न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 332, कुल 608 में से
संदर्भ में पढ़ें२६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्या० ] मूलान्तरानपेक्षणात् । तत्कर्त्तव्यतायास्तु प्रत्यक्षाभावादप्रमिततया च शब्दानुमा- नानवकाशात् प्रत्यक्षश्रुतेरसम्भवाच्छिष्टाचारत्वेनैव कर्त्तव्यतामनुमाय तया मूल- शब्दानुमानम्, तथा च किन्तेन ? तदर्थस्य प्रागेव सिद्धेः । तथाप्यागममूलत्वेनैव तस्य व्याप्तेरिति चेत् । अत एव तर्हि तस्य प्रत्यक्षानुमानमूलत्वमनुमेयम् । आदिम- तस्तत्त्वं स्यादयं त्वनादिरिति चेत् । आचारोऽपि तर्हि प्रथमतस्तथा स्यादयं त्वनादि- र्विनाऽप्यागमं भविष्यति । आचारकर्त्तव्यतानुमानयोरैवमनादित्वमस्तु किन्नश्छि- न्नमिरित चेत् । प्रथमं तावन्नित्यानुमेयो वेद इति, द्वितीयं च देशेनैव धर्मे प्रमाण- बोधनी । आचारकर्त्तव्यताया हि मूलान्तरापेक्षेति । तर्हि तयैव वेदोऽनुमास्यत इत्याह—तत्कर्त्तव्य- तायास्तु इति । ततः किमित्यत्राह—अप्रमिततया इति । मा भूच्छब्दानुमानं प्रत्यक्षवेदेनैव तु कर्त्तव्यताप्रतीतिरस्त्वित्यत्राह—प्रत्यक्ष इति । आचारमूलस्य नित्यानुमेयत्वाभ्युपगमादिति । तस्माच्छिष्टाचारत्वेन कर्त्तव्यतामनुमाय वेदोऽनुमातव्यः । सा चेदनुमिता किं तेनानुमितेन वेदेन, तत्प्रमेयस्य कर्त्तव्यताया अनुमानादेव सिद्धेरिति । नन्वनुमानादेवाचारकर्त्तव्यतावगमेऽपि वेदमूलतैव तस्या अनुमीयते । कर्त्तव्यताया वेदमूलत्वेन ज्योतिष्टोमादौ व्याप्तिवधारणादित्याह—तथापीति । यदि व्याप्तिबलादागमो मूलमनुमीयते तर्ह्यत एवानुमीयमानस्य वेदस्य प्रत्यक्षानुमानयोरन्यतर- मूलत्वमनुमीयताम्, आगमत्वस्य तन्मूलत्वेन लोके व्याप्तिवधारणादित्याह—त एव इति । एतच्च प्रकृतानुपयोगेऽपि परेषामनिष्टमित्येतावता प्रसञ्जितमिति । आदिमत इति । आगमस्य प्रत्यक्षानुमानमूलत्वं दृष्टम्, अयं त्वनुमीयमानो वेदागमोऽनादिरतः कथमस्य तन्मूलतेति । तदे- तदाचारेऽपि वक्तुं शक्यत इत्याह—आचारोऽपि इति । य आचार आचरित्रा स्वयमेव मूल- भूतमागममुपलभ्य प्रवर्तितः तस्यैवेदं प्रथमस्य ज्योतिष्टोमादेरागममूलत्वमुपलब्धम् । अयं त्वद्य- त्तनानाचारः पूर्वपूर्वाचारपरम्परोप लम्भमात्रेणानुष्ठीयमानोऽनादिरतोऽयमागमनिरपेक्षो भविष्य- तीति । ननु मा भूदागमो मूलमाचारस्य शिष्टाचारत्वेन कर्त्तव्यतानुमानमेव मूलं भविष्यति, शिष्टा- नामपि पूर्वानाचरतो दृष्ट्वा कर्त्तव्यतामनुमायाचारस्तेषामपि पूर्वतरानाचरतो दृष्ट्वा इत्याचारात् कर्त्तव्यतानुमानं, तदनुमानाच्चाचार इति अनन्ताभ्युपगमान्नेतरेतराश्रयत्वादिदोषप्रसक्तिरित्याह— आचार इति । किन्नश्छिन्नम् इति । स्मृत्याचारयोर्मूलभूतो वेदो नित्यानुमेयः, चोदनैव धर्मे प्रमाणमिति राद्धान्तद्वयमपि छिद्यते, अनुमानस्यैव धर्ममूलत्वाभ्युपगमादिति । पुनरपि नित्यानु- प्रकाशः । तदिति । तृतीयं शङ्कते । तथापीति । दर्शादिव्यवहारस्य वेदपूर्वकत्वसहचारदर्शनादित्यर्थः । न हि सहचारमात्राद् व्याप्तिः । पौरुषेयवाक्यस्येव वैदिकवाक्यस्यापि प्रत्यक्षानुमानविवक्षापूर्व- कत्वप्रसङ्गादिति परिहरति । अत एवेति । अत्रोपाधिमाह । आदिमत इति । आगमस्येत्यर्थः । आचारस्याप्यागमपूर्वकत्वे साध्ये स एवोपाधिरित्यनादिः स तन्निरपेक्षोऽपि स्यादित्याह । आचारोऽपीति । द्वितीयमिति । अनुमानस्यापि धर्मे प्रमाणत्वाभ्युपगमादित्यर्थः । आचार- प्रकाशिका । लिङ्गस्य न मूलत्वमेवं तादृशवेदस्यापीति भावः । आचारोऽपीतीति । साद्याचारोऽपि प्रत्यक्षवे- मकरन्दः । इति । तथा च यथा न नित्यानुमेयलिङ्गममूलत्वं तथा न नित्यानुमेयवेदमूलत्वमपीति निगमः । आचा- रोऽपीतीति । तथा च व्याप्तिबलादपि प्रत्यक्षश्रुतिमूलत्वमेव सिद्ध्यति, अन्यादृशश्रुतेरक्लृप्ततया मू-