न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 36, कुल 608 में से
संदर्भ में पढ़ें६ न्यायकुसुमाञ्जलौ [ प्रथमः- ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रम- च् चेतो मे रमयत्वविघ्नमनघो न्यायप्रसूनाञ्जलिः ॥ १ ॥ बोधनी । दुपादित्साप्रयोजिकामभिमतफलसाधनतां सूचितवानिति । अन्यत्र अमृतसमरसस्य प्रस्यन्द- मानस्य मकरन्दस्य भूमिरिति । एवमनघः=विशुद्धः, न्यायो नीयते ज्ञाप्यते विवक्षितार्थोऽनेनेति न्यायः परार्थानुमानं, स एव प्रसूनाञ्जलिः । यद्वा न्यायाः प्रसूनानीव तेषामञ्जलिः, विधेय- निषेध्यविषयलिङ्गात्मककरतलद्वयगोचरत्वेन न्यायानामञ्जलित्वमिति । ईशस्य=परमात्मनः परा- पररूपात्मनि पदयुगे निवेशितः । यद्वा, पद्यते गम्यतेऽनेनेति पदं, तद्द्वयमागमप्रामाण्यलिङ्गं कार्यलिङ्गं च तद्विषय इति । अन्यत्र सुगमम् । यथा कुसुमाञ्जलौ भ्रमति भृङ्गः तथा स्वस्मिन् मदीयं साभिलाषमन्तःकरणमविघ्नं रमयतु । यद्वा भृङ्गायमाणं यथा मधुमत्यमधुमति च कुसुमे विवेकानवधारणेन चञ्चलश्चञ्चरीकः, तथा तत्त्वेऽतत्त्वे च वर्त्तमानं सन्दिहानमित्यर्थः, भ्रमच्च कचिद्- तत्त्वमेव तत्त्वतयाऽध्यवस्यन् मदीयं चेतो रमयतु संशयविपर्ययनिरासेन तत्त्वास्पदं करोत्विति । अनघमिति व्यस्तपाठे चेतोविशेषणं, स्वारसिकश्रद्धावत्त्वेन निष्पापं चेत इति; क्रियाविशेषणं वा, प्रकाशः। न्तरव्युत्पादनस्याप्यत्र तदर्थत्वादिति भावः । न तु शब्दानुमानरूपं पदयुगमत्र विवक्षितम्, श्रुतो हि—इत्यादिना तदतीतत्वोप्रदर्शनविरोधात् , ग्रन्थे च शब्दोप्रदर्शनस्याऽनुमाने तदविरो- धमात्रप्रदर्शनतात्पर्य्यकत्वात् । अनघत्वं न्यायानामुपपादयन्नाह । सत्पक्षेति । सति = प्रामाणिके, पक्षे = सिषाधयि- षितसाध्यधर्म्मके धर्म्मिणि, प्रकर्षेण सरो ज्ञानं यस्मात् । अनेनाश्रयासिद्धिवाधसिद्धसाधनस्वरूपा- प्रकाशिका । सप्तमी साधुरिति वाच्यम्। निवेशितो निवेशनां प्रापित इत्यन्तर्भावितकर्मतया तयोरुपपत्तेरिति भावः। अनुमान इति । इदमुपलक्षणम् “अहं सर्वस्य प्रभव” इत्यादेः क्षित्यादिसकर्तृकत्वानुमानोत्थापक- तातात्पर्यकत्वस्यापि भावात् । प्रामाणिक इति । पक्षतावच्छेदकवतीत्यर्थः । तेन काञ्चनम- याद्रिः सकर्तृक इत्यादि न्यायाभासव्युदासः । आश्रयासिद्धेरपि तत्रैव भावात् , असत्पक्षत्वे त्वपार्थ- कतयाऽनघपदादेव व्यावृत्तिः । सिषाधयिषितेति । सिषाधयिषा सिद्धीच्छा सा च साध्यसिद्धि- निवर्त्तनीयेति सिद्धसाधनव्युदासः । धर्म्मिणीति साध्यरूपधर्मवतीत्यर्थः, तेन वाधव्युदासः । न च साध्यधर्मवतीत्यर्थकेन प्रथमपदेनैव तद्व्युदासः । तस्य सिषाधयिषारूपसम्बन्धमात्रतात्पर्यकत्वात् । अन्यथा धर्म्मिणीत्यस्य वैयर्थ्यापत्तेः । न च तस्य हेतुरूपधर्मवतीत्यर्थकस्य स्वरूपासिद्धिर्न्युदासे तात्पर्यम् , भागासिद्धिवारणार्थोपात्तव्याप्यर्थकप्रशब्देनैव तस्य व्युदासात् ज्ञानं हेतोरित्यर्थात् । न मकरन्दः । सप्तमी साधुरिति वाच्यम् । निवेशितो निवेशनां प्रापित इत्यन्तर्भूतकर्मतया तद्योगबलादुपपत्ते- रित्याहुः । प्रामाणिक इति । पक्षतावच्छेदकवतीत्यर्थः । तेन पक्षविशेषणाप्रसिद्ध्याऽऽश्रया- सिद्धिः परिहृता । अन्यथाऽव्यावर्त्तकतापत्तेः । अप्रामाणिकपक्षत्वेऽपार्थकतयाऽनघपदादेव व्यावृत्तेः । प्राचीनमतेनेदमित्यन्ये ॥ सिद्धसाधनवारणायाह । सिषाधयिषितेति । सिषाधयिषितं साध्यं धर्मो यस्येति बाध- टिप्पणी । न तु शब्दानुमानरूपमित्यादि । सिषाधयिषितेति अत्र सिषाधयिषितसाध्यवत्त्वपर्य्यन्त-