न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 363, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३३१ र्धमित्युक्तम् । अनुपलम्भकाले आभासोपलम्भसामग्र्या अभावात्तत्काले चानुपल- म्भाभावादिति । कस्तर्हि शशशृङ्गं नास्तीत्यस्यार्थः ? । शशे अधिकरणे विषाणाभा- वोऽस्तीति ॥ ३ ॥ बोधनी । तदुत्तरत्वेन श्लोकार्थं विवृणोति अत एव-इति । कस्तर्हि-इति । यद्यशवयनिषेधम् इति । सुहृद्भावेनाह शश इति । प्रमाणसिद्धमेव विषाणं निषिध्यते न त्वाभासप्रतिपन्ने तादृशमेवेति ॥३॥ प्रकाशः । नन्वेवं घटादावपि दोषस्योपलम्भकारणत्वात्तदभावोऽपि न गृहीत । प्रमापकसाकल्यस्य च विव- क्षितत्वे गुणस्यैव प्रमापकस्याभावात् तत्साकल्यासिद्धेः । अत्राहूः । प्रत्यक्षप्रमायामिन्द्रियार्थसन्नि- कर्षस्य गुणत्वात्तस्य च तद्व्याप्यत्वादेव । तदन्यगुणस्य च तत्राकारणत्वात् । घटादौ गुणा- न्यप्रमाकारणत्वेन योग्यता । शशशृङ्गे च न दोषान्यज्ञानकारणत्वेन योग्यता । दोषान्यप्रमापक- स्याभावादित्यन्ये । शश इति । ननु गवि शशशृङ्गं नास्तीतिप्रतीतिवलात् प्रतियोग्यवृत्तित्वेन शशीयत्वेनाव- च्छिन्नः शृङ्गाभावः प्रतीयते । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयित्वात् । मैवम् । प्रतियोगितावच्छेदकधर्मविशिष्टप्रतियोगिज्ञानस्याभावीहेतुतया तादृशप्रतीतेरसिद्धेः । अन्यथा प्रतियोगिनिर्विकल्पकादपि व्यतिरेकप्रतीत्यापत्तेः ॥ ३ ॥ प्रकाशिका । प्रत्यक्षप्रमायामिति । तथा च तत्, तद्व्याप्येतरयावत्तत्प्रमापकसाकल्ये सत्यनुप- लब्धिरभावग्राहिका । गुणस्यार्थनियतत्वेन व्याप्यपदादेव व्यवच्छेदान्नासम्भवः । सा च न शशशृङ्गे तत्प्रमाकासिद्धेः । न च दोषान्यज्ञापकसामग्रीसाकल्यमेव योग्यता तत्साकल्यं चात्मादिकमादाय तत्राप्यस्त्येवेति वाच्यम् । तत्तद्व्याप्येतरस्यावश्यकत्वे गौरवादित्यर्थः । प्रमापकस्येति । ज्ञापकस्येत्यर्थः। अन्य इत्युक्तौ तद्वीजन्तु आत्मादिकमेव दोषान्यज्ञापकमस्ती- ति । वस्तुतोऽसत्ख्यातेः कारणवाधेन निरासे प्रतियोगिज्ञानाभावारोपादेव नालीकाभावप्रतीतिरित्युत्र बाधकं स्मर्त्तव्यम् । प्रतियोगितेति । इदञ्चाभावप्रत्यक्षे एव कारणं प्रमेयोऽभाव इति शब्देन तद् विनापि अभावग्रहात् । वस्तुतोऽभावप्रतीतौ यो धर्मः प्रतियोगिनिष्ठत्वेन भासते तत्प्रकारकप्रतियो- गिज्ञानं कारणं, विशिष्टवैशिष्ट्यज्ञाने सामान्यत एव विशेषणतावच्छेदकप्रकारकविशेषणज्ञानस्य कारण- मकरन्दः । प्रत्यक्षप्रमायामिति । तथा च प्रतियोगितद्व्याप्येतरयावत्प्रमापकसमवधाने सति अनुपलब्धि- रभावग्राहिका, गुणस्य चार्थनियतत्वेन तद्व्याप्यपदेनैव व्यवच्छेदान्नासम्भवः । सा च न शशशृ- ङ्गाभावे, तत्प्रमापकाप्रसिद्धेः, न च दोषान्यज्ञापकसाकल्यं विवक्षितं, तच्चेन्द्रियाद्येव तत्रापि प्रसि- द्धमिति वाच्यम् । गौरवादित्याहुः । वस्तुतोऽसत्ख्यातेः कारणाभावेनानभ्युपगमादलीकस्य नोप- लब्धत्वमपीति न तन्निषेधमिति भावः । प्रमापकस्येति । प्रज्ञापकस्येत्यर्थः । अत्रेदमरुचि- मतिवीजम् । असत्ख्यातिपक्षे दोषान्यज्ञापकमिन्द्रियाद्येव, अन्यथा दोषोऽपि न तज्ज्ञापक इति दोषान्यविशेषणं व्यर्थमिति । प्रतियोगितेति । यद्यपि तादृशज्ञानं विनापि प्रमेयाभाव इति शब्दा- दिनाऽभावग्रहान्न तस्याहेतुत्वं, तथापि प्रत्यक्षे तथात्वं बोध्यम् । यद्यप्याहार्यादिरूपं तादृशज्ञानं प्रकृते सम्भवत्येव, तथाप्यनुमानप्रकाशे मदुक्तमनुसन्धेयम् ॥ ३ ॥ टिप्पणी । दोषान्यप्रमापकस्याभावादित्यन्य इति । असत्ख्यातिपक्षे दोषान्यमिन्द्रियमेव ज्ञापकम् , अन्यथा दोषोऽपि ज्ञापको न स्यादिति दोषान्येति व्यर्थमित्यस्वरसः ॥ ३ ॥ ४ ॥