न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 38, कुल 608 में से
संदर्भ में पढ़ें८ न्यायकुसुमाञ्जलौ [ प्रथमः- बोधनी । ‘अघं’ क्लेशः यथा तन्न स्याद् यथा च विघ्नो न स्यात् तथा रमयतु । अक्लिष्टमविहतश्रद्धायुक्तं यथा स्यात्तथा करोत्वित्यर्थः । प्रकाशः । नयोः, साध्याभावसाधनाभावयोर्वा, आपाद्यापादकयोश्च, तेन बद्धः = स्थिरीकृत उत्सव आनन्दो येन स तथा । नित्यसापेक्षत्वादसमर्थेऽपि समासः । तेनान्वयव्यतिरेकिणि सपक्षसपक्षयोः सत्त्वा- सत्त्वे केवलव्यतिरेकिणि च विपक्षासत्त्वं दर्शितमिति व्याप्यत्वासिद्धिसव्यभिचारविरुद्धनिरासः । विमर्द्दनं = तद्विषयीभूतप्रमाणविरोधिप्रमाणप्रदर्शनम्, तेन न विम्लानो न कार्याक्षम इति सत्प्र- तिपक्षविरहो दर्शितः । ननु तथाविधप्रमाणव्युत्पादनं न स्वतः प्रयोजनं, प्रयोजनवत्सन्निधावश्रवणाच्च न तदङ्गमि- त्यत आह । अमृतेति । अमृतं = मोक्षः, तत्र रस = इच्छा । रस्यमानममृतमिति यावत् । “कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायात् , तस्य प्रस्यन्दः = असम्बद्धसम्बन्धोप- प्रकाशिका । प्रतिबन्धपदार्थानन्वयापत्तेः । अत एव साध्याभावसाधनाभावयोरित्यपि युज्यते । अन्यथा सपक्षे सत्तयेत्यनेनास्यानानन्वयात् , तत्र च हेतोरित्यध्याहारेण सङ्गतिः, न च तथापि व्यतिरेकव्याप्तिस्थले हेतोः सम्बन्ध इत्यनेनानन्वय एवेति वाच्यम् । विपक्षव्यावृत्तेरेव सम्बन्धत्वात् तदिदमुक्तं विपक्षे- चासत्तयेति । ननु बद्धशब्दोऽसमस्तेन सतामिति पदेन सापेक्ष इत्युत्सवपदेनासामर्थ्यान्न समासोचित इत्यत आह । नित्येति । तथाचासमस्तसाकाङ्क्षतायाः समस्यमानापरपदवाकाङ्क्षाविच्छेदकत्वेन दूष- णत्वं-तच्चात्र नास्ति, बद्धशब्दस्य सम्बन्धवाचकतयोभाभ्यां प्रतियोग्यनुयोगिवाचकपदाभ्यां सह नित्यसाकाङ्क्षतयोत्सवपदेन निराकाङ्क्षत्वाभावादित्यर्थः । असमर्थेऽपीति । असमस्तपदसाकाङ्क्षे- ऽपीत्यर्थः । कृदभिहित इति । कृदन्तपदविशेष्यीभूतद्रव्यवाचकपदोपस्थाप्यद्रव्यवत्प्रत्ययविषयो भवति विशेष्यीभूतकृदन्तपदाभिहितोऽपि भावः, तेन रस्यमानममृतमित्यत्रेवामृतरस इत्यत्रान्वय इति भावः । इयञ्च व्युत्पत्तिस्तात्पर्याधीना न तु सर्वत्रेत्यवधेयम् । असम्बन्धेति(१) । प्रस्यन्द- मकरन्दः । नित्येति । सामर्थ्ये समासात् सापेक्षमसर्थं भवतीति यद्यपि सापेक्षे न समासः, तथापि नित्यसापेक्षे तदनिषेधादस्य च तथात्वादत्र समास इत्यर्थः । कृदभिहित इति । कृदभिहितो भावो द्रव्यवत् प्रकाशते, कृदभिहितद्रव्यवद् भासते । तेन रस्यमानममृतमिति यथा कृदभि- हितद्रव्ये प्रत्ययस्तथा द्रव्यसमभिव्याहृतकृदभिहितभावेऽपीत्यर्थः । इदञ्च तात्पर्याधीनेत्या- धेयमित्याहुः ॥ असम्बद्धेति । आद्यक्षणेत्यर्थः । इहापि कृदभिहित इति न्यायात् प्रस्यन्दमानेत्यर्थः । तेन टिप्पणी । स्यात्। साध्यसाधनयोरित्यादेरपि प्रतिबन्धपदार्थ एव निरूपितत्वेनान्वयः । सपक्षे सत्तयेत्यादिना साध्यसाधनयोरित्यस्यानन्वयसम्भवेऽपि साध्याभावसाधनाभावयोरित्यस्यान्वयासम्भव एवेति । साध्या भावसाधनाभावयोरिति तु केवलव्यतिरेक्यभिप्रायेण, तत्र प्रथमं तयोर्व्याप्तिं गृहीतवानन्तरं साध्यसाधनयोस्तद्ग्रह इति ध्येयम् । कृदभिहितो भावो द्रव्यवत्प्रकाशते इति न्यायादिति ( १ ) असम्बद्धेति प्रकाशे पाठः ।