न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 37, कुल 608 में से
संदर्भ में पढ़ेंस्तबकः ] न्यायव्यात्रयोपेतप्रकाशशोधनीयुते ७ प्रकाशः । सिद्धिभागासिद्धयो निरस्ताः । तर्कपक्षे सन् = निर्दोषः । पक्षप्रसरः = पक्षव्यापकोऽनिष्टप्रसङ्ग- नरूपस्तर्को यस्मात् । सतां = परामर्शकुशलानाम् । परितः = सपक्षे सत्त्या विपक्षे चासत्त्या यो मलः = सम्बन्धो व्याप्तिरूपस्तस्य यः प्रोद्बोधः = अबाधितप्रतिबन्धनिश्चयः साध्यसाध- प्रकाशिका । चाबाधितेऽपि बाधावतारान्न्यायाभासेऽतिप्रसङ्गः । तस्य व्यतिरेकनिश्चयेनापक्षतया पक्षपदेनैव वार- णात् , तस्य सन्म्यायत्वाद्वा । न च भागासिद्धेऽपि व्याप्त्या ज्ञानमस्त्येवेति तद्व्युदासः, प्रकर्षेण व्याप्त्यालक्षितस्येत्यर्थात् ज्ञानपदस्य प्रमापरत्वाद्वा, प्रकर्षस्यैव व्याप्तिप्रामाण्योभयरूपत्वाद्वा । सन्निर्दोष इति । न चाग्रे परिमलेत्यादिनापाद्यापादकव्याप्तिप्रदर्शनेन मूलशैथिल्यस्य विमर्द्दन- भावेन मिथो विरोधस्य च निरसनात् पौनरुक्त्यमिति वाच्यम् , निर्दोषपदस्य तदतिरिक्तदोषाभा- वपरत्वात् , सामान्याभावे विशेषाभावस्येतरसहकृतस्य हेतुतया हेतुहेतुमद्भावेनान्वयाद्वा । सपक्षे सत्त्येति । न च सपक्षे नावश्यं हेतोः सर्वतः सम्बन्ध इति वाच्यम् , साध्याभावासामानाधिकर- ण्यसहकारस्यैव सर्वतः पदार्थत्वात् । पदार्थविचारपर्यवसितमर्थमाह । अबाधितेति । अन्यथा मकरन्दः । व्युदासः । धर्मिणि हेतुभूतधर्मवतीति स्वरूपासिद्धिव्युदासः । प्रकर्षेण व्याप्त्या, तेन भागासि- द्विव्युदासः । ज्ञानं हेतोरित्यर्थात् । न चाबाधितेऽपि बाधावतारात् तन्नायाभासस्य न व्युदास इति वाच्यम् । व्यतिरेकनिश्चये सिषाधयिषाविरहेण पक्षपदादेव तन्निरासात् । तस्य न्याय- त्वादेव वा । निर्दोष इति । नचाग्रे आपाद्यापादकव्याप्तिप्रदर्शनेन मूलशैथिल्यस्य विमर्दनाभावेन मिथोविरोधस्य च निरसनात् पुनरुक्तिरिति वाच्यम् । विशेषाभावस्य सामान्याभावोपपादकतया हेतुहेतुमद्भावेनान्वयादित्येके । निर्दोषपदं तदतिरिक्तदोषाभावपरमित्यन्ये । एतावता पर्यवसितम- र्थमाह । अबाधितेति । अन्यथा प्रतिबन्धपदार्थानन्वयापत्तेः । टिप्पणी । विवक्षणे धर्मिणीत्यस्य वैयर्थ्यापत्तिः स्यात् , स्वरूपासिद्धिनिरासाय हेतुमतीत्यर्थकत्वमपि तस्य न सम्भवति, तावतापि भागासिद्धेरनिरासेन प्रशब्दज्ञानशब्दाभ्यां हेतोरित्यस्य शेषेण चावच्छेदकाव- च्छेदेन हेतुप्रमाज्ञानस्यावश्यविवक्षणीयतया तेनैव स्वरूपासिद्धेरपि निरासादिति । अथ किं ग्रन्थकृदेवं विधं शब्दमुक्तवान् यत् सत्त्वासत्त्वयोरपि तुल्यैव गतिरिति चेत् । सत्यम् । तुल्यैव, परन्तु केवल मसन्देहार्थं तात्पर्यग्रहार्थञ्च, ततश्च सिषाधयिषितसाध्यके इत्युक्ते हृदादावपि सिषाधयिषितवह्र्यादि- साध्यकानुमित्युत्पादाद् बाधादिनिरासो न स्यादर्थान्तरे तु स वार्थोऽयं वार्थ इति सन्देहः स्याद् , धर्मिणीत्युक्तावुपस्थितत्वात् साध्यरूपधर्म एव गृह्यते, तथा सति साध्यवत्त्वस्य तत्राभिप्रेतत्वमवगत्य तत्पदस्यैव तादृशार्थे तात्पर्यमवधारणीयं भवेदिति । साध्यधर्मक इत्यत्र धर्मपदोपादानं साध्ये प्रामाणिकत्वलाभाय, तेन साध्याप्रसिद्धिनिरासः । आश्रयासिद्धिपदं साध्याप्रसिद्धत्यादेरप्युपलक्षक मिति ध्येयम् । सन्निर्दोषः पक्षप्रसर इत्यादि । न चाग्रे परिमलेत्यादिनापाद्यापादकयोर्व्याप्तिप्रदर्शनेन मूलशैथिल्यनिरासात् निर्दोषपदेन पौनरुक्त्यमिति वाच्यम् । अत्र दोषपदस्य तदितरदोषपरत्वात् सामान्यपरत्वेऽपि अग्रे विशेषाभावस्य तत्प्रयोजकतया विवक्षणे क्षत्यभावः । प्रोद्बोधोऽबाधि- तप्रतिबन्धनिश्चय इति । प्रतिबन्धो व्याप्तिः तस्याबाधितनिश्चयः प्रमात्मकनिश्चयः, नायं प्रोद्बोधपदस्यैवार्थः, अपि तु प्रोद्बोधान्तस्य पर्यवसितार्थः। अन्यथा परिमलपदार्थानन्वयप्रसङ्गः