला उच्छेदामन्तरभावित्वात् राजसूयाश्वमेधादिवदिति । एवं तर्हि इति । यद्येषामुच्छेदस्तर्हि किं मूलाः पुनः प्रवर्त्तन्ताम् । न तावत्कर्त्तव्यतानुमानम् अनुमेयवेदो वा मूलं संभवति, तल्लिङ्गस्याचारस्य तदानीमभावात् , न चाऽश्वमेधादिवत्प्रत्यक्षश्रुतिरस्ति तदाचारस्वरूपस्य परिप्लवः स्यात्, न केवलं वेदमूलत्वमस्येत्यु- पसंहरति-तस्मात् इति । तदेवं नित्यानुमेयत्वेन शाखानामुच्छेदाभावं वदन्तो निरस्ताः । संप्रति मतान्तरमाशङ्कते-अधुनापि इति । स्मृत्याचारयोर्मूलभूता श्रुतिरिदानीमपि देशान्तरेऽ- धीयते तेन न तच्छाखोच्छेद इति । तदपि विकल्प्य दूषयति-अत्र इति । स्वाध्याय इत्यध्ययनमुच्यते अध्येतृसमानकर्तृकत्वादिति । न ह्यनधीयानानामनुष्ठेयज्ञानासंभवादनुष्ठानं संभवतीति । देशान्तरा- प्रकाशः । स्यागममूलकत्वव्याप्तौ प्रयोजकमाह । अथेति । अप्रामाण्येति । नित्यमननुष्ठानादित्यर्थः । तद्वदिति । विवादाध्यासिता आचारा वेदमूलाः, उच्छेदानन्तरभाविप्रवाहवत्त्वाद्वाजसूयवदिति न प्रत्यक्षादिना सिद्धसाधनं, नाप्यत्यन्तमुच्छेद इत्यर्थः । प्रलये स्मृत्याचारयोरुच्छेदाल्लिङ्गाभावे- नासत्यां प्रत्यक्षश्रुतौ अनुष्ठानमेव न स्यादित्यसिद्धो हेतुरित्याह । एवं तर्हीति । न च घटादि- संप्रदायप्रवर्त्तनार्थमीश्वरस्यापि शरीरपरिग्रहात् तदाचारादेव कर्त्तव्यताऽनुमितिः स्यादितिवाच्यम्। बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वाल्लाघवेन वेदरूपवाक्यस्य कल्पनादिति भावः । शाखो- च्छेद इति । व्यासादीनां ससहस्रशाखवेदज्ञातॄणां सत्त्वेऽपि साम्प्रतं तदध्ययनाभाव एव शाखोच्छेदः। स्मृत्याचारमूलं वेद इदानीमप्यन्यत्राध्ययनगोचर इति भट्टमतं शङ्कते । अधुनाऽपीति । परिहरति । अत्रेति । भारतवर्षे तदध्ययनाभावेऽप्यन्यत्र तदध्ययनकल्पनायां गौरवमिति भावः । प्रकाशिका । मूल एवान्यादृशस्य वेदस्य मूलत्वानुपपत्तेरुक्तत्वादिति भावः । असिद्धो हेतुरिति । इदमुप- मकरन्दः । लत्वानुपपत्तेरित्यभिसन्धिः। असिद्ध-इत्युपलक्षणं, चैत्यवन्दनाद्याचारप्रवाहे लौकिकाचारप्रवाहे च