न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 35, कुल 608 में से
संदर्भ में पढ़ेंस्तबकः १ ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते ५ चिम्लानो न विमर्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः । बोधनी । र्दने पीडने सति न म्लायति न दूष्यते, तेषां हीनाङ्गत्वेन दुर्बलत्वादिति भावः । अनेन प्रकरण- समः प्रतितर्कप्रतीघातश्च वारितः । अन्यत्र करतलादिमर्दने न म्लानः तदभावादेव न प्रत्यग्रापचित इत्यर्थः । यद्वा पुष्पाञ्जलिसाधर्म्यप्रसक्तविमर्दनासद्दत्वनिवारणेन न्यायस्य तद्वैधर्म्यमनेन प्रद्- र्श्यते, यथा विमर्दने सति पुष्पाञ्जलिम्लायति नायं तथेति । अमृतं ब्रह्म, रसयतीति रसस्तद्वि- षया बुद्धिः, तस्य प्रस्यन्दः = प्रवाहः ध्यानमिति यावत् । तेन यत् तस्य साक्षात्कारी ज्ञानं तद्द्वारा निर्वाणं वा, तदेव माध्वीकमिवान्ववहितपुरुषार्थतया माध्वीकमिति गौणो वादः, तस्य भूर्हेतुः । श्रवणानन्तरं न्यायावधृतपरमात्मतत्त्वानां तत्त्वानुचिन्तनेन साक्षात्कार उत्पद्यते ततोऽप- वर्ग इति स्थितिः । अथवा अमृतं = मोक्षः, तत्र रसः = तद्गोचरेच्छा, तस्य प्रस्यन्दोऽविच्छेदेन प्रवाहः, स एव माध्वीकं, तस्य भूर्भूमिरिति । श्रवणसञ्जातां मुमुक्षां नास्तिककुतर्कापादितशैथिल्या- पनयेन वर्द्धयतीत्यर्थः । अनेन न्यायस्य फलवत्त्वप्रदर्शनेन तद्व्युत्पादकस्य प्रकरणस्यापि प्रेक्षाव- प्रकाशः । पद्यते ज्ञायतेऽनेनेति व्युत्पत्त्या प्रत्यायकयुगे प्रमाणतर्करूपे । निवेशितः = तद्विषये उत्पादितः । अन्वयि व्यतिरेकि वा पदयुगम् । वेदस्य पौरुषेयत्वे केवलस्य व्यतिरेकिणोऽपि दर्शयिष्यमाण- त्वात् । यद्वा, पदं = ज्ञानं तद्युगं तदुभयोत्पादितम् , निमित्तसप्तम्या ज्ञानद्वयार्थमित्यर्थः । प्रमाणा- प्रकाशिका । मग्नेति । तर्कविषयो न न्याय इत्यरुचेराह । अन्वयीति । वेदस्येति । अत्र मिश्राः सम्भव- प्राचुर्यादिदमुक्तम् अन्वयव्यतिरेकिणोऽप्युदाहरणद्वयभेदेन न्यायभेदस्य सर्वसम्मतः। नचैवमपि विष- यिणो न्यायस्य भेदेऽपि तद्विषयस्य प्रमाणस्य न भेद इति वाच्यम् । अन्वयव्यतिरेकव्याप्तिद्वयविशिष्ट- प्रमाणस्यापि भेदादित्याहुः । तच्चिन्त्यम् । तत्र व्यतिरेकव्याप्त्युपदर्शनाभावेन तादृशन्यायाप्रदर्शनेन “तत्परतायामेष” इति मूलविरोधात् तादृशन्यायतात्पर्यस्य च कल्पने गौरवात् । ननु पदयुग इतीयं यद् विषयसप्तमी तद्विषयप्रतिपत्तिजनकत्वमाह, नचेह प्रमाणप्रतिपत्तिमात्रं विवक्षितं प्रयोजनास्पर्शा- दतस्तत्साध्यश्रुतप्रयोजनभगवदनुमितिपरतया पदपदं व्याचष्टे । यद्वेति । न च कर्मयोगं विनानेयं मकरन्दः । ननु तर्कविषयो न न्याय इत्यरुचेराह । अन्वयीति । वेदस्येति । इदञ्च सम्भवसाँकर्या- दुक्तम् । वस्तुतोऽन्वयव्यतिरेकिणोऽपि उदाहरणादिभेदेन न्यायभेदस्य सर्वसम्मतत्वादिति वदन्ति । तच्चिन्त्यम् । एवमपि विषयिणो भेदेऽपि विषयस्यैक्यमेवेति युगत्वानुपपत्तेः । व्यक्तिभेदविवक्षया तथात्वेऽप्यनुपपत्तेः । आनन्त्यात् । निमित्तेति । न च कर्मयोगाभावान्नेयं टिप्पणी । सप्तमीमनुसृत्येदम् । तद्रूपविषयार्थं तयोर्वा विषयार्थं सन्दर्भित इत्यर्थः । न चेह प्रमाणप्रतिपत्तिमात्रं विवक्षितम् , प्रयोजनास्पर्शानातस्तत्साध्यश्रुतप्रयोजनभगवदनुमितिपरतया पदपदं व्याचष्टे । यद्वेत्यादि । नन्वनुमितेः कथमुभयत्वमित्यत्राह। तदुभयेति । यतस्तदुभयोत्पादितं तत्, अतः, तथा चोत्पादकयोरन्वयिव्यतिरेकिणोरुभयत्वादेवानुमितावपि तदिति भावः । पर्य्यवसितार्थं सप्तम्या सहाह । ज्ञानद्वयेति । अत्र ग्रन्थे शब्दादिप्रमाणान्यपि व्युत्पादितानि सन्तीति कथमस्यानुमिति मात्रार्थत्वमत्राह । प्रमाणान्तरेति । तान्यपि साक्षात्परम्परयाऽनुमितावेवोपयोगीनीत्यत्र व्युत्पा- दनतात्पर्य्यम् । अथ शब्दादयोऽपि कथं न स्वतन्त्रप्रमाणतया व्युत्पादनीया इत्याह—